अनुवाकः 10 TS 1.8.10

(A10)

(प॒शू॒नां-ॅव्राताः॒-पञ्च॑विꣳशतिश्च)

अनुवाकः 10 - Complete Audio

TS 1.8.10 - स्वरानुगामी

0:00 0:00
PS1.1 अ॒ग्नये॑ गृ॒हप॑तये पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पति
PS1.2 कृ॒ष्णानां᳚ व्रीही॒णाꣳ सोमा॑य॒ वन॒स्पत॑ये
PS1.3 श्यामा॒कं च॒रुꣳ स॑वि॒त्रे स॒त्यप्र॑सवाय
PS1.4 पुरो॒डाशं॒ द्वाद॑शकपाल-माशू॒नां ॅव्री॑ही॒णाꣳ रु॒द्राय॑
PS1.5 पशु॒पत॑ये गावीधु॒कं च॒रुं बृह॒स्पत॑ये
PS1.6 वा॒चस्पत॑ये नैवा॒रं च॒रुमिन्द्रा॑य ज्ये॒ष्ठाय॑
PS1.7 पुरो॒डाश॒-मेका॑दशकपालं म॒हाव्री॑हीणां मि॒त्राय॑ स॒त्याया॒ऽऽंबानां᳚
PS1.8 च॒रुं ॅवरु॑णाय॒ धर्म॑पतये यव॒मयं॑
PS1.9 च॒रुꣳ स॑वि॒ता त्वा᳚ प्रस॒वानाꣳ॑
PS1.10 सुवताम॒ग्निर् गृ॒हप॑तीनाꣳ॒॒ सोमो॒ वन॒स्पती॑नाꣳ
PS1.11 रु॒द्रः प॑शू॒नां -[ ]
PS2.1 बृह॒स्पति॑र् वा॒चामिन्द्रो᳚ ज्ये॒ष्ठानां᳚ मि॒त्रः
PS2.2 स॒त्यानां॒ ॅवरु॑णो॒ धर्म॑पतीनां॒ ॅये
PS2.3 दे॑वा देव॒सुवः॒ स्थ त
PS2.4 इ॒म-मा॑मुष्याय॒ण-म॑नमि॒त्राय॑ सुवद्ध्वं मह॒ते क्ष॒त्राय॑
PS2.5 मह॒त आधि॑पत्याय मह॒ते जान॑राज्यायै॒ष
PS2.6 वो॑ भरता॒ राजा॒ सोमो॒ऽस्माकं॑
PS2.7 ब्राह्म॒णानाꣳ॒॒ राजा॒ प्रति॒ त्यन्नाम॑
PS2.8 रा॒ज्य-म॑धायि॒ स्वां त॒नुवं॒ ॅवरु॑णो
PS2.9 अशिश्रे॒च्छुचे᳚र् मि॒त्रस्य॒ व्रत्या॑ अभू॒माम॑न्महि
PS2.10 मह॒त ऋ॒तस्य॒ नाम॒ सर्वे॒
PS2.11 व्राता॒ ( ) वरु॑णस्याभूव॒न्
PS2.12 वि मि॒त्र एवै॒-ररा॑ति-मतारी॒दसू॑षुदन्त य॒ज्ञिया॑
PS2.13 ऋ॒तेन॒ व्यु॑ त्रि॒तो ज॑रि॒माणं॑
PS2.14 न आन॒ड् विष्णोः॒ क्रमो॑ऽसि॒
PS2.15 विष्णोः᳚ क्रा॒न्तम॑सि॒ विष्णो॒र् विक्रा᳚न्त-मसि

