TA 7.9

4 पञ्चाशत्

T.A.7.9.1
स॒मु॒द्राय॑ त्वा॒ वाता॑य॒ स्वाहा᳚ । स॒लि॒लाय॑ त्वा॒ वाता॑य॒ स्वाहा᳚ । अ॒ना॒धृ॒ष्याय॑ त्वा॒ वाता॑य॒ स्वाहा᳚ । अ॒प्र॒ति॒धृ॒ष्याय॑ त्वा॒ वाता॑य॒ स्वाहा᳚ । अ॒व॒स्यवे᳚ त्वा॒ वाता॑य॒ स्वाहा᳚ । दुव॑स्वते त्वा॒ वाता॑य॒ स्वाहा᳚ । शिमि॑द्वते त्वा॒ वाता॑य॒ स्वाहा᳚ । अ॒ग्नये᳚ त्वा॒ वसु॑मते॒ स्वाहा᳚ । सोमा॑य त्वा रु॒द्रव॑ते॒ स्वाहा᳚ । वरु॑णाय त्वाऽऽदि॒त्यव॑ते॒ स्वाहा᳚
कोर्वै (Index)
(आ॒दि॒त्यव॑ते॒ स्वाहा॑-हार्दिवा॒नम्-पृ॑थि॒व्या-+अ॒ष्टौ च॑)
T.A.7.9.2
बृह॒स्पत॑ये त्वा वि॒श्वदे᳚व्यावते॒ स्वाहा᳚ । स॒वि॒त्रे त्व॑र्भु॒मते॑ विभु॒मते᳚ प्रभु॒मते॒ वाज॑वते॒ स्वाहा᳚ । य॒माय॒ त्वाऽङ्गि॑रस्वते पितृ॒मते॒ स्वाहा᳚ ॥ विश्वा॒ आशा॑ दक्षिण॒सत् । विश्वा᳚न् दे॒वान॑याडि॒ह । स्वाहा॑कृतस्य घ॒र्मस्य॑ । मधोः᳚ पिबतमश्विना । स्वाहा॒ऽग्नये॑ य॒ज्ञिया॑य । शं ॅयजु॑र्भिः ॥ अश्वि॑ना घ॒र्मम् पा॑तꣳ हार्दिवा॒नम्
कोर्वै (Index)
(आ॒दि॒त्यव॑ते॒ स्वाहा॑-हार्दिवा॒नम्-पृ॑थि॒व्या-+अ॒ष्टौ च॑)
T.A.7.9.3
अह॑र्-दि॒वाभि॑-रू॒तिभिः॑ । अनु॑ वा॒न् द्यावा॑पृथि॒वी मꣳ॑साताम् । स्वाहेन्द्रा॑य ॥ स्वाहेन्द्रा॒वट् । घ॒र्मम॑पातमश्विना हार्दिवा॒नम् । अह॑र्-दि॒वाभि॑रू॒तिभिः॑ । अनु॑ वा॒न् द्यावा॑पृथि॒वी अ॑मꣳसाताम् । तम् प्रा॒व्यं॑ ॅयथा॒ वट् । नमो॑ दि॒वे । नमः॑ पृथि॒व्यै ( )
कोर्वै (Index)
(आ॒दि॒त्यव॑ते॒ स्वाहा॑-हार्दिवा॒नम्-पृ॑थि॒व्या-+अ॒ष्टौ च॑)
T.A.7.9.4
दि॒वि धा॑ इ॒मं ॅय॒ज्ञ्म् । य॒ज्ञ्मि॒मं दि॒वि धाः᳚ । दिव॑ङ्गच्छ । अ॒न्तरि॑क्षङ्गच्छ । पृ॒थि॒वीङ्ग॑च्छ । पञ्च॑ प्र॒दिशो॑ गच्छ । दे॒वान् घ॑र्म॒पान् ग॑च्छ । पि॒तॄन् घ॑र्म॒पान् ग॑च्छ ।
कोर्वै (Index)
(आ॒दि॒त्यव॑ते॒ स्वाहा॑-हार्दिवा॒नम्-पृ॑थि॒व्या-+अ॒ष्टौ च॑)