पञ्चशत् 1 #
प्र॒ति॒पू॒रु॒षमेक॑कपाला॒न् निर्व॑प॒त्येक॒-मति॑रिक्तं॒ ॅयाव॑न्तो गृ॒ह्याः᳚ स्मस्तेभ्यः॒ कम॑करं पशू॒नाꣳ शर्मा॑सि॒ शर्म॒ यज॑मानस्य॒ शर्म॑ मे य॒च्छैक॑ ए॒व रु॒द्रो न द्वि॒तीया॑य तस्थ आ॒खुस्ते॑ रुद्र प॒शुस्तं जु॑षस्वै॒ष ते॑ रुद्र भा॒गः स॒ह स्वस्राऽंबि॑कया॒ तं जु॑षस्व भेष॒जं गवेऽश्वा॑य॒ पुरु॑षाय भेष॒जमथो॑ अ॒स्मभ्यं॑ भेष॒जꣳ सुभे॑षजं॒ - [ ]
पदपाठः (Word-by-word)
प्र॒ति॒पू॒रु॒षमिति॑ प्रति-पू॒रु॒षम् । एक॑कपाला॒नित्येक॑-क॒पा॒ला॒न् । निरिति॑ । व॒प॒ति॒ । एक᳚म् । अति॑रिक्त॒मित्यति॑-रि॒क्त॒म् । याव॑न्तः । गृ॒ह्याः᳚ । स्मः । तेभ्यः॑ । कम् । अ॒क॒र॒म् । प॒शू॒नाम् । शर्म॑ । अ॒सि॒ । शर्म॑ । यज॑मानस्य । शर्म॑ । मे॒ । य॒च्छ॒ । एकः॑ । ए॒व । रु॒द्रः । न । द्वि॒तीया॑य । त॒स्थे॒ । आ॒खुः । ते॒ । रु॒द्र॒ । प॒शुः । तम् । जु॒ष॒स्व॒ । ए॒षः । ते॒ । रु॒द्र॒ । भा॒गः । स॒ह । स्वस्रा᳚ । अबिं॑कया । तम् । जु॒ष॒स्व॒ । भे॒ष॒जम् । गवे᳚ । अश्वा॑य । पुरु॑षाय । भे॒ष॒जम् । अथो॒ इति॑ । अ॒स्मभ्य॒मित्य॒स्म-भ्य॒म् । भे॒ष॒जम् । सुभे॑षज॒मिति॒ सु - भे॒ष॒ज॒म् ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ त्र्यम्बकान्विदधाति - प्रतिपूरुषमेककपालान्निर्वपतीति ॥ 'अथौषधय इमं देवं त्र्यम्बकैरयजन्त' इत्यादि ब्राह्मणम् । पूरुषं पूरुषं प्रतिपूरुषं, पुरुषशब्दपर्यायः पूरुषशब्दः । उपलक्षणत्वात् स्त्रियोपि गृह्यन्ते । यजमानस्य यावन्तोमात्यास्सस्त्रीकाः तावतः एककपालान्निर्वपति; एकमतिरिक्तं सङ्ख्यया निर्त्प्रपेत् । 'गतिरनन्तरः' इति पूर्पदप्रकृतिस्वरत्वम् । 'जाता एव प्रजा रुद्रान्निरवदयते' इत्यादि ब्राह्मणम् ॥
2 त्र्यम्बकानादाय गार्हपत्यमुपतिष्ठते - यावन्त इति ॥ गृहे भवा गृह्याः । व्यत्ययेनाद्युदात्तत्वाभावः । यावन्तः यत्परिमाणा वयं गृह्याः पुमांसस्त्रियश्च स्मो भवामः; तेभ्यस्सर्वेभ्योस्मभ्यं कं सुखमेभिस्त्र्यम्बकैरकरं करोमि । यद्वा - सर्वेभ्यस्सुखकरं त्रैय्यम्बकयागाख्यमेतत्कर्म करोमीति । छान्दसो लुङ् । 'मन्त्रे घस' इति च्लेर्लुक् । पुरुषव्यत्ययो वा, कं कुर्वीतेति । कस्मादेवमुच्यसे ? इति चेत् - पशूनां सर्वेषां शर्मासि शर्म सुखं शरणं वा त्वमसि । 'नामन्यतरस्याम्' इति नाम उदात्तत्वम् । किञ्च - यजमानस्य च शर्मासि स त्वं मम च शर्म यच्छ देहि ॥
