अनुवाकः 5 TS 1.8.5

(A5)

(हरी॒-मन्म॑भि॒रा-चतु॑श्चत्वारिꣳशच्च)

अनुवाकः 5 - Complete Audio

TS 1.8.5 - स्वरानुगामी

0:00 0:00
PS1.1 सोमा॑य पितृ॒मते॑ पुरो॒डाशꣳ॒॒ षट्क॑पालं॒
PS1.2 निर्व॑पति पि॒तृभ्यो॑ बर्.हि॒षद्भ्यो॑ धा॒नाः
PS1.3 पि॒तृभ्यो᳚ऽग्निष्वा॒त्तेभ्यो॑ ऽभिवा॒न्या॑यै दु॒ग्धे म॒न्थमे॒तत्
PS1.4 ते॑ तत॒ ये च॒
PS1.5 त्वा-मन्वे॒तत् ते॑ पितामह प्रपितामह॒
PS1.6 ये च॒ त्वामन्वत्र॑ पितरो
PS1.7 यथाभा॒गं म॑न्दद्ध्वꣳ सुस॒न्दृशं॑ त्वा
PS1.8 व॒यं मघ॑वन् मन्दिषी॒महि॑
PS1.9 प्रनू॒नं पू॒र्णव॑न्धुरः स्तु॒तो या॑सि॒
PS1.10 वशाꣳ॒॒ अनु॑
PS1.11 योजा॒ न्वि॑न्द्र ते॒ हरी᳚
PS2.1 अक्ष॒न्नमी॑मदन्त॒ ह्यव॑ प्रि॒या अ॑धूषत
PS2.2 अस्तो॑षत॒ स्वभा॑नवो॒ विप्रा॒ नवि॑ष्ठया म॒ती
PS2.3 योजा॒ न्वि॑न्द्र ते॒ हरी᳚
PS2.4 अक्ष॑न् पि॒तरोऽमी॑मदन्त पि॒तरोऽती॑तृपन्त पि॒तरोऽमी॑मृजन्त पि॒तरः॑
PS2.5 परे॑त पितरः सोम्या गंभी॒रैः
PS2.6 प॒थिभिः॑ पू॒र्व्यैः
PS2.7 अथा॑ पि॒तृन्थ् सु॑वि॒दत्राꣳ॒॒ अपी॑त
PS2.8 य॒मेन॒ ये स॑ध॒मादं॒ मद॑न्ति
PS2.9 मनो॒ न्वा हु॑वामहे नाराशꣳ॒॒सेन॒
PS2.10 स्तोमे॑न पितृ॒णां च॒ मन्म॑भिः
PS2.11 आ - [ ]
PS3.1 न॑ एतु॒ मनः॒ पुनः॒
PS3.2 क्रत्वे॒ दक्षा॑य जी॒वसे᳚
PS3.3 ज्योक् च॒ सूर्यं॑ दृ॒शे
PS3.4 पुन॑र्नः पि॒तरो॒ मनो॒ ददा॑तु॒
PS3.5 दैव्यो॒ जनः॑
PS3.6 जी॒वं ॅव्रातꣳ॑ सचेमहि
PS3.7 यद॒न्तरि॑क्षं पृथि॒वीमु॒त द्यां ॅयन्मा॒तरं॑
PS3.8 पि॒तरं॑ ॅवा जिहिꣳसि॒म
PS3.9 अ॒ग्निर् मा॒ तस्मा॒देन॑सो॒ गार्.ह॑पत्यः॒
PS3.10 प्र मु॑ञ्चतु दुरि॒ता यानि॑
PS3.11 चकृ॒म क॒रोतु॒ मा-म॑ने॒नसं᳚

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.8.5.1 TS 1.8.5.1
सोमा॑य पितृ॒मते॑ पुरो॒डाशꣳ॒॒ षट्क॑पालं॒ निर्व॑पति पि॒तृभ्यो॑ बर्.हि॒षद्भ्यो॑ धा॒नाः पि॒तृभ्यो᳚ऽग्निष्वा॒त्तेभ्यो॑ ऽभिवा॒न्या॑यै दु॒ग्धे म॒न्थमे॒तत् ते॑ तत॒ ये च॒ त्वा-मन्वे॒तत् ते॑ पितामह प्रपितामह॒ ये च॒ त्वामन्वत्र॑ पितरो यथाभा॒गं म॑न्दद्ध्वꣳ सुस॒न्दृशं॑ त्वा व॒यं मघ॑वन् मन्दिषी॒महि॑ । प्रनू॒नं पू॒र्णव॑न्धुरः स्तु॒तो या॑सि॒ वशाꣳ॒॒ अनु॑ । योजा॒ न्वि॑न्द्र ते॒ हरी᳚ ॥
