अ॒ग्निर॑सि वैश्वान॒रो॑ऽसि । स॒म्ॅव॒थ्स॒रो॑ऽसि परिवथ्स॒रो॑ऽसि । इ॒दा॒व॒थ्स॒रो॑ऽसीदुवथ्स॒रो॑ऽसि । इ॒द्व॒थ्स॒रो॑ऽसि वथ्स॒रो॑ऽसि । तस्य॑ ते वस॒न्तः शिरः॑ । ग्री॒ष्मो दक्षि॑णः प॒क्षः । व॒र्॒.षाः पुच्छ᳚म् । श॒रदुत्त॑रः प॒क्षः । हे॒म॒न्तो मद्ध्य᳚म् । पू॒र्व॒प॒क्षाश्चित॑यः ( ) । अ॒प॒र॒प॒क्षाः पुरी॑षम् । अ॒हो॒रा॒त्राणीष्ट॑काः । तस्य॑ ते॒ मासा᳚श्चार्द्धमा॒साश्च॑ कल्पन्ताम् । ऋ॒तव॑स्ते कल्पन्ताम् । स॒म्ॅव॒थ्स॒रस्ते॑ कल्पताम् । अ॒हो॒रा॒त्राणि॑ ते कल्पन्ताम् । एति॒ प्रेति॒ वीति॒ समित्युदिति॑ । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वा सी॑द ।
कोर्वै (Index)
(चित॑यो॒ नव॑ च)