3 त्र्यम्बकात् सकृत्सकृदवदाय जुहोति - एक एवेति ॥ असहाय एव ऐश्वर्येण रुद्रः तुल्योत्कृष्टरहितः ; परस्मिन् पदे स्थितत्वात् । तदेव स्पष्टयति - न द्वितीयाय स्वव्यतिरिक्ताय कस्मैचिदपि तस्थे तिष्ठते आत्मानं प्रकाशयति । यथा द्वितीयेन स्वप्रभावो न परिच्च्छिद्यते तथैव सर्वदा भवति । तस्मात्सर्वदोत्कृष्टरहितत्वादेक एवेति । 'श्लाघह्नुङ्स्थाशपाम्' इति सम्प्रदानत्वम् । 'प्रकाशनस्थेयाख्ययोश्च' इत्यात्मनेपदम् । यद्वा - एक एव रुद्र इति निस्सामान्यमैश्वर्यं प्रतिपादयति । यस्मादेवं तस्मादेष देवः कदाचिदपि द्वितीयाय सहायाय न तस्थे सहायार्थं न तिष्ठतीति सहायापेक्षी न क्वचिदपि कार्येषु भवतीति । हे रुद्र आखुः मूषकः पशुः भागभूतः । श्रुतिप्रामाण्यादवगम्यते । यद्वा - आखुः उत्करस्थः पुरोडाशः तव पशुः पशुवत्प्रीतिहेतुः । यथोक्तम् - 'आखूत्कर एकं पुरोडाशमुपवपति' इति । यद्वा - आखुस्थानीयस्तव पशुः द्विपाच्चतुष्पाच्च सर्वः ; तस्मात्तमाखूत्करस्थं पुरोडाशं जुषस्व । अपि च - हे रुद्र स एवाखूत्करस्थस्तव भागः सर्वत्रैयम्बकादानात्मकः ; तस्मात्तमपि भगवत्याम्बिकया देव्या सह जुषस्व । लक्षितलक्षणया स्वस्रा भगिनी लक्ष्यते । भगिन्या भगवत्या । यद्वा - स्वसृत्वेन सहजत्वं लक्ष्यते तेन चाविनाभावः । यद्वा - स्वमात्मानं सरति भजत इति स्वसा देहार्धभूता । पृषोदरादिः । सुष्ठु वात्मना अस्यते प्राप्यते इति स्वसा । असु गत्यादिषु, तस्मात् 'सुञ्यसेरृन्' इति ऋप्रत्ययः, व्युत्पत्त्यनवधारणान्ननिहन्यते ॥
4 ततश्च त्वत्प्रसादादस्माकमित्थमस्त्वित्याशास्ते - भेषजं गव इति पङ्क्त्या पञ्चपदया ॥ भेषजं गवेश्वायेति प्रथमः पादः । सर्वत्र जातावेकवचनम् । गोभ्योश्वेभ्यः पुरुषेभ्यश्च भेषजमौषधं यथा असति भवेत् ; तथा जुषस्व । अथो अपि च अस्मभ्यं यथा भेषजं रोगशमनं च भवेत्, सुभेषजं च शरीरसिद्ध्यादिकारणं यथा भवेत्, सुगं सुष्ठुगम्यं सेव्यं यथा भवेत् । सुष्ठु वा गम्यतेऽनेन सर्वमभिमतं यथा तथा तं जुषस्व । किञ्च - मेषेभ्यो मेषीभ्यश्च भेषजं यथा स्यात् तथा जुषस्व । अस्तेर्लेटि शपो लुकि 'लेटोडाटौ' इत्यडागमः । गोशब्दात् 'सावेकाचः' इति प्राप्तं विभक्त्युदात्तत्वं 'न गोश्वन्' इति प्रतिषिध्यते ॥
5 इदानीमारोग्यानन्तरं धनसमृद्ध्यादिकमाशास्ते - अवाम्बेति षट्पदा जगतीयम् ॥ अत्र देवीं प्रत्याशास्ते । हे अम्ब जगतां मातः देवं (अम्ब) वयमवादिमहि अवदानैस्तोषयामः । अवदानसाध्या देवतातृप्तिरवदानेन लक्ष्यते । छान्दसो लुञ्, व्यत्ययेनात्मनेपदम्, 'स्थाघ्वोरिच्च' इतीत्वकित्त्वे, 'ह्रस्वादङ्गात्' इति सिचो लुक् । त्र्यम्बकञ्च देवमवादिमहीत्येव । आदरार्थं द्वितीयं ब्रवीति गुणान्तरख्यापनार्थं वा । त्र्यम्बकमिति त्रीणि अम्बकानि लोचनानि यस्य । यद्वा - अबि शब्दे, अम्बका वेदाः त्र्यम्बकः वेदत्रयीप्रतिपाद्यः । अथ वा - अम गत्यादिषु, अमनहेतवोम्बाः द्यौरापः पृथिवी चेति, तदाराधनीयत्वात् । त्रयो वा अग्नयः तिस्रो वा