पदपाठः (Word-by-word)
सोमा॑य । पि॒तृ॒मत॒ इति॑ पितृ - मते᳚ । पु॒रो॒डाश᳚म् । षट्क॑पाल॒मिति॒ षट् - क॒पा॒ल॒म् । निरिति॑ । व॒प॒ति॒ । पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ । ब॒र्.॒हि॒षद्भ्य॒ इति॑ बर्.हि॒षद्-भ्यः॒ । धा॒नाः । पि॒तृभ्य॒ इति॑ पि॒तृ-भ्यः॒ । अ॒ग्नि॒ष्वा॒त्तेभ्य॒ इत्य॑ग्नि-स्वा॒त्तेभ्यः॑ । अ॒भि॒वा॒न्या॑या॒ इत्य॑भि-वा॒न्या॑यै । दु॒ग्धे । म॒न्थम् । ए॒तत् । ते॒ । त॒त॒ । ये । च॒ । त्वाम् । अन्विति॑ । ए॒तत् । ते॒ । पि॒ता॒म॒ह॒ । प्र॒पि॒ता॒म॒हेति॑ प्र - पि॒ता॒म॒ह॒ । ये । च॒ । त्वाम् । अन्विति॑ । अत्र॑ । पि॒त॒रः॒ । य॒था॒भा॒गमिति॑ यथा - भा॒गम् । म॒न्द॒द्ध्व॒म् । सु॒स॒दृंश॒मिति॑ सु - स॒दृंश᳚म् । त्वा॒ । व॒यम् । मघ॑व॒न्निति॒ मघ॑-व॒न्न् । म॒न्दि॒षी॒महि॑ ॥ प्रेति॑ । नू॒नम् । पू॒र्णव॑न्धुर॒ इति॑ पू॒र्ण - व॒न्धु॒रः॒ । स्तु॒तः । या॒सि॒ । वशान्॑ । अनु॑ ॥ योजा᳚ । नु । इ॒न्द्र॒ । ते॒ । हरी॒ इति॑ ॥
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ पितृयज्ञहवींषि विदधाति - सोमाय पितृमते पुरोडाशमित्यादि ॥ 'संवत्सरो वै सोमः पितृमान्' इत्यादि ब्राह्मणम् । 'ह्रस्वनुडभ्यां मतुप्' इति मतुप उदात्तत्वम् । बर्हिषि सीदन्तीति बर्हिषदः मासाः । अन्त्यलोपश्छान्दसः । तण्डुलप्रभवा लाजा धानाः । अर्धमासाः पितरोग्निष्वात्ताः । 'आदितश्च' इति चकारादिडभावः, तृतीयासमासे 'संज्ञायामनाचितादीनाम्' इत्युत्तरपदान्तोदात्तत्वम् । अभिवान्या अन्यवत्सा[त्स]दोह्या, तस्या दुग्धे सक्तूनोप्य मन्थति स मन्थः । द्रवयुक्तास्सक्तवो मन्थाः । 'अर्ध उपमन्थति' इत्यादि ब्राह्नाणम् ॥
2 हविश्शेषान् सम्प्लोम्नाय पिण्डान् कृत्वा वेद्यास्त्रिसृषु स्रक्तिषु निदधाति पूर्वस्यां दक्षिणस्यां अपरस्यामिति - एतत्ते ततेत्यादि ॥ एनदन्नं ते तव भवतु हे तत तात । ये च त्वामनुगता आश्रिताः अन्ये, तेषाञ्चैतदन्नं भवतु । एतत्ते अन्नं हे पितामह, ये च त्वामनुगताः तेषां च । पितुः पिता पितामहः । एवमेतत्ते अन्नं हे प्रपितामह, ये चान्ये त्वामनुगताः, तेषाञ्च । पितामहस्य पिता प्रपितामहः । अधुना सर्वेपि सामान्येनोच्यन्ते । अत्र अस्मिन् कर्मणि हे पितरः पातारः पितृप्रभृतयो वा पितृपितामहप्रपितामहाः यथाभागं योयो यस्य भागः तेनतेन । 'यथाऽसादृश्ये' इत्यव्ययीभावः । यूयं मन्दध्वं मोदध्वम् । मदि स्तुतिमोदमदस्वप्नगतिषु ॥
3 आहवनीयमुपतिष्ठते - सुसन्दृशमिति पञ्चपदया ऐन्द्रापङ्क्त्या ॥ इन्द्रात्मना स्तूयते । हे मघवन् इन्द्र सुसन्दृशं सुष्ट्वनुग्रहदृष्ट्या सर्वस्य द्रष्टारम् । यद्वा - शोभना सन्दृष्टिर्यस्य द्रष्टॄणां तादृशं त्वां वयं मन्दिषीमहि तर्पयामः । आमन्त्रितस्याविद्यमानवत्त्वान्निघाताभावः, 'लिङ्याशिषि' इत्यार्धधातुकत्वाल्लसार्वधातुकानुदात्तत्वाभावः । त्वञ्च सन्तृप्तः पूर्णवन्धुरः अस्माभिर्दत्तैः हविर्भिः पूरितरथपृष्ठः स्तुतश्च अस्माभिरात्मीयैर्वा वन्दिभिः नूनं प्रयासि, इत्थं कृतकृत्यो यातुमारभसे इति तर्कयामि । पञ्चमो लकारः । प्रजायाः नूनं कृतकृत्य एव वशानिष्टान्देशाननुलक्षीकृत्य प्रयाहि अनुक्रमेण वा । कथं याहीत्याह - योजा योजयित्वा । निपातोयं योजयित्वेति समानार्थः । ते हरितावश्वौ । न्विति क्षिप्रनाम । पुराणवचनो वा, पुरातनी या तव पुराणप्रक्रियेति द्योत्यते । यद्वा - योजा योजनी योगकरी [योजनीयौ गत्वरौ] क्षिप्रं वाहनार्थं रथे । ण्यन्तात्कर्मणि घञ्, 'सुपां सुलुक्' इत्याकारः । लोटि वा विकरणव्यत्ययेन शप्, वर्णव्यत्ययेन तस्याकारः । क्षिप्रं हरी यानार्थं योजयेत्यर्थः ॥
4 गार्हपत्यमुपतिष्ठते - अक्षन्नमीमदन्तेति पञ्चपदया पङ्क्त्या । ह्यन्तः प्रथमः पादः ॥ अक्षन् भुक्तवन्तः । अदेर्लुङि 'लुङ्सनोर्घसॢ' इति घस्लादेशः, 'मन्त्रे घस' इत्यादिना च्लेर्लुक्, घसिभसोर्हलि च' इत्युपधालोपः, 'शासिवसिघसीनाञ्च' इति षत्वम् । अमीमदन्त अतृप्यन् । मद तृप्तियोगे, चौरादिकः, तिङः परत्वान्न निहन्यते, हियोगाद्वा । किञ्च – प्रियाः तनूः अवाधूषत अकम्पयन् भोजनस्य साद्गुण्यमनुस्मृत्येव । घूञ् कम्पने, सिचि व्यत्ययेन गुणाभावः । 