TA 7.5

7 पञ्चाशत्

T.A.7.5.1
ब्रह्म॒न् प्रच॑रिष्यामः । होत॑र् घ॒र्मम॒भिष्टु॑हि ॥ य॒माय॑ त्वा म॒खाय॑ त्वा । सूर्य॑स्य॒ हर॑से त्वा ॥ प्रा॒णाय॒ स्वाहा᳚ व्या॒नाय॒ स्वाहा॑ ऽपा॒नाय॒ स्वाहा᳚ । चक्षु॑षे॒ स्वाहा॒ श्रोत्रा॑य॒ स्वाहा᳚ । मन॑से॒ स्वाहा॑ वा॒चे सर॑स्वत्यै॒ स्वाहा᳚ । दक्षा॑य॒ स्वाहा॒ क्रत॑वे॒ स्वाहा᳚ । ओज॑से॒ स्वाहा॒ बला॑य॒ स्वाहा᳚ ॥ दे॒वस्त्वा॑ सवि॒ता मद्ध्वा॑ऽनक्तु
कोर्वै (Index)
(अ॒न॒ - क्त्व॒सा॒दी॒ - दु॒त्त॒र॒तः - पा॑हि - प्रति॒मा अ॑सि - यज॒तन्ते॑ अ॒न्यज् - जाग॑तम॒स्येकं॑ च)
T.A.7.5.2
पृ॒थि॒वीं तप॑सस्त्रायस्व । अ॒र्चिर॑सि शो॒चिर॑सि॒ ज्योति॑रसि॒ तपो॑ऽसि । सꣳसी॑दस्व म॒हाꣳ अ॑सि । शोच॑स्व देव॒वीत॑मः । वि धू॒मम॑ग्ने अरु॒षम् मि॑येद्ध्य । सृ॒ज प्र॑शस्त दर्.श॒तम् ॥ अ॒ञ्जन्ति॒ यम् प्र॒थय॑न्तो॒ न विप्राः᳚ । व॒पाव॑न्त॒न्नाग्निना॒ तप॑न्तः । पि॒तुर्न पु॒त्र उप॑सि॒ प्रेष्ठः॑ । आ घ॒र्मो अ॒ग्निमृ॒तय॑न्नसादीत् ।
कोर्वै (Index)
(अ॒न॒ - क्त्व॒सा॒दी॒ - दु॒त्त॒र॒तः - पा॑हि - प्रति॒मा अ॑सि - यज॒तन्ते॑ अ॒न्यज् - जाग॑तम॒स्येकं॑ च)
T.A.7.5.3
अ॒ना॒धृ॒ष्या पु॒रस्ता᳚त् । अ॒ग्नेराधि॑पत्ये । आयु॑र्मे दाः । पु॒त्रव॑ती दक्षिण॒तः । इन्द्र॒स्याधि॑पत्ये । प्र॒जाम् मे॑ दाः । सु॒षदा॑ प॒श्चात् । दे॒वस्य॑ सवि॒तुराधि॑पत्ये । प्रा॒णम् मे॑ दाः । आश्रु॑तिरुत्तर॒तः
कोर्वै (Index)
(अ॒न॒ - क्त्व॒सा॒दी॒ - दु॒त्त॒र॒तः - पा॑हि - प्रति॒मा अ॑सि - यज॒तन्ते॑ अ॒न्यज् - जाग॑तम॒स्येकं॑ च)
T.A.7.5.4
मि॒त्रावरु॑णयो॒राधि॑पत्ये । श्रोत्र॑म् मे दाः । विधृ॑तिरु॒परि॑ष्टात् । बृह॒स्पते॒राधि॑पत्ये । ब्रह्म॑ मे दाः क्ष॒त्रम् मे॑ दाः । तेजो॑ मे धा॒ वर्चो॑ मे धाः । यशो॑ मे धा॒ स्तपो॑ मे धाः । मनो॑ मे धाः ॥ मनो॒रश्वा॑ऽसि॒ भूरि॑पुत्रा । विश्वा᳚भ्यो मा ना॒ष्ट्राभ्यः॑ पाहि
कोर्वै (Index)
(अ॒न॒ - क्त्व॒सा॒दी॒ - दु॒त्त॒र॒तः - पा॑हि - प्रति॒मा अ॑सि - यज॒तन्ते॑ अ॒न्यज् - जाग॑तम॒स्येकं॑ च)
T.A.7.5.5
सू॒प॒सदा॑ मे भूया॒ मा मा॑ हिꣳसीः ॥ तपो॒ ष्व॑ग्ने॒ अन्त॑राꣳ अ॒मित्रान्॑ । तपा॒शꣳस॑मर॒रुषः॒ पर॑स्य । तपा॑ वसो चिकिता॒नो अ॒चित्तान्॑ । वि ते॑ तिष्ठन्ताम॒जरा॑ अ॒यासः॑ ॥ चितः॑ स्थ परि॒चितः॑ । स्वाहा॑ म॒रुद्भिः॒ परि॑श्रयस्व । मा अ॑सि । प्र॒मा अ॑सि । प्र॒ति॒मा अ॑सि
कोर्वै (Index)
(अ॒न॒ - क्त्व॒सा॒दी॒ - दु॒त्त॒र॒तः - पा॑हि - प्रति॒मा अ॑सि - यज॒तन्ते॑ अ॒न्यज् - जाग॑तम॒स्येकं॑ च)
T.A.7.5.6
स॒म्मा अ॑सि । वि॒मा अ॑सि । उ॒न्मा अ॑सि । अ॒न्तरि॑क्षस्यान्त॒र्द्धिर॑सि ॥ दिव॒न्तप॑सस्त्रायस्व । आ॒भिर् गी॒र्भिर् यदतो॑ न ऊ॒नम् । आप्या॑यय हरिवो॒ वर्द्ध॑मानः । य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा रु॒जासि॑ । भू॒यि॒ष्ठ॒भाजो॒ अध॑ ते स्याम ॥ शु॒क्रन्ते॑ अ॒न्यद् य॑ज॒तन्ते॑ अ॒न्यत्
कोर्वै (Index)
(अ॒न॒ - क्त्व॒सा॒दी॒ - दु॒त्त॒र॒तः - पा॑हि - प्रति॒मा अ॑सि - यज॒तन्ते॑ अ॒न्यज् - जाग॑तम॒स्येकं॑ च)
T.A.7.5.7
विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि । विश्वा॒ हि मा॒या अव॑सि स्वधावः । भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॑स्तु ॥ अर्.ह॑न् बिभर्.षि॒ साय॑कानि॒ धन्व॑ । अर्.ह॑न्नि॒ष्कं ॅय॑ज॒तं ॅवि॒श्वरू॑पम् । अर्.ह॑न्नि॒दं द॑यसे॒ विश्व॒-मब्भु॑वम् । न वा ओजी॑यो रुद्र॒ त्वद॑स्ति ॥ गा॒य॒त्रम॑सि । त्रैष्टु॑भमसि । जाग॑तमसि ( ) । मधु॒ मधु॒ मधु॑ ।
कोर्वै (Index)
(अ॒न॒ - क्त्व॒सा॒दी॒ - दु॒त्त॒र॒तः - पा॑हि - प्रति॒मा अ॑सि - यज॒तन्ते॑ अ॒न्यज् - जाग॑तम॒स्येकं॑ च)