यास्ते॑ अग्न आ॒र्द्रा योन॑यो॒ याः कु॑ला॒यिनीः᳚ । ये ते॑ अग्न॒ इन्द॑वो॒ या उ॒ नाभ॑यः । यास्ते॑ अग्ने त॒नुव॒ ऊर्जो॒ नाम॑ । ताभि॒स्त्वमु॒भयी॑भिः सम्ॅविदा॒नः । प्र॒जाभि॑रग्ने॒ द्रवि॑णे॒ह सी॑द । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वा सी॑द ।
कोर्वै (Index)
(णॊ कॊर्वै fऒर् थिस् अनुवक्कम्)