अनुवाकः 4 TS 1.8.4

(A4)

(ह॒रा॒ नि॒हारं॑-त्रिꣳ॒॒शच्च॑)

अनुवाकः 4 - Complete Audio

TS 1.8.4 - स्वरानुगामी

0:00 0:00
PS1.1 अ॒ग्नयेऽनी॑कवते पुरो॒डाश॑-म॒ष्टाक॑पालं॒ निर्व॑पति सा॒कꣳ
PS1.2 सूर्ये॑णोद्य॒ता म॒रुद्भ्यः॑ सान्तप॒नेभ्यो॑ म॒द्ध्यन्दि॑ने
PS1.3 च॒रुं म॒रुद्भ्यो॑ गृहमे॒धिभ्यः॒ सर्वा॑सां
PS1.4 दु॒ग्धे सा॒यं च॒रुं पू॒र्णा
PS1.5 द॑र्वि॒ परा॑पत॒ सुपू᳚र्णा॒ पुन॒रा
PS1.6 प॑त
PS1.7 व॒स्नेव॒ वि क्री॑णावहा॒ इष॒मूर्जꣳ॑ शतक्रतो
PS1.8 दे॒हि मे॒ ददा॑मि ते॒
PS1.9 नि मे॑ धेहि॒ नि
PS1.10 ते॑ दधे
PS1.11 नि॒हार॒मिन्नि मे॑ हरा नि॒
PS1.12 हारं॒- [ ]
PS2.1 नि ह॑रामि ते
PS2.2 म॒रुद्भ्यः॑ क्री॒डिभ्यः॑ पुरो॒डाशꣳ॑ स॒प्तक॑पालं॒
PS2.3 निर्व॑पति सा॒कꣳ सूर्ये॑णोद्य॒ताऽऽग्ने॒य-म॒ष्टाक॑पालं॒ निर्व॑पति
PS2.4 सौ॒म्यं च॒रुꣳ सा॑वि॒त्रं द्वाद॑शकपालꣳ
PS2.5 सारस्व॒तं च॒रुं पौ॒ष्णं च॒रुमै᳚न्द्रा॒ग्न-मेका॑दशकपाल-मै॒न्द्रं
PS2.6 च॒रुं ॅवै᳚श्वकर्म॒ण-मेक॑कपालं

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.8.4.1 TS 1.8.4.1
अ॒ग्नयेऽनी॑कवते पुरो॒डाश॑-म॒ष्टाक॑पालं॒ निर्व॑पति सा॒कꣳ सूर्ये॑णोद्य॒ता म॒रुद्भ्यः॑ सान्तप॒नेभ्यो॑ म॒द्ध्यन्दि॑ने च॒रुं म॒रुद्भ्यो॑ गृहमे॒धिभ्यः॒ सर्वा॑सां दु॒ग्धे सा॒यं च॒रुं पू॒र्णा द॑र्वि॒ परा॑पत॒ सुपू᳚र्णा॒ पुन॒रा प॑त । व॒स्नेव॒ वि क्री॑णावहा॒ इष॒मूर्जꣳ॑ शतक्रतो ॥ दे॒हि मे॒ ददा॑मि ते॒ नि मे॑ धेहि॒ नि ते॑ दधे । नि॒हार॒मिन्नि मे॑ हरा नि॒ हारं॒- [ ]
पदपाठः (Word-by-word)
अ॒ग्नये᳚ । अनी॑कवत॒ इत्यनी॑क - व॒ते॒ । पु॒रो॒डाश᳚म् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा-क॒पा॒ल॒म् । निरिति॑ । व॒प॒ति॒ । सा॒कम् । सूर्ये॑ण । उ॒द्य॒तेत्यु॑त् - य॒ता । म॒रुद्भ्य॒ इति॑ म॒रुत् - भ्यः॒ । सा॒न्त॒प॒नेभ्य॒ इति॑ सां - त॒प॒नेभ्यः॑ । म॒द्ध्यन्दि॑ने । च॒रुम् । म॒रुद्भ्य॒ इति॑ म॒रुत्-भ्यः॒ । गृ॒ह॒मे॒धिभ्य॒ इति॑ गृहमे॒धि-भ्यः॒ । सर्वा॑साम् । दु॒ग्धे । सा॒यम् । च॒रुम् । पू॒र्णा । द॒र्वि॒ । परेति॑ । प॒त॒ । सुपू॒र्णेति॒ सु - पू॒र्णा॒ । पुनः॑ । एति॑ । प॒त॒ ॥ व॒स्ना । इ॒व॒ । वीति॑ । क्री॒णा॒व॒है॒ । इष᳚म् । ऊर्ज᳚म् । श॒त॒क्र॒तो॒ इति॑ शत-क्र॒तो॒ ॥ दे॒हि । मे॒ । ददा॑मि । ते॒ । नीति॑ । मे॒ । धे॒हि॒ । नीति॑ । ते॒ । द॒धे॒ ॥ नि॒हार॒मिति॑ नि-हार᳚म् । इत् । नीति॑ । मे॒ । ह॒र॒ । नि॒हार॒मिति॑ नि-हार᳚म् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमकाण्डेऽष्टमप्रपाठके चतुर्थोऽनुवाकः)।

तृतीये वरुणप्रघासाख्यं द्वितीयं चातुर्मास्यपर्वोक्तम्। चतुर्थपञ्चमषष्ठेषु साकमेधाख्यं तृतीयं पर्वोच्यते। तच्च पर्व दिनद्वयेऽनुष्ठेयम्। तदाहाऽऽपस्तम्बः — ततश्चेतुर्षु मासेषु पूर्वस्मिन्पर्वण्युपक्रम्य द्व्यहं साकमेधैर्यजत इति।

तत्र प्रथमदिने कर्तव्यानि त्रीणि हवींषि विधत्ते — अग्नयेऽनीकवत इति। अनीकवते सैन्यवते।उद्यता सूर्येण साकमित्युदयकालविधिः। सम्यक्तपनं संतपनं तत्संबन्धिनः सांतपना अनिष्टविनाशिन इत्यर्थः। मेधो यज्ञः, गृहं च मेधश्च तदुभयवन्तो गृहमेधिन उभयपालका इत्यर्थः। सर्वासां यजमानस्य यावत्यो गावः सन्ति तावतीनाम्।