गतयः त्रीणि वा ज्योतींषि । छान्दस इयङादेशः । तस्मादेवं महानुभावं देवं त्र्यम्बकमवादिमहि । किमर्थम् ? यथा नोस्मान् श्रेयसः विद्याधनपुत्रादिभिः प्रशस्यतरान् करत् कुर्यात् तदर्थमित्यर्थः । पूर्ववल्लेटि शपो लुक् । यथा नोस्मान् वस्यसः वसीयसः वसुमत्तरान् कुर्यात् । वसुमच्छब्दादीयसुनि 'विन्मतोर्लुक्' टिलोपः, छान्दसः ईकारलोपः । वस्तृशब्दाद्वा 'तुश्छन्दसि' इतीयसुन्, अतिशयेन वस्तॄन्, यथा चास्मान् पशुमतः बहुपशुकान् कुर्यात् 'ह्नस्वनुङ्भ्यां मतुप्' इति मतुप उदात्तत्वम् । यथा च नोस्मान् व्यवसाययात् व्यवसितकर्माः कुर्यात् अविघ्नेनेदं कर्म समापयेत् । व्यवपूवात्स्यतेर्णिचि 'शा च्छासाह्वा' इति युगागमः, लेट्याडागमः ॥
6 त्रिः प्रदक्षिणं परियन्ति - त्र्यम्बकमिति । अनुष्टुबेषा ॥ इदानीं मृत्युञ्जयमाशास्ते । त्र्यम्बकं व्याख्यातम् । सुगन्धिं नित्यशोभनं यशोगन्धिं, सर्वसुकृतमयत्वात् । 'गन्धस्येत्वे तदेकान्तग्रहणम्' इतीत्वम् । पुष्टिवर्धनं गोभूमिवित्तविद्यादिपुष्टिहेतुं ईदृशं देवं यजामहे । किमर्थम् ? यथा उर्वारुकं फलं बन्धनात्प्रसवबन्धनात् पक्वं स्वयं मुच्यते एवमहमपि मृत्योरनेन मुक्षीय मुक्तो भूयासं, मामृतान्मुक्षीय अमरणो भूयासम् । मुचेराशिषि लिङि सीयुटि 'लिङ्सिचावात्मनेपदेषु' इति कित्त्वम् । बहुव्रीहौ 'नञो जरमर' इत्युत्तरपदाद्युदात्तत्वम्, भावप्रधानो द्रष्टव्यः । त्रपुसमुर्वारुकमिति केचित् । हिममित्यन्ये । अन्य आहुः - पुरुषेण वाह्यात्काष्ठादिभारात् यद्भारातिरिक्तं तदुर्वारुकमिति तद्यथा बन्धनव्यवसायान्मुच्यते न वाहकवशं भवति एवमहं मृत्योर्मुक्षीय मृत्युवशं मा गां मां मृत्युर्मा गात् इति । उरोर्भाराद्वारणीयमुर्वारुकमिति ॥
7 शुष्के स्थाणौ तान्बध्नाति - एष त इति ॥ हे भगवम् रुद्र एष तव भागः, तं जुषस्व गृहाण ! तेनानेनावसेन पथामवनेन पथः येन अवते । गत्यर्थादौणादिकोस्वप्रत्ययः । परः परस्तात् । मूजवान्नाम पर्वतः उच्छ्रिततया प्रसिद्धः तस्यापि परस्तात् अतीहि अतिक्रम्य गच्छ । यद्वा - मूङ् बन्धने, बन्धजस्संसारो मूजः तद्वतः प्रपञ्चादतीहि । परशब्दाच्छान्दसोसिच्प्रत्ययः । अवततधन्वा अवतारितज्याकरवत्तादृशं धनुर्यस्य इति बहुव्रीहौ 'धनुषश्च' इत्यानङ्, 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । पिनाकहस्तः पिनाकाख्यं धनुर्दण्डं हस्ते अलङ्कारार्थं वहन्न हि ते निरायुधस्यापि चोरादिभयमस्ति । कृत्तिवासाः वैयाघ्रनागचर्ममात्रं वसानः । कवचादि नेति भावः । ईदृशो दूरतरः गन्तुमर्हति । देव वयं न बिभीमः प्रसादादृते कस्त्वां पश्यन्न बिभेतीति । साकमेधास्समाप्ताः ॥
इत्यष्टमे षष्ठोनुवाकः ॥