भूर्भुव॒स्सुवः॑ । ऊ॒र्द्ध्व ऊ॒ षुण॑ ऊ॒तये᳚ । ऊ॒र्द्ध्वो नः॑ पा॒ह्यꣳह॑सः ॥ वि॒धुन्द॑द्रा॒णꣳ सम॑ने बहू॒नाम् । युवा॑नꣳ॒॒ सन्त॑म् पलि॒तो ज॑गार । दे॒वस्य॑ पश्य॒ काव्य॑म् महि॒त्वाऽद्या म॒मार॑ । स ह्यः॒ समा॑न ॥ यदृ॒ते चि॑दभि॒श्रिषः॑ । पु॒रा ज॒र्तृभ्य॑ आ॒तृदः॑ । सन्धा॑ता स॒न्धिम् म॒घवा॑ पुरो॒वसुः॑
कोर्वै (Index)
(पु॒रो॒वसु॑र्.हीडिषाताꣳ सुप॒र्णाः)