विहितास्विष्टिषु प्रथमोष्टिदेवतागुणं प्रशंसति — "देवासुराः संयत्ता आसन्। सोऽग्निरब्रवीत्। ममेयमनीकवती तनूः। तां प्रीणीत। अथासुरानभिभविष्यथेति। ते देवा अग्नयेऽनीकवते पूरोडाशमष्टाकपालं निरवपन्। सोऽग्निरनीकवान्त्स्वेन भागधेयेन प्रीतः। चतुर्धाऽनीकाम्यजनयत। ततो देवा अभवन्। पराऽसुराः (१) । यदग्नयेऽनीकवते पुरोडाशमष्टाकपालं निर्वपति। अग्निमेवानीकवन्त स्वेन भागधेयेन प्रीणाति। सोऽग्निरनीकवान्त्स्वेन भागधेयेन प्रीतः। चतुर्धाऽनीकानि जनयते" [ब्रा॰ का॰ १ प्र॰ ६ अ॰ ६] इति।

चतसृष्वपि दिक्ष्वसुरानवरोद्धं चतुर्विधानि सैन्यानि।

सूर्योदयकालं प्रशंसति — "असौ वा आदित्योऽग्निरनीकवान्। तस्य रश्मयोऽनीकानि। साक सूर्येणोद्यता निर्वपति। साक्षादेवास्मा अनीकानि जनयति" [ब्रा॰ का॰ १ प्र॰ ६ अ॰ ६] इति।

उष्णात्वादादित्यस्याग्नित्वम्। उत्साहोपेतयोद्धृवत्सर्वतस्त्वरया प्रसराद्रश्मीनामनीकत्वम्।

द्वितीयाया इष्टेर्देवताया गुणं प्रशंसति — "तेऽसुराः पराजिता यन्तः। द्यावापृथिवी उपाश्रयन् (२) । ते देवा मरुद्भ्यः सांतपनेभ्यश्चरुं निरवपन्। तान्द्यावापृथिवीभ्यामेवोभयतः समतपन्। यन्मरुद्भयः सांतपनेभ्यश्चरुं निर्वपति। द्यावापृथिवीभ्यामेव तदुभयतो यजमानो भ्रातृव्यान्त्संतपति" [ब्रा॰ का॰ १ प्र॰ ६ अ॰ ६] इति।

तानसुरान्द्यावापृथिवीभ्यामेव कृत्स्रयोरपि द्यावापृथिव्योरुभयतोऽसुराणामधस्ताञ्चोपरिष्टाच्च समतपन्प्रहाराद्युपद्रवेण संतापितवन्तः।

कालं प्रशंसति— "मध्यदिने निर्वपति। तर्हि हि तेक्ष्णिष्ठं तपति" [ब्रा॰ का॰ १ प्र॰ ६ अ॰ ६] इति।

तर्हि मध्याह्नकाले लेक्ष्णिष्ठमतिशयेन तीक्ष्णं यथा भवति तथा सूर्यस्तपति। हि प्रसिद्धमेतत्।

चरुं प्रशंसति — "चरुर्भवति। सर्वत एवैनान्त्संतपति" [ब्रा॰ का॰ १ प्र॰ ६ अ॰ ६] इति।

चरुपाकभाण्डस्य। सर्वतस्तप्यमानत्वाच्छत्रूणामपि सर्वतः संतापः।

तृतीयेष्टेर्देवताविशेषणं प्रशंसति - "ते देवाः श्री विजयिनः सन्तः। सर्वासां दुग्धे गृहमेधीयं चरुं निरवपन् (३) । आशिता एवाद्योपवसाम। कस्य पा हेदम्। कस्य वा श्वो भवितेति। स शृतोऽभवत्। तस्याहुतस्य नाऽऽश्नन्। नहि देवा अहुतस्याश्नन्ति। तेऽब्रुवन्। कस्मा इम होष्याम इति। मरुद्भ्यो गृहमेधिभ्य इत्यब्रुवन्। तं मरुद्भ्यो गृहमेधिभ्योऽजुहवुः (४) । ततो देवा अभवन्। पराऽसुराः। यस्मैवं विदुषो मरुद्भ्यो गृहमेधिभ्यो गृहे जुह्वति। भवत्यात्मना पराऽस्य भ्रातृव्यो भवति" [ब्रा॰ का॰ १ प्र॰ ६ अ॰ ६] इति।

ते देवा अस्मिन्दिने प्रथमेष्ट्या सैन्यानि संपाद्य द्वितीयेष्ट्या विरोधिनोऽसुरान्सर्वतः संतप्य पुनः परेद्युरपि जेष्याम इत्यभिप्रेत्य गृहमेधीयं निरुप्येत्थं विचारितवन्तः — इदं हविरद्य कस्य वा भवति कस्य वा श्वो भविष्यतीति न ज्ञायते। तस्माद्वयं सह भुक्तवन्त एवाग्निसमीपे वसामेति। एतावति विचारकाले चरुः पक्वोऽभूत्। तदानीं देवा अहुतत्वात्तं चरुं नैवाशितवन्तः। यस्माद्देवाः क्वाप्यहुतं नाश्नन्ति तस्माद्युक्तमेवैतत्। ततस्ते देवाः परस्परं विचारितवन्तः। किमिति, कस्मै देवायेमं चरुं होष्याम इति। ततो निश्चित्य गृहमेधिभ्यो हुत्वा विजयं प्राप्ता असुराश्च पराभूताः।

अस्मिन्कर्मण्याज्यभागौ यजतीत्यादिना कानिचिदङ्गानि विधास्यन्ते। तत्र यावदुक्ताङ्गोपेतमपूर्वमिदं कर्म न तु दर्शपूर्णमासविकृतिरिति जैमिनिर्विचारितवान्। ततोऽर्थप्राप्तः सामिधेन्याद्यभावः। तमिमं विस्पष्टयितुमनुवदाते — "यद्वै यज्ञस्य पाकत्रा क्रियते। पशव्यं तत्। पाकत्रा वा एतत्क्रियते। यन्नेध्माबर्हिर्भवति। न सामिधेनीरन्वाह (५) । न प्रयाजा इज्यन्ते। नानूयाजाः। य एवं वेद। पशुमान्भवति" [ब्रा॰ का॰ १ प्र॰ ६ अ॰ ६] इति।