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.8.10.1 TS 1.8.10.1
अ॒ग्नये॑ गृ॒हप॑तये पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पति कृ॒ष्णानां᳚ व्रीही॒णाꣳ सोमा॑य॒ वन॒स्पत॑ये श्यामा॒कं च॒रुꣳ स॑वि॒त्रे स॒त्यप्र॑सवाय पुरो॒डाशं॒ द्वाद॑शकपाल-माशू॒नां ॅव्री॑ही॒णाꣳ रु॒द्राय॑ पशु॒पत॑ये गावीधु॒कं च॒रुं बृह॒स्पत॑ये वा॒चस्पत॑ये नैवा॒रं च॒रुमिन्द्रा॑य ज्ये॒ष्ठाय॑ पुरो॒डाश॒-मेका॑दशकपालं म॒हाव्री॑हीणां मि॒त्राय॑ स॒त्याया॒ऽऽंबानां᳚ च॒रुं ॅवरु॑णाय॒ धर्म॑पतये यव॒मयं॑ च॒रुꣳ स॑वि॒ता त्वा᳚ प्रस॒वानाꣳ॑ सुवताम॒ग्निर् गृ॒हप॑तीनाꣳ॒॒ सोमो॒ वन॒स्पती॑नाꣳ रु॒द्रः प॑शू॒नां -[ ]
पदपाठः (Word-by-word)
अ॒ग्नये᳚ । गृ॒हप॑तय॒ इति॑ गृ॒ह - प॒त॒ये॒ । पु॒रो॒डाश᳚म् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । निरिति॑ । व॒प॒ति॒ । कृ॒ष्णाना᳚म् । व्री॒ही॒णाम् । सोमा॑य । वन॒स्पत॑ये । श्या॒मा॒कम् । च॒रुम् । स॒वि॒त्रे । स॒त्यप्र॑सवा॒येति॑ स॒त्य - प्र॒स॒वा॒य॒ । पु॒रो॒डाश᳚म् । द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् । आ॒शू॒नाम् । व्री॒ही॒णाम् । रु॒द्राय॑ । प॒शु॒पत॑य॒ इति॑ पशु - पत॑ये । गा॒वी॒धु॒कम् । च॒रुम् । बृह॒स्पत॑ये । वा॒चः । पत॑ये । नै॒वा॒रम् । च॒रुम् । इन्द्रा॑य । ज्ये॒ष्ठाय॑ । पु॒रो॒डाश᳚म् । एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् । म॒हाव्री॑हीणा॒मिति॑ म॒हा-व्री॒ही॒णा॒म् । मि॒त्राय॑ । स॒त्याय॑ । आ॒बांना᳚म् । च॒रुम् । वरु॑णाय । धर्म॑पतय॒ इति॒ धर्म - प॒त॒ये॒ । य॒व॒मय॒मिति॑ यव - मय᳚म् । च॒रुम् । स॒वि॒ता । त्वा॒ । प्र॒स॒वाना॒मिति॑ प्र - स॒वाना᳚म् । सु॒व॒ता॒म् । अ॒ग्निः । गृ॒हप॑तीना॒मिति॑ गृ॒ह - प॒ती॒ना॒म् । सोमः॑ । वन॒स्पती॑नाम् । रु॒द्रः । प॒शू॒नाम् ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथाभिषेचनीये अग्नीषोमीयस्य पशुपुरोडाशस्यानुनिर्वाप्याण्यष्टौ देवसुवां हवींषि सन्ति, तानि विदधाति - अग्नये गृहपतये इत्यादि ॥ 'देवसुवामेतानि हवीषि भवन्ति' इत्यादि ब्राह्मणम् । देवस्य यजमानस्यानुज्ञातारोग्न्यादयो देवसुवः । गृहाणां पतिस्स्वामी गृहपतिः । 'पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरत्वम् । कृष्णव्रीह्यादयो वाक्यशेषात्प्रायशः प्रसिद्धाः कृष्णवर्णाः, कृष्णाः । व्रीहीणामित्यादौ 'नामन्यतरस्याम्' इति नाम उदात्तत्वम् । वनानां पतिस्स्वामी वनस्पतिः । पारस्करादित्वात्सुट्, 'उभे वनस्पत्यादिषु' इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । श्यामाकाः श्यामाकाख्याः । सवित्रे 'उदात्तयणः' इति विभक्तिरुदात्ता । सत्यप्रसवायामोघाभ्यनुज्ञाय । आशवष्षाष्टिका इत्येके । त्रिपक्षपच्या इत्यन्ये । पशूनां पतिस्स्वमी पशुपतिः । 