पञ्चशत् 1 #
सोमा॑य पितृ॒मते॑ पुरो॒डाशꣳ॒॒ षट्क॑पालं॒ निर्व॑पति पि॒तृभ्यो॑ बर्.हि॒षद्भ्यो॑ धा॒नाः पि॒तृभ्यो᳚ऽग्निष्वा॒त्तेभ्यो॑ ऽभिवा॒न्या॑यै दु॒ग्धे म॒न्थमे॒तत् ते॑ तत॒ ये च॒ त्वा-मन्वे॒तत् ते॑ पितामह प्रपितामह॒ ये च॒ त्वामन्वत्र॑ पितरो यथाभा॒गं म॑न्दद्ध्वꣳ सुस॒न्दृशं॑ त्वा व॒यं मघ॑वन् मन्दिषी॒महि॑ । प्रनू॒नं पू॒र्णव॑न्धुरः स्तु॒तो या॑सि॒ वशाꣳ॒॒ अनु॑ । योजा॒ न्वि॑न्द्र ते॒ हरी᳚ ॥
पदपाठः (Word-by-word)
सोमा॑य । पि॒तृ॒मत॒ इति॑ पितृ - मते᳚ । पु॒रो॒डाश᳚म् । षट्क॑पाल॒मिति॒ षट् - क॒पा॒ल॒म् । निरिति॑ । व॒प॒ति॒ । पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ । ब॒र्.॒हि॒षद्भ्य॒ इति॑ बर्.हि॒षद्-भ्यः॒ । धा॒नाः । पि॒तृभ्य॒ इति॑ पि॒तृ-भ्यः॒ । अ॒ग्नि॒ष्वा॒त्तेभ्य॒ इत्य॑ग्नि-स्वा॒त्तेभ्यः॑ । अ॒भि॒वा॒न्या॑या॒ इत्य॑भि-वा॒न्या॑यै । दु॒ग्धे । म॒न्थम् । ए॒तत् । ते॒ । त॒त॒ । ये । च॒ । त्वाम् । अन्विति॑ । ए॒तत् । ते॒ । पि॒ता॒म॒ह॒ । प्र॒पि॒ता॒म॒हेति॑ प्र - पि॒ता॒म॒ह॒ । ये । च॒ । त्वाम् । अन्विति॑ । अत्र॑ । पि॒त॒रः॒ । य॒था॒भा॒गमिति॑ यथा - भा॒गम् । म॒न्द॒द्ध्व॒म् । सु॒स॒दृंश॒मिति॑ सु - स॒दृंश᳚म् । त्वा॒ । व॒यम् । मघ॑व॒न्निति॒ मघ॑-व॒न्न् । म॒न्दि॒षी॒महि॑ ॥ प्रेति॑ । नू॒नम् । पू॒र्णव॑न्धुर॒ इति॑ पू॒र्ण - व॒न्धु॒रः॒ । स्तु॒तः । या॒सि॒ । वशान्॑ । अनु॑ ॥ योजा᳚ । नु । इ॒न्द्र॒ । ते॒ । हरी॒ इति॑ ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ पितृयज्ञहवींषि विदधाति - सोमाय पितृमते पुरोडाशमित्यादि ॥ 'संवत्सरो वै सोमः पितृमान्' इत्यादि ब्राह्मणम् । 'ह्रस्वनुडभ्यां मतुप्' इति मतुप उदात्तत्वम् । बर्हिषि सीदन्तीति बर्हिषदः मासाः । अन्त्यलोपश्छान्दसः । तण्डुलप्रभवा लाजा धानाः । अर्धमासाः पितरोग्निष्वात्ताः । 'आदितश्च' इति चकारादिडभावः, तृतीयासमासे 'संज्ञायामनाचितादीनाम्' इत्युत्तरपदान्तोदात्तत्वम् । अभिवान्या अन्यवत्सा[त्स]दोह्या, तस्या दुग्धे सक्तूनोप्य मन्थति स मन्थः । द्रवयुक्तास्सक्तवो मन्थाः । 'अर्ध उपमन्थति' इत्यादि ब्राह्नाणम् ॥
2 हविश्शेषान् सम्प्लोम्नाय पिण्डान् कृत्वा वेद्यास्त्रिसृषु स्रक्तिषु निदधाति पूर्वस्यां दक्षिणस्यां अपरस्यामिति - एतत्ते ततेत्यादि ॥ एनदन्नं ते तव भवतु हे तत तात । ये च त्वामनुगता आश्रिताः अन्ये, तेषाञ्चैतदन्नं भवतु । एतत्ते अन्नं हे पितामह, ये च त्वामनुगताः तेषां च । पितुः पिता पितामहः । एवमेतत्ते अन्नं हे प्रपितामह, ये चान्ये त्वामनुगताः, तेषाञ्च । पितामहस्य पिता प्रपितामहः । अधुना सर्वेपि सामान्येनोच्यन्ते । अत्र अस्मिन् कर्मणि हे पितरः पातारः पितृप्रभृतयो वा पितृपितामहप्रपितामहाः यथाभागं योयो यस्य भागः तेनतेन । 'यथाऽसादृश्ये' इत्यव्ययीभावः । यूयं मन्दध्वं मोदध्वम् । मदि स्तुतिमोदमदस्वप्नगतिषु ॥