यज्ञस्य संबन्धि यदनुष्ठानं पाकत्रा पाकेषु पाकयज्ञवदित्यर्थः। तस्य पशव्यत्वं युक्तम्। "पाकयज्ञं वा अन्वाहिताग्नेः पशव उपतिष्ठन्ते" इति श्रुतत्वात्। यस्मादत्रेध्माबर्हिरादयो न सन्ति तस्मादेतत्कर्म पाकयज्ञवदेव क्रियते। प्राप्यमङ्गं विधते — "आज्यभागौ यजति। यज्ञति। यज्ञस्यैव चक्षुषी नान्तरेति" [ब्रा॰ का॰ १ प्र॰ ६ अ॰ ६] इति।

यागवेलायामुद्देश्यां देवतां प्रशंसति — "मरुतो गृहमेधिनो यजति। भागधेयेनैवैनात्न्समर्धयति" [ब्रा॰ का॰ १ प्र॰ ६ अ॰ ६] इति।

उदीच्यमङ्गं विधत्ते — "अग्नि स्विष्टकृतं यजति। प्रतिष्ठित्यै" [ब्रा॰ का॰ १ प्र॰ ६ अ॰ ६] इति।

अङ्गान्तरं विधत्ते — "इडान्तो भवति। पशवो वा इडा। पशुष्वेवोपरिष्टात्प्रतितिष्ठति (६)" [ब्रा॰ का॰ १ प्र॰ ६ अ॰ ६] इति।

अर्थसिद्धं चतुर्धाकरणाद्युदीच्याङ्गान्तराभावं द्योतयितुमन्तशब्दः।

तदेवमनुब्राह्मणगतेनैकेनानुवाकेन पूर्वदिनेऽनुष्ठेया मुख्यब्राह्मणविहितास्तिस्र इष्टयो व्याख्या-ताः। अनुवाकान्तरेण द्वितीयदिने कर्तव्यत्वेन विहिता इष्टयो व्याख्यातव्याः। तत्राऽऽदौ तावद्गृहमेधीयशेषभूतं किंचिदङ्गं विधातुं प्रस्तौति-

"यत्पत्नी गृहमेधीयस्याश्नीयात्। गृहमेध्येव स्यात्। वि त्वस्य यज्ञ ऋध्येत। यन्नाश्नीयात्। अगृहमेधी स्यात्। नास्य यज्ञो व्यृध्येत" [ब्रा॰ का॰ १ प्र॰ ६ अ॰ ७] इति।

यदि पत्नी गृहमेधीयस्य चरोर्भागं भुञ्जीत तदा यजमानो गृहेण यज्ञेन चोपेतो भवति। किंत्वस्मिन्पक्षे यजमानस्य यज्ञो व्यृद्धो भवेत्। अभोजनपक्षे तु व्यृद्धत्वदोषो न भवति। किंतु गृहमेधित्वाभावः।

विधत्ते — "प्रतिवेशं पचेयुः। तस्याश्नीयात्। गृहमेध्येव भवति। नास्य यज्ञो व्यृध्यते (१)" [ब्रा॰ का॰ १ प्र॰ ६ अ॰ ७] इति।

प्रातिस्विकत्वेन पत्नीं विशतीति प्रतिवेशः पत्न्यर्थ ओदनस्तं दक्षिणाग्रौ पक्तारः पचेयुः। तथा चाऽऽपस्तम्बः — "दक्षिणाग्नौ पन्त्याः प्रतिवेशमोदनं पचति" इति। पत्नी तमोदनमश्नीयात्ततो नोक्तदोषद्वयम्। अभोजनाभावाद्गृहमेधीयभोजनाभावाच्च।

भोजनादीन्विधातुं प्रस्तौति — "ते देवा गृहमेधीयेनेष्ट्वा। आशिता अभवन्। आञ्जाताभ्यञ्जत। अनु वत्सानवासयन्। तेभ्योऽसुराः क्षुधं प्राहिण्वन्। सा देवेषु लोकमावित्त्वा। असुराम्पुनरगच्छत्" [ब्रा॰ का॰ १ प्र॰ ६ अ॰ ७] इति।

आशिता भुक्तवन्तः। आञ्जत नेत्रयोरञ्जनं प्रक्षिप्तवन्तः। अभ्यञ्जताभ्यङ्गंकृतवन्तः। धेनुरनु वत्सानवासयन्स्तनपानार्थमवासृजन्। तदानीमसुरा देवानां समीपे क्षुधं प्रेरितवन्तः सा च क्षुत्तेषु तृप्तेषु देवेषु स्थानमलब्ध्वा पुनरप्यसुरानेव प्राप्नोत्।

विधत्ते — "गृहमेधीयेनेष्ट्वा। आशिता भवन्ति। आञ्जतेऽभ्यञ्जते (२) । अनु वत्सान्वासयन्ति। भातृव्यायैव तद्यजमानःक्षुधं प्रहिणोति" (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ७) इति।

तदेतदभिप्रेत्य पूर्वमाशिता एवाद्योपवसामेत्यादिर्देवविचार उपा(दा)हृतः। अत्र गृहमेधीयसंनिधौ द्वौ मन्त्रावाम्नातौ। तयोर्विनियोगमापस्तम्ब आह —

"शरनिष्कासस्य दर्वीं पूरयित्वा वृषभमाहूय तस्य रवते पूर्णा दर्वि परा पतेत्यनुद्रुत्योत्तरया गार्हपत्ये जुहुयाद्यद्दृषभो न रुयाद्ब्रह्मा ब्रूयाज्जुहुधीति" इति। पच्यमाने चरौ क्षीरमण्डवद्घनीभूतो योंऽश उपरि तिष्ठति सोऽयं शरनिष्कासः। तस्य रवते वृषभस्य शब्दे निष्पन्ने सति।

प्रथममन्त्रपाठस्तु — पूर्णा दर्वीति। हे दर्वि त्वं शरनिष्कासेन पूर्णा सती परापतेन्द्रं प्रति गच्छ। तत्प्रसादाद्धनेन तज्जन्यबलेन सुपूर्णा सती पुनरस्मान्प्रत्यागच्छ। हे शतक्रतो, आवां वस्नेव विक्रीणावहै। यथा लोके कश्चित्स्वकीयं धनं दत्त्वा तण्डुलादिकं क्रीणाति तद्वदहमिन्द्राय तुभ्यं शरनिष्कासं दत्त्वा त्वत्त इषमूर्जं च क्रीणामि। तदिदमुच्यते-वस्नेव वसुनेव धनेनेव विक्रीणावहा इति।

