इ॒षे पी॑पिहि । ऊ॒र्जे पी॑पिहि । ब्रह्म॑णे पीपिहि । क्ष॒त्राय॑ पीपिहि । अ॒द्भ्यः पी॑पिहि । ओष॑धीभ्यः पीपिहि । वन॒स्पति॑भ्यः पीपिहि । द्यावा॑पृथि॒वीभ्या᳚म् पीपिहि । सु॒भू॒ताय॑ पीपिहि । ब्र॒ह्म॒व॒र्च॒साय॑ पीपिहि
कोर्वै (Index)
(ब्र॒ह्म॒व॒र्च॒साय॑ पीपिहि - स्क॒न्दया᳚द् - रु॒द्राय॑ रु॒द्रहो᳚त्रे॒ स्वाहा - ऽह्नो॑ मा पाह् - य॒ग्नौ - +स॒प्त च॑)