अत्रि॑णा त्वा क्रिमे हन्मि । कण्वे॑न ज॒मद॑ग्निना । वि॒श्वाव॑सो॒र् ब्रह्म॑णा ह॒तः । क्रिमी॑णाꣳ॒॒ राजा᳚ । अप्ये॑षाꣳ स्थ॒पति॑र्ह॒तः । अथो॑ मा॒ताऽथो॑ पि॒ता । अथो᳚ स्थू॒रा अथो᳚ क्षु॒द्राः । अथो॑ कृ॒ष्णा अथो᳚ श्वे॒ताः । अथो॑ आ॒शाति॑का ह॒ताः । श्वे॒ताभिः॑ स॒ह सर्वे॑ ह॒ताः ।
कोर्वै (Index)
(णॊ कॊर्वै fऒर् थिस् अनुवक्कम् )