'छन्दस्युभयथा' इति सार्वधातुकत्वेन सिचो ङित्त्वाद्वा । अपि च - विप्रा मेधाविनः विशेषज्ञाः स्वभानवः स्वायत्तदीप्तयः अस्तोषत स्तुवन्ति भोजनं, अहो दत्तं मुहुश्श्रद्धया चेति । नविष्ठया नप्तृतमया । णु स्तवने, तृजन्तात् 'तुश्छन्दसि' इतीष्ठन् प्रत्ययः, 'तुरिष्ठेमेयस्सु' इति तृलोपः । मती मत्या । 'सुपां सुलुक्' इति पूर्वसवर्णः, 'मन्त्रे वृष' इति क्तिन उदात्तत्वम् । 'योजा नु' इत्यादि गतम् ॥
5 अन्वाहार्यपचनमुपतिष्ठते - अक्षन् पितर इति ॥ अक्षन् भुक्तवन्तः पितरः पित्रादयः अममिदन्त तृप्ताश्चाभूवन् । अतीतृपन्त अस्मांश्चातर्पयन् । ण्यन्ताल्लुङि च्लेश्चङि 'उरत् ' इत्यत्वम् । अमीमृजन्त शोधितवन्तः अस्मान् ॥
6 पितॄन् प्रवाहयति - परेतेति । पञ्चपदा बृहती ॥ हे पितरः ते यूयं परेत सम्प्रति गृहान् प्रति गच्छत । सोम्यास्सोमार्हाः । 'सोममर्हति' इति यः । गम्भीरः सुलभान्नतोयैः पथिभिः मार्गैः पूर्व्यैः पूर्वकृतैः प्रहतैरित्यर्थः । 'पूर्वैः कृतमिनयौ च' इति यः । अथ तथा गत्वा ते यूयं पितृन् अस्मत्पूर्वपुरुषान् सुविदत्रान् शोभनज्ञानान् कल्याणमतीनिति यावत् । सुष्ठु विन्दतीति सुविदत्राः । 'सुञि विदेः कत्रन्' इति कत्रन्प्रत्ययः, कृदुत्तरपदप्रकृतिस्वरत्वम्, 'दीर्घादटि समानपादे' इति संहितायां रुत्वम् । 'निपातस्य च' इत्यथेत्यस्य दीर्घत्वम् । तानपीत अनुप्राप्नुत एकीभवत । पुनश्च ते विशेष्यन्ते - यमेन ये सधमादं सहस्थानस्थं मदं यथा तथा मदन्ति माद्यन्ति तेन सह मोदन्ते, तानपीतेति । 'सधमादस्थयोः' इति सधादेशः, चौरादिकान्मदेर्ण्यन्तात्क्विप्, क्रियाविशेषणत्वेपि व्यत्ययेन नपुंसकत्वाभावः, णमुलन्तो वा । यमेन सहाभीक्ष्णं मदन्तीति माद्यतेर्व्यत्ययेन शप् । मादयतेर्वा व्यत्ययेन परस्मैपदम्, 'छन्दस्युभयथा' इति सार्वधातुकत्वाण्णिलोपः ॥
7 अथ तैस्सह तं देशं गतमिव कृत्वा मन आह्वयति - मन इति तिसृभिर्गायत्रीभिः ॥ मनः आहुवामहे आह्वयामः । पूर्ववत्सम्प्रसारणम् । नु क्षिप्रं पूर्ववदिति वा । नाराशंसेन नराणां सर्वेषामपि शंसनीयेन मनोहरेण स्तोमेन स्तोत्रेण शस्यन्ते स्तूयन्ते तेन वाचिकेन स्तोमेन मानसेन पितॄणाञ्च मन्मभिः मननीयैरिष्टतमैः स्वधादिभिः पदैर्युक्तेन स्तोमेनाह्वयामहे ॥