द्वितीयमन्त्रपाठस्तु — देहि म इति। हे इन्द्र मे यदपेक्षितं तत्त्वं देहि। तव यदपेक्षितं तदहं ददामि। दत्त्वा च त्वं मम समीपे निधेह्यवस्थापय। तव समीपेऽहमवस्थापयामि। तदुभयं सकृदेव न भवति, किंतु निहारमित्पुनः पुनर्निर्हृत्यैव समानीयैव मे समीपे निहर नितरां स्थापय। अहमपि पुनः पुनर्निर्हृत्य ते समीपे स्थापयामि।

यथोक्तं निष्कासहोमं प्रस्तौति — "ते देवा गृहमेधीयेनेष्ट्वा। इन्द्राय निष्कासं न्यदधुः। अस्मानेव श्व इन्द्रो निहितभाग उपावर्तत" (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ७) इति।

उपावर्तिता समीपमागमिष्यति। उपावर्तत समीपामागच्छत्।

विधत्ते — "गृहमेधीयेनेष्ट्वा। इन्द्राय निष्कासं निदध्यात्। इन्द्र एवैनं निहितभाग उपावर्तते" (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ७) इति।

होमाय प्राप्तमाहवनीयं वारयितुं विधत्ते –– "गार्हपत्ये जुहोति (३) । भागधेयैनैवैन समर्धयति" (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ७) इति।

यागकाले ध्वनिं कर्तुमृषभस्याऽह्वानं विधत्ते –– "ऋषभमाह्वयति। वषट्कार एवास्य सः। अथो इन्द्रियमेव तद्वीर्यं यजमानो भ्रातृव्यस्य वृङ्क्ते" (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ७) इति।

द्वितीयदिनेऽनुष्ठेयानि नव हवींषि विधत्ते –– मरुद्भ्य इति। आद्यस्य हविष उत्तरहविरष्टकस्य च कालभेदात्प्रयोगभेदो द्रष्टव्यः। क्रीडैषामस्तीति क्रीडिनस्तदेतत्क्रीडित्वं विशेषणम्।

तस्य हविषः पाठप्राप्तं प्राथम्यं च(?) प्रशंसति–– "इन्द्रो वृत्र हत्वा। परां परावतमगच्छत्। अपाराधमिति मन्यमानः। सोऽब्रवीत्। क इदं वेदिष्यतीति। तेऽब्रुवन्मरुतो वरं वृणामहै (४) । अथ वयं वेदाम। अस्मभ्यमेव प्रथम हविर्निरुप्याता इति। त एनमध्यक्रीडन्। तत्क्रीडिनां क्रीडित्वम्। यन्मरुद्भ्यः क्रीडिभ्यः प्रथम हविर्निरुप्यते विजित्यै। (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ७) इति।

परां परावतमत्यन्तदुरम्। अपाराधं द्रोहमकार्षम्। भीत्या पलायमानः स इन्द्रो मरुतां समीपे किंचिदब्रवीत् – वृत्रो मृतो न वेतीदं समीपे गत्वा को वेदिष्यतीति। ते च मारुतो वरे दत्ते वेदिष्याम इत्यब्रूवन्। इतरेभ्योऽग्न्यादिभ्यः प्रथमो निर्वापो वरः। ततस्ते मरुत एनं भूमौ पतितं वृत्रमधिरुह्य बहुविधेन नृत्येनाक्रीडन्। क्रीडित्वा च मृतोऽयमिति ज्ञातवन्तः। तस्मादेतेषां क्रीडित्वं विशेषणं संपन्नम्।

निर्वापकालं प्रशंसति–– "साक सूर्येणोद्यता निर्वपति। एतस्मिन्वै लोक इन्द्रो वृत्रमहन्त्समृद्ध्यै" (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ७) इति।

एतस्मिन्नेव लोके सूर्योदयेनावलोक्यमानभूप्रदेशे।

वैश्वदेवपर्वण्युक्तमाग्नेयादिपञ्चकप्रशंसकं वरुणप्रघासपर्वण्युक्तमैन्द्राग्नप्रशंसकं च ब्राह्मणमत्रादितिशति–– "एतद्ब्राह्मणान्येव पञ्च हवीषि। एतद्ब्राह्मण ऐन्द्राग्नः" (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ७) इति।

चरोरैन्द्रत्वं प्रशंसति–– "अथैष ऐन्द्रश्चरुर्भवति। उद्धारं वा एतमिन्द्र उदहरत। वृत्र हत्वा। अन्यासु देवतास्वधि। यदेष ऐन्द्रश्चरुर्भवति। उद्धारमेव तं यजमान उद्धरते। अन्यासु प्रजास्वधि" (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ७) इति।

अन्यास्वग्न्यादिदेवतास्वधिकोऽयमित्यतेमुद्धारमपत्कर्षाभिमानमुदहरतोत्पादितवान्।

विश्वकर्मरूपामन्त्यहविषो देवतां प्रशंसति–– "वैश्वकर्मण एककपालो भवति। विश्वान्येव तेन कर्माणि यजमानोऽवरुन्धे (५)"(ब्रा॰ का॰ १ प्र॰ ६ अ॰ ७) इति।

