उद॑स्य॒ शुष्मा᳚द् भा॒नुर्नार्त॒ बिभ॑र्ति । भा॒रम् पृ॑थि॒वी न भूम॑ । प्र शु॒क्रैतु॑ दे॒वी म॑नी॒षा । अ॒स्मथ् सुत॑ष्टो॒ रथो॒ न वा॒जी । अर्च॑न्त॒ एके॒ महि॒ साम॑ मन्वत । तेन॒ सूर्य॑मधारयन्न् । तेन॒ सूर्य॑मरोचयन्न् । घ॒र्मः शिर॒स्तद॒यम॒ग्निः । पुरी॑षमसि॒ संप्रि॑यम् प्र॒जया॑ प॒शुभि॑र्भुवत् । प्र॒जापति॑स्त्वा सादयतु । तया॑ दे॒वत॑या ऽङ्गिर॒स्वद् ध्रु॒वा सी॑द ।
कोर्वै (Index)
(णॊ कॊर्वै fऒर् थिस् अनुवक्कम्)