'परादिश्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । गावीधुकास्तृणतण्डुलाः । बृहतां पतिः बृहस्पतिः । वनस्पतिवत्सुस्वटरौ । वाचस्पतये । 'सावेकाचः' इति षष्ठ्या उदात्तत्वम्, 'षष्ठ्याः पतिपुत्र' इति संहितायां सत्वम् । 'षष्ठीयुक्तच्छन्दसि वा' इति पत्युर्घित्वम् । नीवाराश्शुष्कजलाशयोत्थिताः । ज्येष्ठाय प्रशस्यतमाय । महाव्रीहयश्शालय इति केचित् । स्वयं विशीर्णव्रीहिभ्यस्स्स्वयमुत्पन्ना व्रीहय इत्यन्ये । सत्यस्वरूपाय मित्राय । धर्मपतिः धर्मस्य पाता । पूर्ववत्स्वरः । यवमयं 'द्व्यचश्छन्दसि ' मयट् ॥
12 अथ पुरोडाशस्विष्टकृतः पुरस्तात् ब्रह्मा यजमानस्य हस्तं गृह्णाति - सवितेत्यादि ॥ अत्र प्रसवस्य प्राधान्यात् तृतीयस्सविता प्रथम असीत् । सर्वत्र तादर्थ्ये चतुर्थ्याष्षष्ठी । प्रसवानां प्रसवार्थं सर्वासु प्रवृत्तिष्वनुज्ञानार्थं सविता त्वां सुवतां प्रेरयतु । षू प्रेरणे, प्रेरणमनुज्ञैव । सर्वत्रानुज्ञातो भवेत्यर्यः । थाथादिना प्रसवशब्दोन्तोदात्तः । गृहपतीनामिति । भावप्रधानो निर्देशः । यानि गृहपति त्वानि बहुविधानि तदर्थं सुवताम्, सोमस्त्वां वनस्पत्यर्थं सुवताम्, रुद्रः पशूनां पतिः त्वां पश्वर्थं सुवताम्, वागर्थं बृहस्पतिस्सुवताम्, ज्येष्ठानां ज्येष्ठत्वाय इन्द्रस्सुवताम्, सत्यत्वाय मित्रस्सुवताम्, धर्मपतित्वार्थं वरुणस्सुवताम् । हे देवा अग्न्यादयो वरुणान्ताः ये यूयं देवसुवस्स्थ देवस्य दानादिगुणयुक्तस्य यजमानस्य सवितारः प्रेरकास्स्थ ते यूयं यस्मादेवं प्रसवादीनामनुज्ञातारः तस्मादिममामुष्यायणं सिंहवर्मणः पुत्रं नन्दिवर्माणं अनमित्रायानमित्रत्वाय अविद्यमानशत्रुत्वाय सुवध्वम् । अनुजानीत अशत्रुमेनं कुरुतेत्यर्थः । इममामुष्यायणमिति सर्वनामद्वयं विशेषार्थमुपादीयते । अमुष्यशब्दान्नडादित्वात्फक् । किञ्च - महते च क्षत्राय बलाय महते चाध्तीपत्याय स्वामीत्वाय महते अविच्छिन्नाय च जानराज्याय जनानां राजा जनराजः तद्भावाय । उभयत्रापि गुणवचनत्वात् ष्यञ् । इममायुष्यायणं सुवध्वमित्येव । 'बृहन्महतोरुपसङ्ख्यानम्' इति महतो विभक्तेरुदात्तत्वम् ॥
3 यजमानायतने तिष्ठन् रत्निभ्यो जानपदेभ्योध्वर्युरावेदयते - एष व इति ॥ भरतानां निवासो जनपदो भरताः । 'जनपदे लुप्' । भरतानां राजानोपि भरताः । 'तस्य राजन्यपत्यवत्' इति 'जनपदशब्दात् क्षत्रियादञ्', 'यञिञोश्च' इति बहुषु लुक् । हे भरताः एष वो युष्माकं राजा, योयं राजसूयेन यजते । एवमयं व्याख्यातिगतो भवति, राज्यं चास्मिन् प्रतिहितम् । यद्यसौ भरतानामेव राजा तदानीमेवं, नान्यदा । यथाजनपदमिति केचित् ॥
4 बह्मा जपति - सोम इति ॥ अस्माकं ब्राह्मणानां सोमो राजा, अधुना अयञ्चेति । सर्वदा सराजका एव वयमित्य-