3 आहवनीयमुपतिष्ठते - सुसन्दृशमिति पञ्चपदया ऐन्द्रापङ्क्त्या ॥ इन्द्रात्मना स्तूयते । हे मघवन् इन्द्र सुसन्दृशं सुष्ट्वनुग्रहदृष्ट्या सर्वस्य द्रष्टारम् । यद्वा - शोभना सन्दृष्टिर्यस्य द्रष्टॄणां तादृशं त्वां वयं मन्दिषीमहि तर्पयामः । आमन्त्रितस्याविद्यमानवत्त्वान्निघाताभावः, 'लिङ्याशिषि' इत्यार्धधातुकत्वाल्लसार्वधातुकानुदात्तत्वाभावः । त्वञ्च सन्तृप्तः पूर्णवन्धुरः अस्माभिर्दत्तैः हविर्भिः पूरितरथपृष्ठः स्तुतश्च अस्माभिरात्मीयैर्वा वन्दिभिः नूनं प्रयासि, इत्थं कृतकृत्यो यातुमारभसे इति तर्कयामि । पञ्चमो लकारः । प्रजायाः नूनं कृतकृत्य एव वशानिष्टान्देशाननुलक्षीकृत्य प्रयाहि अनुक्रमेण वा । कथं याहीत्याह - योजा योजयित्वा । निपातोयं योजयित्वेति समानार्थः । ते हरितावश्वौ । न्विति क्षिप्रनाम । पुराणवचनो वा, पुरातनी या तव पुराणप्रक्रियेति द्योत्यते । यद्वा - योजा योजनी योगकरी [योजनीयौ गत्वरौ] क्षिप्रं वाहनार्थं रथे । ण्यन्तात्कर्मणि घञ्, 'सुपां सुलुक्' इत्याकारः । लोटि वा विकरणव्यत्ययेन शप्, वर्णव्यत्ययेन तस्याकारः । क्षिप्रं हरी यानार्थं योजयेत्यर्थः ॥
4 गार्हपत्यमुपतिष्ठते - अक्षन्नमीमदन्तेति पञ्चपदया पङ्क्त्या । ह्यन्तः प्रथमः पादः ॥ अक्षन् भुक्तवन्तः । अदेर्लुङि 'लुङ्सनोर्घसॢ' इति घस्लादेशः, 'मन्त्रे घस' इत्यादिना च्लेर्लुक्, घसिभसोर्हलि च' इत्युपधालोपः, 'शासिवसिघसीनाञ्च' इति षत्वम् । अमीमदन्त अतृप्यन् । मद तृप्तियोगे, चौरादिकः, तिङः परत्वान्न निहन्यते, हियोगाद्वा । किञ्च – प्रियाः तनूः अवाधूषत अकम्पयन् भोजनस्य साद्गुण्यमनुस्मृत्येव । घूञ् कम्पने, सिचि व्यत्ययेन गुणाभावः । 'छन्दस्युभयथा' इति सार्वधातुकत्वेन सिचो ङित्त्वाद्वा । अपि च - विप्रा मेधाविनः विशेषज्ञाः स्वभानवः स्वायत्तदीप्तयः अस्तोषत स्तुवन्ति भोजनं, अहो दत्तं मुहुश्श्रद्धया चेति । नविष्ठया नप्तृतमया । णु स्तवने, तृजन्तात् 'तुश्छन्दसि' इतीष्ठन् प्रत्ययः, 'तुरिष्ठेमेयस्सु' इति तृलोपः । मती मत्या । 'सुपां सुलुक्' इति पूर्वसवर्णः, 'मन्त्रे वृष' इति क्तिन उदात्तत्वम् । 'योजा नु' इत्यादि गतम् ॥
5 अन्वाहार्यपचनमुपतिष्ठते - अक्षन् पितर इति ॥ अक्षन् भुक्तवन्तः पितरः पित्रादयः अममिदन्त तृप्ताश्चाभूवन् । अतीतृपन्त अस्मांश्चातर्पयन् । ण्यन्ताल्लुङि च्लेश्चङि 'उरत् ' इत्यत्वम् । अमीमृजन्त शोधितवन्तः अस्मान् ॥
