शन्नो॒ वातः॑ पवताम् मात॒रिश्वा॒ शन्न॑स्तपतु॒ सूर्यः॑ । अहा॑नि॒ शम् भ॑वन्तु नः॒ शꣳ रात्रिः॒ प्रति॑धीयताम् ॥ शमु॒षा नो॒ व्यु॑च्छतु॒ शमा॑दि॒त्य उदे॑तु नः । शि॒वा नः॒ शन्त॑मा भव सुमृडी॒का सर॑स्वति । मा ते॒ व्यो॑म स॒न्दृशि॑ ॥ इडा॑यै॒ वास्त्व॑सि वास्तु॒मद् वा᳚स्तु॒मन्तो॑ भूयास्म॒ मा वास्तो᳚-श्छिथ्स्मह्य वा॒स्तुः स भू॑या॒द्-यो᳚ऽस्मान् द्वेष्टि॒ यञ्च॑ व॒यं द्वि॒ष्मः ॥ प्र॒ति॒ष्ठाऽसि॑ प्रति॒ष्ठाव॑न्तो भूयास्म॒ मा प्र॑ति॒ष्ठाया᳚- श्छिथ्स्मह्य प्रति॒ष्ठः स भू॑या॒द् यो᳚ऽस्मान् द्वेष्टि॒ यञ्च॑ व॒यं द्वि॒ष्मः ॥ आ वा॑त वाहि भेष॒जम् ॅवि वा॑त वाहि॒ यद्रपः॑ । त्वꣳ हि वि॒श्वभे॑षजो दे॒वानां᳚ दू॒त ईय॑से ॥ द्वावि॒मौ वातौ॑ वात॒ आ सिन्धा॒रा प॑रा॒वतः॑
कोर्वै (Index)
(प॒रा॒वतो॑-दधातु-ब॒द्धान्-जिन्व॑थ-दृ॒शे-+स॒प्त च॑)