भिप्रायः ॥

5 यजमानो मुखं विमृष्टे - प्रति त्यदिति द्वाभ्यां वारुणीभ्यां त्रिष्टुब्भ्याम् ॥ 'महत ऋतस्य नाम' इति प्रथमाया अन्तः । द्वे अप्यनवसाने । त्यत् एतद्राज्यं नाम नमनीयं प्रत्यधायि मयि प्रतिहितं प्रतिष्ठितमभूत् । यद्वा - छान्दसो लुङ् । प्रतिधीयताम् । 'राज्यमेवास्मिन् प्रतीदधाति' इति ब्राह्मणम् । हेतुमाह - स्वामात्मीयां तनुवं शरीरं अनुज्ञातृस्वभावत्वं यस्माद्वरुणोशिश्रेत् आश्रितवानसीत् मम धर्मपतित्वाभ्यनुज्ञानं कृतवान् । तेन राज्यं प्रत्यधायीति । 'वरुणसवमेवावरुन्धे' इत्यादि ब्राह्मणम् । उदाहरणमात्रं वरुणग्रहणं सवित्रादीनां सर्वेषामपि देवसुवां यथा प्रसूतं राज्यं प्रत्यधायीति वेदितव्यम् । श्रयतेर्लुङि 'बहुलं छन्दसि' इति शपश्श्लुः । किञ्च ; शुचेर्मित्रस्य व्रत्याः कर्मयोग्याः अभूम । 'तत्र साधुः' इति यत् । अत एव महत ऋतस्य च सत्यस्य यज्ञस्य वा नाम नमनं अमन्महि ज्ञातवन्तः । मनुतेर्लङि, शपो लुक् । यद्वा - न केवलं मित्रस्य व्रत्या अभूम ;

अपि तु ऋतस्य च नामाअमन्महीति ॥

6 अथ द्वितीया । किम्बहुना सर्वे ऋत्विजः वरुणस्य व्राताः कर्मयोग्या अभूवन् । छान्दसोऽङ् । मित्र एवैरागमनैः अस्माकमरातिमदानशीलं शत्रुं व्यतारीत् वितारयतु दातारं करोतु । छादसो लुङ् । यदा विपूर्वस्तरतिः विप्लवे वर्तते, विनाशो विप्लवः, चुरादिः, विनाशयत्विर्त्यर्थः । रातेः क्तिचि रातिः, न रातिः अरातिः । यद्वा - अरातिं शत्रुं विशेषेण तारयतु अतिक्रमयतु । किञ्च ; 'यज्ञियाः यज्ञसम्पादनार्हाः ऋत्विजः अस्मानृतेन यज्ञेनासूषुदन्त सूदयन्तु । षूद क्षरणे । रसास्वादनेन सूदयन्तु । 'यज्ञर्त्विग्भ्यां घखञौ' । किञ्च ; उ इति समुच्चये । त्रितोग्निः त्रिभ्यो लोकेभ्य उत्पन्नः, त्रिभ्यो वातिवातेभ्यः, त्रिभिर्वा ब्राह्मणादिभिः, लौकिकैर्वा कृतप्राप्तिः । स त्रितः अस्माकं जरिमाणं स्तोत्रम् । जीर्यतेरौणादिक इमनिच् । जनित्रशब्दाद्वा भावे छान्दस इमनिच्, 'तुरिष्ठेमेयस्सु' इति तृशब्दलोपः । जरिमा स्तोतृत्वं तत् अग्निः, व्यानट् व्याप्नोतु अस्माकं स्तुतिं गृहीत्वा स्तोत्रफलं ददावित्यर्थः । अश्नोतेर्लिङि व्यत्ययेन परस्मैपदं, विकरणव्यत्ययेन श्नम् । नशेर्वा गत्यर्थाल्लुङि 'मन्त्रे घस' इति च्लेर्लुक्, 'छन्दस्यपि दृश्यते' इत्याडागमः । यद्वा - उक्तं ऋतेनास्मानसूषुदन्तेति तदिदमस्माकं जरिमाणं जरां दीर्घायुष्ट्वं व्यानट्प्रापयतु । अन्तर्भावितण्यर्थाल्लुङ् । कियच्चिरमित्याह - उ इत्यप्यर्थे । त्रितोपि त्रिभ्योपि वयोभ्यः पुरस्तात् जरिमाणं नः प्रापयतु सर्वमायुर्जीवयत्वित्यर्थः ॥
7 -9त्रीन्विष्णुक्रमान् प्राचः क्रामति - विष्णोः क्रमोसीति ॥ व्याख्यातम् ॥