अत्र विनियोगसंग्रहः — "पूर्णेत्यनूच्य देहीति याज्यामध्वर्युरीरयेत्"॥१॥ इति।

अथ मीमांसा।

पञ्चमाध्यायस्य प्रथमपादे चिन्तितम्––

"साकमेधेष्टयस्तिस्रो द्व्यहे स्युः सद्य एव वा।

प्रातरादेर्द्वयोरह्नीः सत्त्वात्प्रकृतिवद्द्व्यहे॥

साङ्गमुख्यानुरोधेन प्रातरादेर्विधानतः।

श्रौतं सद्यस्त्वमन्यत्तु चोदकात्तेन दुर्बलम्"॥

चातुर्मास्येषु साकमेधानामके तृतीये पर्वणि श्रूयते – "अग्नयेऽनीकवते पुरोडाशमष्टाकपालं निर्वपति साक सूर्योणोद्यता मरुद्भ्यः सांतपनभ्यो मध्यंदिने चरुं मरुद्भ्यो गृहमेधिभ्यः सर्वासां दुग्धे सायं चरुम्" इति। ता एतास्तिस्र इष्टयो द्व्यहकालीना यथा प्रकृतौ पर्वण्यन्वाधानादिकं प्रतिपदीष्टिरिति द्व्यहकालीनत्वं तद्वत्। ननु प्रातर्मध्यंदिनसायंशब्दैरेकस्मिन्नेवाह्नि त्रयः कालास्तिसृणामिष्टीनां विहिताः। तन्न। द्वयोरप्यह्नोः (प्रातरादिकालसद्भावात्। पूर्वेद्युः) प्रातरादिकालेषु स्वकीयेषु तासामुपक्रमः। परेद्युः प्रातरादिषु ताः समापनीयाः। ततो द्व्यहकालीनतेति प्राप्ते ब्रूमः — तत्राग्नयेऽनीकवते प्रातरष्टाकपालं निर्वपतीति साङ्गं प्रधानं प्रातःकालीनतया विधीयते। प्रातःशब्दश्च स्वत एकमेव प्रातःकालमभिधाय पर्यवस्यति। प्रातरग्निहोत्रमित्यादौ तद्दर्शनात्। तस्मात्सङ्गस्य प्रधानस्यैकस्मिन्नेव प्रातःकाले विधानात्सद्यस्कालीनत्वं श्रौतं, चोदकेन त्वन्वाधानाद्यङ्गं पूर्वेद्युः प्रातरिति कल्प्यते। उपदेशश्चोदकाद्बलीयान्। तस्मादेकाहकालीना इष्टयो द्रष्टव्याः।

सप्तमाध्यायस्य प्रथमपादे चिन्तितम्––

"किं वैश्वदेविकादेककपालादतिदेशनम्।

साकमेधेषु वरुणप्रघासस्थादुताग्रिमः॥

प्रकृतावर्थबाहुल्यादन्तिमः संनिधानतः॥

ऐन्द्राग्नसाहचर्याच्च सार्थत्वमधिकत्वतः॥"

वैश्वदेवे द्यावापृथिव्य एककपालो वरुणप्रघासेषु काय एककपालस्तयोः पृथग्ब्राह्मणमाम्नातम्। साकमेधेषु वैश्वकर्मण एककपालस्तस्मिन्वैश्वदेविकैककपालब्राह्माणमतिदेष्टव्यम्। कुतः। प्रकृतित्वेन तस्मिन्नुपदिश्यमानधर्मबाहुल्यात्। वारुणप्रघासिकस्य तद्विकृतित्वादल्पा एव धर्मविशेषा उपदिष्टाः शमीमय्यो हिरण्यय्यो वा स्रुचो भवन्तीत्यादयः तत्र बह्वनुग्रहो न्याय्य इति प्राप्ते ब्रमः — वारुणप्रघासिकब्राह्मणस्य प्रात्यासन्नत्वात्तस्यैवातिदेशो युक्तः। ऐन्द्राग्नब्राह्मणं तत्रत्यमेवातिदिश्यते। वैश्वदेवे तदभावात्। तत्साहचर्यादिदमपि तत्रत्यमेव। ननु प्रकृतिभावा(भूता)द्वैश्वदेविकैककपालादेर्वारुणप्रघासिकवत्साकमेधीयेऽपि चोदकेन धर्मातिदेशसिद्धौ ब्राह्मणातिदेशकं वाक्यमिदं व्यर्थमिति चेत्। न। हिरण्मयत्वाद्यधिकधर्मातिदेशायापोक्षितत्वात्। तस्माद्वारुणप्रघासिकैककपालब्राह्मणस्यैवातिदेशः।

