अनुवाकः 20 TS 1.8.20

(A20)

(आ॒ग्ने॒यꣳ सौ॒म्यं बा॑र्.हस्प॒त्यं-चतु॑स्त्रिꣳशत्)

अनुवाकः 20 - Complete Audio

TS 1.8.20 - स्वरानुगामी

0:00 0:00
PS1.1 आ॒ग्ने॒य-म॒ष्टाक॑पालं॒ निर्व॑पति सौ॒म्यं च॒रुꣳ
PS1.2 सा॑वि॒त्रं द्वाद॑शकपालं बार्.हस्प॒त्यं च॒रुं
PS1.3 त्वा॒ष्ट्रम॒ष्टाक॑पालं ॅवैश्वान॒रं द्वाद॑शकपालं॒ दक्षि॑णो
PS1.4 रथवाहनवा॒हो दक्षि॑णा सारस्व॒तं च॒रुं
PS1.5 निर्व॑पति पौ॒ष्णं च॒रुं मै॒त्रं
PS1.6 च॒रुं ॅवा॑रु॒णं च॒रुं क्षै᳚त्रप॒त्यं
PS1.7 च॒रुमा॑दि॒त्यं च॒रुमुत्त॑रो रथवाहनवा॒हो दक्षि॑णा

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.8.20.1 TS 1.8.20.1
आ॒ग्ने॒य-म॒ष्टाक॑पालं॒ निर्व॑पति सौ॒म्यं च॒रुꣳ सा॑वि॒त्रं द्वाद॑शकपालं बार्.हस्प॒त्यं च॒रुं त्वा॒ष्ट्रम॒ष्टाक॑पालं ॅवैश्वान॒रं द्वाद॑शकपालं॒ दक्षि॑णो रथवाहनवा॒हो दक्षि॑णा सारस्व॒तं च॒रुं निर्व॑पति पौ॒ष्णं च॒रुं मै॒त्रं च॒रुं ॅवा॑रु॒णं च॒रुं क्षै᳚त्रप॒त्यं च॒रुमा॑दि॒त्यं च॒रुमुत्त॑रो रथवाहनवा॒हो दक्षि॑णा ॥
पदपाठः (Word-by-word)
आ॒ग्ने॒यम् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा-क॒पा॒ल॒म् । निरिति॑ । व॒प॒ति॒ । सौ॒म्यम् । च॒रुम् । सा॒वि॒त्रम् । द्वाद॑शकपाल॒मिति॒ द्वाद॑श-क॒पा॒ल॒म् । बा॒र्.॒ह॒स्प॒त्यम् । च॒रुम् । त्वा॒ष्ट्रम् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । वै॒श्वा॒न॒रम् । द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् । दक्षि॑णः । र॒थ॒वा॒ह॒न॒वा॒ह इति॑ रथवाहन-वा॒हः । दक्षि॑णा । सा॒र॒स्व॒तम् । च॒रुम् । निरिति॑ । व॒प॒ति॒ । पौ॒ष्णम् । च॒रुम् । मै॒त्रम् । च॒रुम् । वा॒रु॒णम् । च॒रुम् । क्षै॒त्र॒प॒त्यमिति॑ क्षैत्र - प॒त्यम् । च॒रुम् । आ॒दि॒त्यम् । च॒रुम् । उत्त॑र॒ इत्युत् - त॒रः॒ । र॒थ॒वा॒ह॒न॒वा॒ह इति॑ रथवाहन - वा॒हः । दक्षि॑णा ॥
पदसंख्या: 34
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 तस्मिन्नपराह्णे षड्बिः प्रयुजां हविर्भिर्यजते, तानि विदधाति - आग्नेयमिति ॥ प्रयुजां हविर्भिर्यक्ष्ये इति सङ्कल्पः । षड्ढविष्क एको यज्ञ इति आग्नेयेष्ट्यन्ते सत्यान् दूतान् दक्षिणाद्रव्यहस्तान् प्रतिराजभ्यः प्रहिणोति । 'अभ्यषिक्षि राजाऽभूवम्' इति चावेदनं, आगतेषु दक्षिणाद्रव्याणि ऋत्विग्भ्य एव ददाति । ततस्सौम्यसावित्रबार्हस्पत्यत्वाष्ट्रवैश्वानराणि हवींषि । विश्वेषां नराणां सम्बन्धी वैश्वानरः । 'नरे संज्ञायाम्' इति दीर्घत्वम् । अत्र दक्षिणः दक्षिणतो युक्तः रथवाहनस्यासौ वाहो वाहकः गौर्दक्षिणा देया ॥
2 श्वोभूते सारस्वतादीभिः प्रयुजां हविर्भिर्यजते, तानि विदधाति - सारस्वतं चरुमित्यादि ॥ सारस्वतपौष्णमैत्रवारुणक्षैत्रपत्यादित्यानि हवींषि । अत्र उत्तरः उत्तरतो युक्तः रथवाहनवाहो बलीवर्दो दक्षिणा देया । 'आग्नेयमष्टाकपालं निर्वपति । तस्माच्छिशिरे कुरुपाञ्चालाः प्राञ्चो यान्ति' इत्यादि ब्राह्मणम् ॥

अथ राजसूयशेषः केशवपनीयोतिरात्रः, व्युष्टिर्द्विरात्रः, अग्निष्टोमातिरात्रः, क्षत्राणां धृतिस्त्रिष्टोमोग्निष्टोमश्चेति । सर्वोनुब्राह्मणेनावगन्तव्यः ॥

राजसूयस्समाप्तः ॥

इत्यष्टमे विंशोनुवाकः ॥