घर्म॒ या ते॑ दि॒वि शुक् । या गा॑य॒त्रे छन्द॑सि । या ब्रा᳚ह्म॒णे । या ह॑वि॒र्द्धाने᳚ । तान्त॑ ए॒तेनाव॑यजे॒ स्वाहा᳚ ॥ घर्म॒ या ते॒ऽन्तरि॑क्षे॒ शुक् । या त्रैष्टु॑भे॒ छन्द॑सि । या रा॑ज॒न्ये᳚ । याऽऽग्नी᳚द्ध्रे । तान्त॑ ए॒तेनाव॑यजे॒ स्वाहा᳚
कोर्वै (Index)
(याऽऽग्नी᳚द्ध्रे॒ तान्ता॑ ए॒तेनाव॑यजे॒ स्वाहा॒ - धर्म॑णा - शं॒ ॅयुधा॑याः - प्यासिषी॒महि॒-पोषे॑ण॒-निष॑त्तो-वि॒द्म-स॑न्-+त्व॒ष्टौ च॑)