दशमाध्यायस्य सप्तमपादे चिन्तितम्––

"गृहमेधीयके त्वाज्यभागावित्यनुवादगीः।

स चोदकविधिर्वाऽर्थवादो वाऽधिककर्म वा॥

परिसंख्योत संकोच्यश्चोदकोऽन्यत्र वाऽत्र वा।

अपूर्वं गृहमेधीयं स्याद्वाऽतो लुप्तचोदकम्॥

अनुवादः पुनः श्रुत्या द्वितीयः सार्धतावशात्।

निर्वापवच्चोदकस्य लिङ्गत्वेन सहायता॥

चोदनेनैव तत्सिद्धेरैष्टिकस्य प्रशंसनम्।

विध्येकवाक्यता नास्ति तेनात्राङ्गान्तरे विधिः॥

प्रत्यभिज्ञानतोऽङ्गस्य परिसंख्येतरस्य हि।

दोषत्रयाच्चोदकस्य संकोचोऽङ्गान्तरेष्वतः॥

व्यापारैक्याच्चोदकस्य स्वार्थे संहरणं भवेत्।

वैरूप्याच्च निरर्थत्वादपूर्वं कर्म युज्यते॥

आज्यभागेतिनाम्नोपकारकॢप्तिस्मृतेरिदम्।

नामत्वादि समं तस्माल्लुप्यते तेन चोदकः"॥

"मरुद्भयो गृहमेधिभ्यः सर्वासां दुग्धे सायमोदनम्" इति विहिते गृहमेधीये श्रूयते––"आज्यभागौ यजति" इति। अष्टधाऽत्र संशयः — चोदकप्राप्तयोरा-ज्यभागयोरिह पुनः श्रवणादनुवादोऽयमित्याद्यः पक्षः। तथा सति वैयर्थ्यप्रसङ्गात्सार्थकत्वाय चोदकैतद्वाक्ययोर्मिलितयोरत्राऽऽज्यभागविधायकत्वमभ्युपेतव्यम्। ओषधिद्रव्यनिर्वापादयो यथा प्रकृतिगताः सन्तो विकृतावपि श्रूयमाणाश्चोद-कस्य लिङ्गं तथाऽऽज्यभागावपि लिङ्गत्वेन सहायभूतौ। ततो मिलितयोर्विधायकत्वमिति द्वितीयः पक्षः। गृहमेधीयविधिवाक्ये श्रुतस्यौदनस्यैवौषधिद्रव्यतया लिङ्गत्वसिद्धेर्नास्ति लिङ्गान्तरापेक्षा। तस्मात्प्रकृताविष्टौ श्रुतस्याऽऽज्यभागकर्मण इह पुनः श्रवणमर्थवादत्वेन तत्प्रशंसार्थमिति तृतीयः पक्षः। भिन्नप्रकरणे श्रुतस्य विध्येकवाक्यत्वायोगादर्थवादत्वमयुक्तम्। ततश्चोदकप्राप्तादाज्यभागादिकर्मणोऽधिकमाज्यभागरूपमङ्गान्तरमिह विधीयत इति चतुर्थः पक्षः। ऐष्टिकयोराज्यभागयोरिह प्रत्यभिज्ञानान्नाङ्गान्तरत्वं युक्तम्। तस्मादाज्यभागव्यतिरिक्तस्य प्रयाजाद्यङ्गस्य परिसंख्यानार्थमिदमाज्यभागश्रवणमिति पञ्चमः पक्षः। आज्यभागवाक्येन तद्विधिरूपः स्वार्थस्त्यज्येत प्रयाजादिनिषेधरूपोऽन्योऽर्थः परिगृह्येत चोदकप्राप्तं प्रयाजाद्यनुष्ठानं बाध्येतेतिदोषत्रयप्रसङ्गान्न परिसंख्या युक्ता। तेन प्रत्यक्षविधिरूपादस्मादाज्यभागवाक्यादानुमानिकचोदकवाक्यमाज्यभागव्यतिरिक्तप्रयाजाद्यङ्गेषु संकोचनीयमिति षष्ठः पक्षः। यदि चोदकस्य प्रत्यङ्गं पृथ-ग्व्यापाराः स्युस्तदा प्रयाजाद्यङ्गगोचरैर्व्यापारैस्तेषामतिदेशः सिध्यति। आज्यभागगोचरस्यानेन प्रत्यक्षविधिना बाधितत्वान्न चोदकेनाऽऽज्यभागातिदेश इत्येवं संकोचो वर्णयितुं शक्यते। इह तु शब्दबुद्धिकर्मणां विरम्य व्यापाराभावेनैक एव चोदकस्य व्यापारः। तथा सति युगपदतिदेशोऽनतिदेशश्चेति विरुद्धधर्मत्वं प्रसज्येत। तस्मात्प्रयाजाद्यङ्गेषु संकोचो न युक्तः। तेन चोदकोऽत्राऽऽज्यभागकर्मणि संकोचनीयः। न चोक्तदोषापत्तिः। अस्य संकोचस्योपंहाररूपत्वात्। आज्यभागयोरेव शक्तस्य चोदकस्य त्वाज्ञातशक्तिज्ञापनमुपसंहारः। तथा सत्याज्यभागातिदेशव्यापृतस्य चोदकस्य को नामातिदेशतन्निवृत्तिरूपविरुद्धधर्मप्रसङ्गः। तत्राऽऽज्यभागकर्मणि चोदकावस्थापनमिति सप्तमः पक्षः। "पुरोडाशं चतुर्धा करोति" "आग्नेयं चतुर्धा करोति" इत्यनयोरुभयोरपि प्रत्यक्षवचनत्वेन सरूपत्वादस्तु तत्रोपसंहारः। इह तु प्रत्यक्षपरोक्षयोर्वचनचोदकयोर्विरूपत्वान्नासौ युक्तः। किंतु प्रत्यक्षवचनेनैवाऽऽज्यभागविधिसिद्धेश्चोदककल्पना निरर्थिका। तत-स्तस्या उपसंहारो न युक्तः। तस्मादपूर्वो गृहमेधीयो न चोदकेनान्याङ्गानि गृह्णाति। इतिकर्तव्यताकाङ्क्षा तु प्रत्यक्षवचनेनैव पूर्यते। एवं सत्युक्तदोषाभावादयमष्टमः पक्षोऽभ्युपगन्तव्यः। ननु सांग्रहण्यामिष्टौ प्रत्यक्षवचनविहितैरामनहोमैः सह चोदकातिदिष्टानामनूयाजानां समुच्चयोऽङ्गीकृतस्तद्वदत्रापि विधीयमानयोराज्यभागयोश्चोदकप्राप्तैः प्रयाजाद्यङ्गैः सर्वैः सह समुच्चयोऽस्तु। न। वैषम्यात्। प्रकृतावाज्यभागयोस्तूपकारः कॢप्तः। सोऽत्र नामसाम्येन स्मर्यते। तस्मात्कॢप्तोपकाराभ्यां विधीयमानाभ्यामाज्यभागाभ्यां निराकाङ्क्षो गृहमेधीयः। आमनहोमास्तु न कॢप्तोपकारा इति तैः सांग्रहण्या अङ्गाकाङ्क्षा न पूर्यते। तत्र कॢप्तोपकारैरनूयाजाद्यङ्गैश्चोदकेन सहातिदिष्टैः पूर्यते। ततो विधिवैयर्थ्यपरिहारायाऽऽमनहोमेषूपकारे कॢप्ते सति तस्मिन्प्रवर्तमानः प्रयोगवचनः समुच्चित्यानुष्ठापयति। ततो वैषम्यात्कॢप्तोपकाराज्यभागविधायकेनानेन प्रत्यक्षवचनेन गृहमेधीयचोदको लुप्यते। तस्मादविकृतिरूपं साङ्गमपूर्वं कर्मात्र विधीयत इति सिद्धान्तः।

तत्रैवान्यच्चिन्तितम्––

"तत्रान्यदङ्गं नो कार्यं कार्यं वाऽन्यानपेक्षणात्।

न कार्यं विहितत्वेन कार्यं स्विष्टकृदादिकम्"॥

तत्र गृहमेधीय आज्यभागाभ्यामेव निराकाङ्क्षत्वादन्यत्स्विष्टकृदादिकं न कार्यमिति चेत्। मैवम्। आज्यभागवद्विहितत्वात्। "यदग्नये स्विष्टकृते समवद्यति" "इडामुपह्वयते" इति विहितम्। तस्माद्यावदुक्तं कर्तव्यम्।

तत्रैवान्यच्चिन्तितम्––

"तत्रैव परिसंख्यात्वे प्राशित्राद्यस्ति वा न तत्।

अस्तीडादर्शनान्मैवं तदुक्त्याऽस्त्वत्र नेतरत्॥"

