अनुवाकः 22 TS 1.8.22

(A22)

(बृ॒ह॒तः-शव॑सा॒-रथः॒-पपु॑रिं च-दि॒वो जन॑ना॒-पञ्च॑विꣳशतिश्च)

अनुवाकः 22 - Complete Audio

TS 1.8.22 - स्वरानुगामी

0:00 0:00
PS1.1 अग्ना॑विष्णू॒ महि॒ तद् वां᳚
PS1.2 महि॒त्वं ॅवी॒तं घृ॒तस्य॒ गुह्या॑नि॒
PS1.3 नाम॑
PS1.4 दमे॑दमे स॒प्त रत्ना॒ दधा॑ना॒
PS1.5 प्रति॑ वां जि॒ह्वा घृ॒तमा
PS1.6 च॑रण्येत्
PS1.7 अग्ना॑विष्णू॒ महि॒ धाम॑ प्रि॒यं
PS1.8 ॅवां᳚ ॅवी॒थो घृ॒तस्य॒ गुह्या॑
PS1.9 जुषा॒णा
PS1.10 दमे॑दमे सुष्टु॒तीर् वा॑वृधा॒ना प्रति॑
PS1.11 वां जि॒ह्वा घृ॒तमुच्च॑रण्येत्
PS1.12 प्र णो॑ दे॒वी सर॑स्वती॒
PS1.13 वाजे॑भिर् वा॒जिनी॑वती
PS1.14 धी॒ना-म॑वि॒त्य्र॑वतु
PS1.15 आ नो॑ दि॒वो बृ॑ह॒तः
PS1.16 - [ ]
PS2.1 पर्व॑ता॒दा सर॑स्वती यज॒ता ग॑न्तु य॒ज्ञ्ं
PS2.2 हवं॑ दे॒वी जु॑जुषा॒णा घृ॒ताची॑
PS2.3 श॒ग्मां नो॒ वाच॑मुश॒ती शृ॑णोतु
PS2.4 बृह॑स्पते जु॒षस्व॑ नो ह॒व्यानि॑ विश्वदेव्य
PS2.5 रास्व॒ रत्ना॑नि दा॒शुषे᳚
PS2.6 ए॒वा पि॒त्रे वि॒श्वदे॑वाय॒ वृष्णे॑
PS2.7 य॒ज्ञिर् वि॑धेम॒ नम॑सा ह॒विर्भिः॑
PS2.8 बृह॑स्पते सुप्र॒जा वी॒रव॑न्तो व॒यꣳ
PS2.9 स्या॑म॒ पत॑यो रयी॒णां
PS2.10 बृह॑स्पते॒ अति॒ यद॒र्यो अर्.हा᳚द्
PS2.11 द्यु॒मद् वि॒भाति॒ क्रतु॑म॒ज्जने॑षु
PS2.12 यद् दी॒दय॒च्छव॑स- [ ]
PS3.1 र्तप्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रं
PS3.2 आ नो॑ मित्रावरुणा घृ॒तैर् गव्यू॑तिमुक्षतं
PS3.3 मद्ध्वा॒ रजाꣳ॑सि सुक्रतू
PS3.4 प्र बा॒हवा॑ सिसृतं जी॒वसे॑
PS3.5 न॒ आ नो॒ गव्यू॑ति-मुक्षतं
PS3.6 घृ॒तेन॑
PS3.7 आ नो॒ जने᳚ श्रवयतं
PS3.8 ॅयुवाना श्रु॒तं मे॑ मित्रावरुणा॒
PS3.9 हवे॒मा
PS3.10 अ॒ग्निं ॅवः॑ पू॒र्व्यं गि॒रा
PS3.11 दे॒वमी॑डे॒ वसू॑नां
PS3.12 स॒प॒र्यन्तः॑ पुरुप्रि॒यं मि॒त्रं न क्षे᳚त्र॒साध॑सं
PS3.13 म॒क्षू दे॒वव॑तो॒ रथः॒ -
PS3.14 [ ]
PS4.1 शूरो॑ वा पृ॒थ्सु कासु॑ चित्
PS4.2 दे॒वानां॒ ॅय इन्मनो॒ यज॑मान॒
PS4.3 इय॑क्षत्य॒भीदय॑ज्वनो भुवत्
PS4.4 न य॑जमान रिष्यसि॒ न
PS4.5 सु॑न्वान॒ न दे॑वयो
PS4.6 अस॒दत्र॑ सु॒वीर्य॑मु॒त त्यदा॒श्वश्वि॑यं
PS4.7 नकि॒ष्टं कर्म॑णा नश॒न्न प्र
PS4.8 यो॑ष॒न्न यो॑षति
PS4.9 उप॑ क्षरन्ति॒ सिन्ध॑वो मयो॒भुव॑
PS4.10 ईजा॒नं च॑ य॒क्ष्यमा॑णं च
PS4.11 धे॒नवः॑
PS4.12 पृ॒णन्तं॑ च॒ पपु॑रिं च
PS4.13 - [ ]
PS5.1 श्रव॒स्यवो॑ घृ॒तस्य॒ धारा॒ उप॑
PS5.2 यन्ति वि॒श्वतः॑
PS5.3 सोमा॑रुद्रा॒ वि वृ॑हतं॒ ॅविषू॑ची॒ममी॑वा॒
PS5.4 या नो॒ गय॑-मावि॒वेश॑
PS5.5 आ॒रे बा॑धेथां॒ निर्.ऋ॑तिं परा॒चैः
PS5.6 कृ॒तं चि॒देनः॒ प्र मु॑मुक्त-म॒स्मत्
PS5.7 सोमा॑रुद्रा यु॒व-मे॒तान्य॒स्मे विश्वा॑ त॒नूषु॑
PS5.8 भेष॒जानि॑ धत्तं
PS5.9 अव॑ स्यतं मु॒ञ्चतं॒ ॅयन्नो॒
PS5.10 अस्ति॑ त॒नूषु॑ ब॒द्धं कृ॒तमेनो॑
PS5.11 अ॒स्मत्
PS5.12 सोमा॑पूषणा॒ जन॑ना रयी॒णां जन॑ना
PS5.13 दि॒वो जन॑ना ( )
PS5.14 पृथि॒व्याः
PS5.15 जा॒तौ विश्व॑स्य॒ भुव॑नस्य गो॒पौ
PS5.16 दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभिं᳚
PS5.17 इ॒मौ दे॒वौ जाय॑मानौ जुषन्ते॒मौ
PS5.18 तमाꣳ॑सि गूहता॒-मजु॑ष्टा
PS5.19 आ॒भ्यामिन्द्रः॑ प॒क्वमा॒मास्व॒न्तः सो॑मापू॒षभ्यां᳚ जनदु॒स्रिया॑सु