8 अथ द्वितीया ॥ तस्मान्नः अस्मान् पुनरैतु । किं प्रयोजनं ? क्रत्वे कर्मणे कर्मानुष्ठानार्थम् । 'जसादिषु वा वचनं प्राङ्णौ चङ्युपधायाः' इति गुणाभावः । दक्षाय क्रियानुष्ठानसामर्थ्याय । तदपि किमर्थं ? इत्याह - जीवसे जीवितुं दीर्घमायुर्यथा स्यात् । 'तुमर्थे सेसेन्' इति सेप्रत्ययः । किमेतावदेव प्रयोजनम् ? ज्योक् चिरं सूर्यं दृशे द्रष्टुं मोक्षार्थञ्चेत्यर्थः । स ह्यात्मेत्युक्तं, आत्मदर्शनाच्च मोक्ष इति, यथा - 'आत्मा वा अरे द्रष्टव्यः' इति । 'दृशे विख्ये च' इति केप्रत्ययान्तो निपात्यते ॥
9 अथ तृतीया ॥ पुनः नः अस्माकं मनः हे पितरः सर्वेषां पातारः । व्यत्ययेन निघाताभावः । युष्मत्प्रसादेन दैव्यः दिवि भवः जनो ददातु । 'देवाद्यञञौ' इति यञ् । वचनव्यत्ययो वा । पितरो ददातु । ततश्च वयं त्वत्प्रसादेन जीवं जीवितं व्रातं सङ्घातात्मानं वर्षशतप्रमाणं सचेमहि सेवेमहि, तादृशजीवितं लभेमहीति ॥
10 गार्हपत्यसमीपं गच्छन् जपति - यदन्तरिक्षमिति षट्पदा शक्वरी । केचित् पङ्क्तिमाहुः ॥ यत् यस्मिन् कर्मणि येन प्रतिषिद्धकरणेन कर्मलोपेन वा यदन्तरिक्षं पृथिवीं अपि च द्यां द्युलोकञ्च जिहिंसिम, येन वा मातरं पितरं वा जिहिंसिम हिंसितवन्तः हिंसितारस्तेषां सम्भवेम । छान्दसो लिट् । अयमग्निर्गार्हपत्यः तस्मात्तन्निमित्तादेनसः पापात्प्रमुञ्चतु । आत्माधीनत्वात्सर्वासामात्मन्येक वचनम् । यानि चान्यानि अज्ञातस्वरूपाणि दुश्चरितानि दुःखादिसाधनानि पापानि वयं चकृम यैर्वयं सर्वस्य लोकस्य हिंसितारस्सम्भवाम ; तस्माच्चैनसो मामग्निः प्रमुञ्चत्वेव । 'शेश्छन्दसि बहुलम्' इति शेर्लोपः । एवं सर्वप्रकाराणां मया मदीयैश्च कृतानां पापानां विमोचनेन मामननेसं करोत्वयमग्निरिति ॥

इत्यष्टमे पञ्चमोनुवाकः ॥

पञ्चशत् 2 #
TS 1.8.5.2 TS 1.8.5.2