गृहमेधीये स्विष्टकृत्याज्यभागवदष्टधा संशयं हृदि निधाय परिसंख्यार्थं पञ्चमं पक्षमभ्युपेत्येयं कृत्वाचिन्ताऽवतारिता। तत्र प्राशित्रादिभक्षणं न परिसंख्यातं किंतु तदस्ति। कुतः। भक्षणाद्यर्थस्येडोपाह्वानस्य तत्र दर्शनादिति प्राप्ते ब्रूमः— अत्र गृहमेधीये तदिडाभक्षणं वचनबलेनास्तु। स्विष्टकृद्वाक्यप्रापितस्य परिसंख्यातस्य वचनेन निवारितत्वात्। इतरत्प्राशित्रादिभक्षणं परिसंख्यातत्वान्नास्ति।

सप्तमाध्यायस्य तृतीयपादे चिन्तितम्––

"सौमिकं प्राकृतं वा स्यात्तयोः प्रणयनं श्रुतम्।

आद्योऽप्राप्तत्वतो मैवमनामत्वेन वाऽग्रिमः॥

चातुर्मास्येषु श्रूयते–– "द्वयोः प्रणयति, तस्माद्द्वाभ्यां१ यन्ति" इति। अत्र सौमिकधर्मकमग्निप्रणयनं यत्तदेव ग्रहीतव्यम्। कुतः। सोमस्य चातुर्मास्यप्रकृतित्वाभावेन तदीयप्रणयनस्यात्र चोदकाप्राप्तस्य विध्यर्हत्वात्। दर्शपूर्णमासगतं त्वग्निप्रणयनं चोदकप्रापितत्वादविधेयम्। तस्मात्सौमिकस्य धर्मा अत्र प्रणयनशाब्देनातिदिश्यन्त इति प्राप्ते ब्रूमः — नायं प्रणयनशब्दः, सौमिकस्य प्रणयनकर्मणो नामधेयं, किंतु निर्मन्थ्यबर्हिरादिशब्दवल्लौकिक एव। ततो न धर्मातिदेशः। यदि प्राकृतप्रणयनस्य प्राप्तत्वाद्विधिवैयर्थ्यं तर्ह्यर्थवादसंबन्धाय तद्वाक्यमस्तु।

तत्रैवान्यच्चिन्तितम्––

"आद्यन्तयोर्मध्ययोर्वा पर्वणोस्तत्प्रसञ्जकात्।

आद्यन्तयोरूरुगत्या मध्ययोः पर्वणोर्भवेत्॥"

"तस्माद्द्वाभ्यां यन्ति" इत्यर्थवादेन संबन्धाय पुनर्विधिना यत्कृतमग्निप्रणयनं चोदकप्राप्तमपि श्रूयत इत्युक्तं तद्वैश्वदेवशुनासीर्ययोः पर्वणोर्भवितुमर्हति। कुतः। प्रसञ्जकात्। तथा हि – "न वैश्वदेव उत्तरवेदिमुपवपति, न शुनासीर्ये" इत्युत्तरवेदिप्रतिषेधस्तयोः पर्वणोर्वेदिं प्रसञ्जयति। अप्रसक्तप्रतिषेधायोगात्। उत्तरवेदिश्चाग्निप्रणयनार्था। तस्मादुत्तरवेदिप्रसक्तिद्वारेणाऽऽद्यन्तयोरिदमग्निप्र-णयनमिति प्राप्ते ब्रूमः — "ऊरू वा एतौ यज्ञस्य, यद्वरुणप्रघासाः साकमेधश्च" इति गमनसाधनत्वमूरुत्वं मध्यमयोः पर्वणोरुपन्यस्तम्। तत्संनिधौ द्वयोः प्रणयन्तीतिचोदकप्राप्तमग्निप्रणयनमर्थवादार्थं पुनर्विधाय द्वाभ्यां यन्तीत्यर्थवादेनोरुत्वकल्पना युक्ता। द्वाभ्यां पर्वभ्यां गमनमुपन्यस्यते। तस्मान्मध्यमयोस्तत्प्रणयनम्। न चात्रोत्तरवेदेरभावात्प्रणयनाभाव इति शङ्कनीयम्। उपवपतीत्यनारभ्य श्रुतेन वाक्येनोत्तरवेद्युपवापस्य विहितत्वात्। सा चोत्तरवेदिराद्यन्तयोः पर्वणोर्निषेधान्मध्यमयोरवतिष्ठते। तस्माच्चोत्तरवेद्यां प्रणीतोऽग्निर्विधीयते। एतदर्थमेव हि सार्थवादं पुनर्विधानम्।

उक्तमधिकरणद्वयमेकीकृत्य वार्तिककारेण यो निर्णयोऽभिहितस्तं दर्शयति–

"अनामत्वाच्च वैयर्थ्यात्सौमिकं प्राकृतं च न।

अपूर्वं तत्प्रणयनं शाखान्तरसमोक्तिकम्॥"

