TA 7.41

7 पञ्चाशत्

T.A.7.41.1
पृ॒थि॒वी स॒मित् । ताम॒ग्निः समि॑न्धे । साऽग्निꣳ समि॑न्धे । ताम॒हꣳ समि॑न्धे । सा मा॒ समि॑द्धा । आयु॑षा॒ तेज॑सा । वर्च॑सा श्रि॒या । यश॑सा ब्रह्मवर्च॒सेन॑ । अ॒न्नाद्ये॑न॒ समि॑न्ताꣳ॒॒ स्वाहा᳚ ॥ अ॒न्तरि॑क्षꣳ स॒मित्
कोर्वै (Index)
(स॒मिथ् - समि॑न्धे - व्र॒तञ्च॑रिष्या॒ - म्यायु॑षा॒ तेज॑सा॒ - वर्च॑सा श्रि॒या - यश॑सा ब्रह्मवर्च॒सेना॒ - +ष्टौ च॑)
T.A.7.41.2
तां ॅवा॒युः समि॑न्धे । सा वा॒युꣳ समि॑न्धे । ताम॒हꣳ समि॑न्धे । सा मा॒ समि॑द्धा । आयु॑षा॒ तेज॑सा । वर्च॑सा श्रि॒या । यश॑सा ब्रह्मवर्च॒सेन॑ । अ॒न्नाद्ये॑न॒ समि॑न्ताꣳ॒॒ स्वाहा᳚ । द्यौः स॒मित् । तामा॑दि॒त्यः समि॑न्धे
कोर्वै (Index)
(स॒मिथ् - समि॑न्धे - व्र॒तञ्च॑रिष्या॒ - म्यायु॑षा॒ तेज॑सा॒ - वर्च॑सा श्रि॒या - यश॑सा ब्रह्मवर्च॒सेना॒ - +ष्टौ च॑)
T.A.7.41.3
साऽऽदि॒त्यꣳ समि॑न्धे । ताम॒हꣳ समि॑न्धे । सा मा॒ समि॑द्धा । आयु॑षा॒ तेज॑सा । वर्च॑सा श्रि॒या । यश॑सा ब्रह्मवर्च॒सेन॑ । अ॒न्नाद्ये॑न॒ समि॑न्ताꣳ॒॒ स्वाहा᳚ ॥ प्रा॒जा॒प॒त्या मे॑ स॒मिद॑सि सपत्न॒क्षय॑णी । भ्रा॒तृ॒व्य॒हा मे॑ऽसि॒ स्वाहा᳚ ॥ अग्ने᳚ व्रतपते व्र॒तञ्च॑रिष्यामि
कोर्वै (Index)
(स॒मिथ् - समि॑न्धे - व्र॒तञ्च॑रिष्या॒ - म्यायु॑षा॒ तेज॑सा॒ - वर्च॑सा श्रि॒या - यश॑सा ब्रह्मवर्च॒सेना॒ - +ष्टौ च॑)
T.A.7.41.4
तच्छ॑केयं॒ तन्मे॑ राद्ध्यताम् । वायो᳚ व्रतपत॒ आदि॑त्य व्रतपते । व्र॒तानां᳚ ॅव्रतपते व्र॒तञ्च॑रिष्यामि । तच्छ॑केयं॒ तन्मे॑ राद्ध्यताम् ॥ द्यौः स॒मित् । तामा॑दि॒त्यः समि॑न्धे । साऽऽदि॒त्यꣳ समि॑न्धे । ताम॒हꣳ समि॑न्धे । सा मा॒ समि॑द्धा । आयु॑षा॒ तेज॑सा
कोर्वै (Index)
(स॒मिथ् - समि॑न्धे - व्र॒तञ्च॑रिष्या॒ - म्यायु॑षा॒ तेज॑सा॒ - वर्च॑सा श्रि॒या - यश॑सा ब्रह्मवर्च॒सेना॒ - +ष्टौ च॑)
T.A.7.41.5
वर्च॑सा श्रि॒या । यश॑सा ब्रह्मवर्च॒सेन॑ । अ॒न्नाद्ये॑न॒ समि॑न्ताꣳ॒॒ स्वाहा᳚ । अ॒न्तरि॑क्षꣳ स॒मित् । तां ॅवा॒युः समि॑न्धे । सा वा॒युꣳ समि॑न्धे । ताम॒हꣳ समि॑न्धे । सा मा॒ समि॑द्धा । आयु॑षा॒ तेज॑सा । वर्च॑सा श्रि॒या
कोर्वै (Index)
(स॒मिथ् - समि॑न्धे - व्र॒तञ्च॑रिष्या॒ - म्यायु॑षा॒ तेज॑सा॒ - वर्च॑सा श्रि॒या - यश॑सा ब्रह्मवर्च॒सेना॒ - +ष्टौ च॑)
T.A.7.41.6
यश॑सा ब्रह्मवर्च॒सेन॑ । अ॒न्नाद्ये॑न॒ समि॑न्ताꣳ॒॒ स्वाहा᳚ । पृ॒थि॒वी स॒मित् । ताम॒ग्निः समि॑न्धे । साऽग्निꣳ समि॑न्धे । ताम॒हꣳ समि॑न्धे । सा मा॒ समि॑द्धा । आयु॑षा॒ तेज॑सा । वर्च॑सा श्रि॒या । यश॑सा ब्रह्मवर्च॒सेन॑ ( )
कोर्वै (Index)
(स॒मिथ् - समि॑न्धे - व्र॒तञ्च॑रिष्या॒ - म्यायु॑षा॒ तेज॑सा॒ - वर्च॑सा श्रि॒या - यश॑सा ब्रह्मवर्च॒सेना॒ - +ष्टौ च॑)
T.A.7.41.7
अ॒न्नाद्ये॑न॒ समि॑न्ताꣳ॒॒ स्वाहा᳚ । प्रा॒जा॒प॒त्या मे॑ स॒मिद॑सि सपत्न॒क्षय॑णी । भ्रा॒तृ॒व्य॒हा मे॑ऽसि॒ स्वाहा᳚ । आदि॑त्य व्रतपते व्र॒तम॑चारिषम् । तद॑शकं॒ तन्मे॑ऽराधि । वायो᳚ व्रतप॒तेऽग्ने᳚ व्रतपते । व्र॒तानां᳚ ॅव्रतपते व्र॒तम॑चारिषम् । तद॑शकं॒ तन्मे॑ऽराधि ।
कोर्वै (Index)
(स॒मिथ् - समि॑न्धे - व्र॒तञ्च॑रिष्या॒ - म्यायु॑षा॒ तेज॑सा॒ - वर्च॑सा श्रि॒या - यश॑सा ब्रह्मवर्च॒सेना॒ - +ष्टौ च॑)