अक्ष॒न्नमी॑मदन्त॒ ह्यव॑ प्रि॒या अ॑धूषत । अस्तो॑षत॒ स्वभा॑नवो॒ विप्रा॒ नवि॑ष्ठया म॒ती । योजा॒ न्वि॑न्द्र ते॒ हरी᳚ ॥ अक्ष॑न् पि॒तरोऽमी॑मदन्त पि॒तरोऽती॑तृपन्त पि॒तरोऽमी॑मृजन्त पि॒तरः॑ ॥ परे॑त पितरः सोम्या गंभी॒रैः प॒थिभिः॑ पू॒र्व्यैः । अथा॑ पि॒तृन्थ् सु॑वि॒दत्राꣳ॒॒ अपी॑त य॒मेन॒ ये स॑ध॒मादं॒ मद॑न्ति ॥ मनो॒ न्वा हु॑वामहे नाराशꣳ॒॒सेन॒ स्तोमे॑न पितृ॒णां च॒ मन्म॑भिः ॥ आ - [ ]
पदपाठः (Word-by-word)
अक्षन्न्॑ । अमी॑मदन्त । हि । अवेति॑ । प्रि॒याः । अ॒धू॒ष॒त॒ ॥ अस्तो॑षत । स्वभा॑नव॒ इति॒ स्व-भा॒न॒वः॒ । विप्राः᳚ । नवि॑ष्ठया । म॒ती ॥ योजा᳚ । नु । इ॒न्द्र॒ । ते॒ । हरी॒ इति॑ ॥ अक्षन्न्॑ । पि॒तरः॑ । अमी॑मदन्त । पि॒तरः॑ ॥ अती॑तृपन्त । पि॒तरः॑ । अमी॑मृजन्त । पि॒तरः॑ । परेति॑ । इ॒त॒ । पि॒त॒रः॒ । सो॒म्याः॒ । ग॒भीं॒रैः । प॒थिभि॒रिति॑ प॒थि-भिः॒ । पू॒र्व्यैः ॥ अथ॑ । पि॒तॄन् । सु॒वि॒दत्रा॒निति॑ सु - वि॒दत्रान्॑ । अपीति॑ । इ॒त॒ । य॒मेन॑ । ये । स॒ध॒माद॒मिति॑ सध - माद᳚म् । मद॑न्ति ॥ मनः॑ । नु । एति॑ । हु॒वा॒म॒हे॒ । ना॒रा॒शꣳ॒॒सेन॑ । स्तोमे॑न । पि॒तृ॒णाम् । च॒ । मन्म॑भि॒रिति॒ मन्म॑ - भिः॒ ॥ एति॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 1.8.5.3 TS 1.8.5.3
न॑ एतु॒ मनः॒ पुनः॒ क्रत्वे॒ दक्षा॑य जी॒वसे᳚ । ज्योक् च॒ सूर्यं॑ दृ॒शे ॥ पुन॑र्नः पि॒तरो॒ मनो॒ ददा॑तु॒ दैव्यो॒ जनः॑ । जी॒वं ॅव्रातꣳ॑ सचेमहि ॥ यद॒न्तरि॑क्षं पृथि॒वीमु॒त द्यां ॅयन्मा॒तरं॑ पि॒तरं॑ ॅवा जिहिꣳसि॒म । अ॒ग्निर् मा॒ तस्मा॒देन॑सो॒ गार्.ह॑पत्यः॒ प्र मु॑ञ्चतु दुरि॒ता यानि॑ चकृ॒म क॒रोतु॒ मा-म॑ने॒नसं᳚ ॥
पदपाठः (Word-by-word)
न॒ । ए॒तु॒ । मनः॑ । पुनः॑ । क्रत्वे᳚ । दक्षा॑य । जी॒वसे᳚ ॥ ज्योक् । च॒ । सूर्य᳚म् । दृ॒शे ॥ पुनः॑ । नः॒ । पि॒तरः॑ । मनः॑ । ददा॑तु । दैव्यः॑ । जनः॑ ॥ जी॒वम् । व्रात᳚म् । स॒चे॒म॒हि॒ ॥ यत् । अ॒न्तरि॑क्षम् । पृ॒थि॒वीम् । उ॒त । द्याम् । यत् । मा॒तर᳚म् । पि॒तर᳚म् । वा॒ । जि॒हिꣳ॒॒सि॒म ॥ अ॒ग्निः । मा॒ । तस्मा᳚त् । एन॑सः । गार्.ह॑पत्य॒ इति॒ गार्.ह॑-प॒त्यः॒ । प्रेति॑ । मु॒ञ्च॒तु॒ । दु॒रि॒तेति॑ दुः - इ॒ता । यानि॑ । च॒कृ॒म । क॒रोतु॑ । माम् । अ॒ने॒नस᳚म् ॥
पदसंख्या: 44