इत्यष्टमे दशमोनुवाकः ॥

पञ्चशत् 2 #
TS 1.8.10.2 TS 1.8.10.2
बृह॒स्पति॑र् वा॒चामिन्द्रो᳚ ज्ये॒ष्ठानां᳚ मि॒त्रः स॒त्यानां॒ ॅवरु॑णो॒ धर्म॑पतीनां॒ ॅये दे॑वा देव॒सुवः॒ स्थ त इ॒म-मा॑मुष्याय॒ण-म॑नमि॒त्राय॑ सुवद्ध्वं मह॒ते क्ष॒त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्यायै॒ष वो॑ भरता॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णानाꣳ॒॒ राजा॒ प्रति॒ त्यन्नाम॑ रा॒ज्य-म॑धायि॒ स्वां त॒नुवं॒ ॅवरु॑णो अशिश्रे॒च्छुचे᳚र् मि॒त्रस्य॒ व्रत्या॑ अभू॒माम॑न्महि मह॒त ऋ॒तस्य॒ नाम॒ सर्वे॒ व्राता॒ ( ) वरु॑णस्याभूव॒न् वि मि॒त्र एवै॒-ररा॑ति-मतारी॒दसू॑षुदन्त य॒ज्ञिया॑ ऋ॒तेन॒ व्यु॑ त्रि॒तो ज॑रि॒माणं॑ न आन॒ड् विष्णोः॒ क्रमो॑ऽसि॒ विष्णोः᳚ क्रा॒न्तम॑सि॒ विष्णो॒र् विक्रा᳚न्त-मसि ॥
पदपाठः (Word-by-word)
बृह॒स्पतिः॑ । वा॒चम् । इन्द्रः॑ । ज्ये॒ष्ठाना᳚म् । मि॒त्रः । स॒त्याना᳚म् । वरु॑णः । धर्म॑पतीना॒मिति॒ धर्म॑ - प॒ती॒ना॒म् । ये । दे॒वाः॒ । दे॒व॒सुव॒ इति॑ देव - सुवः॑ । स्थ । ते । इ॒मम् । आ॒मु॒ष्या॒य॒णम् । अ॒न॒मि॒त्राय॑ । सु॒व॒द्ध्व॒म् । म॒ह॒ते । क्ष॒त्राय॑ । म॒ह॒ते । आधि॑पत्या॒येत्याधि॑-प॒त्या॒य॒ । म॒ह॒ते । जान॑राज्या॒येति॒ जान॑-रा॒ज्या॒य॒ । ए॒षः । वः॒ । भ॒र॒ताः॒ । राजा᳚ । सोमः॑ । अ॒स्माक᳚म् । ब्रा॒ह्म॒णाना᳚म् । राजा᳚ । प्रतीति॑ । त्यत् । नाम॑ । रा॒ज्यम् । अ॒धा॒यि॒ । स्वाम् । त॒नुव᳚म् । वरु॑णः । अ॒शि॒श्रे॒त् । शुचेः᳚ । मि॒त्रस्य॑ । व्रत्याः᳚ । अ॒भू॒म॒ । अम॑न्महि । म॒ह॒तः । ऋ॒तस्य॑ । नाम॑ । सर्वे᳚ । व्राताः᳚ ( ) । वरु॑णस्य । अ॒भू॒व॒न्न् । वीति॑ । मि॒त्रः । एवैः᳚ । अरा॑तिम् । अ॒ता॒री॒त् । असू॑षुदन्त । य॒ज्ञियाः᳚ । ऋ॒तेन॑ । वीति॑ । उ॒ । त्रि॒तः । ज॒रि॒माण᳚म् । नः॒ । आ॒न॒ट् । विष्णोः᳚ । क्रमः॑ । अ॒सि॒ । विष्णोः᳚ । क्रा॒न्तम् । अ॒सि॒ । विष्णोः᳚ । विक्रा᳚न्त॒मिति॒ वि - क्रा॒न्त॒म् । अ॒सि॒ ॥(प॒शू॒नां-ॅव्राताः॒-पञ्च॑विꣳशतिश्च) (आ10 )
पदसंख्या: 75