विगा इ॑न्द्र वि॒चर᳚न्थ् स्पाशयस्व । स्व॒पन्त॑मिन्द्र पशु॒मन्त॑मिच्छ । वज्रे॑णा॒मुम् बो॑धय दुर्वि॒दत्र᳚म् । स्व॒प॒तो᳚ऽस्य॒ प्रह॑र॒ भोज॑नेभ्यः ॥ अग्ने॑ अ॒ग्निना॒ सम्ॅव॑दस्व । मृत्यो॑ मृ॒त्युना॒ सम्ॅव॑दस्व । नम॑स्ते अस्तु भगवः ॥ स॒कृत्ते॑ अग्ने॒ नमः॑ । द्विस्ते॒ नमः॑ । त्रिस्ते॒ नमः॑ ( ) । च॒तुस्ते॒ नमः॑ । प॒ञ्च॒कृत्व॑स्ते॒ नमः॑ । द॒श॒कृत्व॑स्ते॒ नमः॑ । श॒त॒कृत्व॑स्ते॒ नमः॑ । आ॒स॒ह॒स्र॒कृत्व॑स्ते॒ नमः॑ । अ॒प॒रि॒मि॒त॒कृत्व॑स्ते॒ नमः॑ । नम॑स्ते अस्तु॒ मा मा॑ हिꣳसीः ।
कोर्वै (Index)
(त्रिस्ते॒ नमः॑ स॒प्त च॑)