6 पितॄन् प्रवाहयति - परेतेति । पञ्चपदा बृहती ॥ हे पितरः ते यूयं परेत सम्प्रति गृहान् प्रति गच्छत । सोम्यास्सोमार्हाः । 'सोममर्हति' इति यः । गम्भीरः सुलभान्नतोयैः पथिभिः मार्गैः पूर्व्यैः पूर्वकृतैः प्रहतैरित्यर्थः । 'पूर्वैः कृतमिनयौ च' इति यः । अथ तथा गत्वा ते यूयं पितृन् अस्मत्पूर्वपुरुषान् सुविदत्रान् शोभनज्ञानान् कल्याणमतीनिति यावत् । सुष्ठु विन्दतीति सुविदत्राः । 'सुञि विदेः कत्रन्' इति कत्रन्प्रत्ययः, कृदुत्तरपदप्रकृतिस्वरत्वम्, 'दीर्घादटि समानपादे' इति संहितायां रुत्वम् । 'निपातस्य च' इत्यथेत्यस्य दीर्घत्वम् । तानपीत अनुप्राप्नुत एकीभवत । पुनश्च ते विशेष्यन्ते - यमेन ये सधमादं सहस्थानस्थं मदं यथा तथा मदन्ति माद्यन्ति तेन सह मोदन्ते, तानपीतेति । 'सधमादस्थयोः' इति सधादेशः, चौरादिकान्मदेर्ण्यन्तात्क्विप्, क्रियाविशेषणत्वेपि व्यत्ययेन नपुंसकत्वाभावः, णमुलन्तो वा । यमेन सहाभीक्ष्णं मदन्तीति माद्यतेर्व्यत्ययेन शप् । मादयतेर्वा व्यत्ययेन परस्मैपदम्, 'छन्दस्युभयथा' इति सार्वधातुकत्वाण्णिलोपः ॥
7 अथ तैस्सह तं देशं गतमिव कृत्वा मन आह्वयति - मन इति तिसृभिर्गायत्रीभिः ॥ मनः आहुवामहे आह्वयामः । पूर्ववत्सम्प्रसारणम् । नु क्षिप्रं पूर्ववदिति वा । नाराशंसेन नराणां सर्वेषामपि शंसनीयेन मनोहरेण स्तोमेन स्तोत्रेण शस्यन्ते स्तूयन्ते तेन वाचिकेन स्तोमेन मानसेन पितॄणाञ्च मन्मभिः मननीयैरिष्टतमैः स्वधादिभिः पदैर्युक्तेन स्तोमेनाह्वयामहे ॥
8 अथ द्वितीया ॥ तस्मान्नः अस्मान् पुनरैतु । किं प्रयोजनं ? क्रत्वे कर्मणे कर्मानुष्ठानार्थम् । 'जसादिषु वा वचनं प्राङ्णौ चङ्युपधायाः' इति गुणाभावः । दक्षाय क्रियानुष्ठानसामर्थ्याय । तदपि किमर्थं ? इत्याह - जीवसे जीवितुं दीर्घमायुर्यथा स्यात् । 'तुमर्थे सेसेन्' इति सेप्रत्ययः । किमेतावदेव प्रयोजनम् ? ज्योक् चिरं सूर्यं दृशे द्रष्टुं मोक्षार्थञ्चेत्यर्थः । स ह्यात्मेत्युक्तं, आत्मदर्शनाच्च मोक्ष इति, यथा - 'आत्मा वा अरे द्रष्टव्यः' इति । 'दृशे विख्ये च' इति केप्रत्ययान्तो निपात्यते ॥
9 अथ तृतीया ॥ पुनः नः अस्माकं मनः हे पितरः सर्वेषां पातारः । व्यत्ययेन निघाताभावः । युष्मत्प्रसादेन दैव्यः दिवि भवः जनो ददातु । 'देवाद्यञञौ' इति यञ् । वचनव्यत्ययो वा । पितरो ददातु । ततश्च वयं त्वत्प्रसादेन जीवं जीवितं व्रातं सङ्घातात्मानं वर्षशतप्रमाणं सचेमहि सेवेमहि, तादृशजीवितं लभेमहीति ॥
10 गार्हपत्यसमीपं गच्छन् जपति - यदन्तरिक्षमिति षट्पदा शक्वरी । केचित् पङ्क्तिमाहुः ॥ यत् यस्मिन् कर्मणि येन प्रतिषिद्धकरणेन कर्मलोपेन वा यदन्तरिक्षं पृथिवीं अपि च द्यां द्युलोकञ्च जिहिंसिम, येन वा मातरं पितरं वा जिहिंसिम हिंसितवन्तः हिंसितारस्तेषां सम्भवेम । छान्दसो लिट् । अयमग्निर्गार्हपत्यः तस्मात्तन्निमित्तादेनसः पापात्प्रमुञ्चतु । आत्माधीनत्वात्सर्वासामात्मन्येक वचनम् । यानि चान्यानि अज्ञातस्वरूपाणि दुश्चरितानि दुःखादिसाधनानि पापानि वयं चकृम यैर्वयं सर्वस्य लोकस्य हिंसितारस्सम्भवाम ; तस्माच्चैनसो मामग्निः प्रमुञ्चत्वेव । 'शेश्छन्दसि बहुलम्' इति शेर्लोपः । एवं सर्वप्रकाराणां मया मदीयैश्च कृतानां पापानां विमोचनेन मामननेसं करोत्वयमग्निरिति ॥
इत्यष्टमे पञ्चमोनुवाकः ॥