आहवनीयादग्निं प्रणयत इति शाखान्तरे मध्यमयोर्नूतनं विहितम्। तेन समानवचनत्वादत्राप्यपूर्वं प्रणयनं विधत्ते॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डेऽष्टमप्रपाठके चतुर्थोऽनुवाकः ॥४॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ साकमेधहवींषि विधीयन्ते । तत्र प्रथमेहनि यानि भवन्ति तानि विदधाति - अग्नयेनीकवत इति ॥ 'देवासुरास्संयत्ता आसन् । सोग्निरब्रवीत् । ममेयमनीकवती तनूः' इत्यादि ब्राह्मणम् । 'असौ वा आदित्योग्निरनीकवान् । तस्य रश्मयोऽनीकानि' । यदा सूर्यश्चोदयं करोति, अध्वर्युश्च पुरोडाशं निर्वपति ; तदानीं सूर्येणोद्यता साकं निर्वपति तदा सूर्योदयकाले निर्वपतीत्यर्थः । 'राजसूय' इत्यादौ सूर्यशब्दो निपातितः, 'शतुरनुमः' इत्युद्यच्छब्दात्तृतीयाया उदात्तत्वम् । अथ मध्यन्दिने मरुद्भ्यस्सान्तपनेभ्यश्चरुं निर्वपति । अह्नो मध्यं मध्यंदिनम् । 'मध्यो मध्यं दिनञ्चास्मात्' इति दिनञ्प्रत्ययः ? सम्यक्समन्ताच्च शोषणं सन्तपनं, तत्सम्बन्धिनस्सान्तपनाः सन्तापनसमर्थाश्शत्रूणाम् । 'तेऽसुराः पराजिता यन्तः' इत्यादि ब्राह्मणम् । अथ सायमस्तकाले मरुद्भ्यो गृहमेधिभ्यः गृहमेधवद्भ्यः सर्वासां गवां यजमानसम्बन्धिनीनां दुग्धे चरुं निर्वपति । 'ते देवाश्श्वो विजयिनः' इत्यादि ब्राह्मणम् ॥
2 अव्युष्टायां रजन्यां पूर्णदर्व्येण चरन्ति शरनिष्कासस्य दर्वीं पूरयित्वा गार्हपत्ये जुहोति । तत्र पुरोनुवाक्या - पूर्णेत्यनुष्टुप् ॥ हे दर्वि पूर्णा शरनिष्कासस्य पूरिता । 'वा दान्तशान्त' इति ण्यन्तस्य निपात्यते । ईदृशी परापत इन्द्रं प्रति गच्छ । ततस्सुपूर्णा सुष्ठु धनस्य पूर्णा पुनरस्मान् प्रत्यापत आगच्छ । एवं वस्नेव वस्नेन मूल्येनेव । सुपां सलुक्' इत्याकारः । क्रीणावहै इन्द्रश्चाहं च परस्परतः वणिग्वद्विनिमयं करवावहै । किं विक्रीणावहा इत्युच्यते - इषमूर्जमन्नं रसादिकं धनादिकं च ; अतोत्रावयोस्त्वं गतागतकारिणी साधनभावमाचरेति । तदेवाह - हे शतक्रतो बहुविधकर्मकरणकुशले गतागतसमर्थे ॥
3 अथ याज्या - देहीत्यनुष्टुप् ॥ देहि मे मह्यं अभिमतं धनं, अहमपि ते तुभ्यं ददामि । निधेहि स्थापय मे मदर्थं, अहमपि ते त्वदर्थं निदधे स्थापयामि । तथा निहारमित् निहारमेव निर्हृत्यनिर्हृत्यैव मे मम निहर, अहमपि ते निहारं निर्हृत्यनिहृत्य निहरामि । नियमेन नितरां निर्हृत्य वा समुदायाद्धरणं निहरणम् । आभीक्ष्ण्ये णमुल्, कृदुत्तरपदप्रकृतिस्वरत्वम् लित्स्वरः । एवमुपकारप्रत्युपकारितया आवयोर्वृत्तिरस्त्विति लोकवृत्तानानिदर्शनम् ॥
4 अथ द्वितीयेह्नि साकं सूर्येणोद्यता मरुद्भ्यः क्रीडिभ्यः पुरोडाशं सप्तकपालं निर्वपति ॥ क्रीडन्तीति क्रीडिनः, ग्रह्याडित्वाण्णिनिः । 'त एनमत्यक्रीडन् । तत्क्रीडिनां क्रीडित्वम्' इति ब्राह्मणम् ॥
5 अथ महाहविस्सम्बन्धीन्यष्टौ हवींषि विदधाति - आग्नेयमष्टाकपालमित्यादि ॥ तत्र पौष्णान्तानि पञ्च सञ्चराणि प्रागेवाम्नातान्यपि पुनः पठित्वा दर्शयति । ऐन्द्राग्रमपि वरुणप्रघासेषु षष्ठतयाम्नातमेव पुनः पठति । ब्राह्मणं च भवति 'एतद्ब्राह्मान्येव पञ्च हवींषि । एतद्ब्राह्मण ऐन्द्राग्नः' इति । 'अथैष ऐन्द्रश्चरुर्भवति' । ऐन्द्रस्यापूर्वं विधानम् । 'उद्धारं वा एतम्' इत्यादि ब्राह्मणम् । वैश्वकर्मणस्यैककपालस्य चापूर्वं विधानम् ॥

इत्यष्टमे चतुर्थोनुवाकः ॥

पञ्चशत् 2 #
TS 1.8.4.2 TS 1.8.4.2
नि ह॑रामि ते ॥ म॒रुद्भ्यः॑ क्री॒डिभ्यः॑ पुरो॒डाशꣳ॑ स॒प्तक॑पालं॒ निर्व॑पति सा॒कꣳ सूर्ये॑णोद्य॒ताऽऽग्ने॒य-म॒ष्टाक॑पालं॒ निर्व॑पति सौ॒म्यं च॒रुꣳ सा॑वि॒त्रं द्वाद॑शकपालꣳ सारस्व॒तं च॒रुं पौ॒ष्णं च॒रुमै᳚न्द्रा॒ग्न-मेका॑दशकपाल-मै॒न्द्रं च॒रुं ॅवै᳚श्वकर्म॒ण-मेक॑कपालं ॥
पदपाठः (Word-by-word)
नीति॑ । ह॒रा॒मि॒ । ते॒ ॥ म॒रुद्भ्य॒ इति॑ म॒रुत् - भ्यः॒ । क्री॒डिभ्य॒ इति॑ क्री॒डि-भ्यः॒ । पु॒रो॒डाश᳚म् । स॒प्तक॑पाल॒मिति॑ स॒प्त-क॒पा॒ल॒म् । निरिति॑ । व॒प॒ति॒ । सा॒कम् । सूर्ये॑ण । उ॒द्य॒तेत्यु॑त् - य॒ता । आ॒ग्ने॒यम् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा-क॒पा॒ल॒म् । निरिति॑ । व॒प॒ति॒ । सौ॒म्यम् । च॒रुम् । सा॒वि॒त्रम् । द्वाद॑शकपाल॒मिति॒ द्वाद॑श-क॒पा॒ल॒म् । सा॒र॒स्व॒तम् । च॒रुम् । पौ॒ष्णम् । च॒रुम् । ऐ॒न्द्रा॒ग्नमित्यै᳚न्द्र - अ॒ग्नम् । एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् । ऐ॒न्द्रम् । च॒रुम् । वै॒श्व॒क॒र्म॒णमिति॑ वैश्व - क॒म॒र्णम् ॥ एक॑कपाल॒मित्येक॑-क॒पा॒ल॒म् । 6(30)