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.8.22.1 TS 1.8.22.1
अग्ना॑विष्णू॒ महि॒ तद् वां᳚ महि॒त्वं ॅवी॒तं घृ॒तस्य॒ गुह्या॑नि॒ नाम॑ । दमे॑दमे स॒प्त रत्ना॒ दधा॑ना॒ प्रति॑ वां जि॒ह्वा घृ॒तमा च॑रण्येत् ॥ अग्ना॑विष्णू॒ महि॒ धाम॑ प्रि॒यं ॅवां᳚ ॅवी॒थो घृ॒तस्य॒ गुह्या॑ जुषा॒णा । दमे॑दमे सुष्टु॒तीर् वा॑वृधा॒ना प्रति॑ वां जि॒ह्वा घृ॒तमुच्च॑रण्येत् ॥ प्र णो॑ दे॒वी सर॑स्वती॒ वाजे॑भिर् वा॒जिनी॑वती । धी॒ना-म॑वि॒त्य्र॑वतु । आ नो॑ दि॒वो बृ॑ह॒तः - [ ]
पदपाठः (Word-by-word)
अग्ना॑विष्णू॒ इत्यग्ना᳚ - वि॒ष्णू॒ । महि॑ । तत् । वा॒म् । म॒हि॒त्वमिति॑ महि - त्वम् । वी॒तम् । घृ॒तस्य॑ । गुह्या॑नि । नाम॑ ॥ दमे॑दम॒ इति॒ दमे᳚-द॒मे॒ । स॒प्त । रत्ना᳚ । दधा॑ना । प्रतीति॑ । वा॒म् । जि॒ह्वा । घृ॒तम् । एति॑ । च॒र॒ण्ये॒त् ॥ अग्ना॑विष्णू॒ इत्यग्ना᳚-वि॒ष्णू॒ । महि॑ । धाम॑ । प्रि॒यम् । वा॒म् । वी॒थः । घृ॒तस्य॑ । गुह्या᳚ । जु॒षा॒णा ॥ दमे॑दम॒ इति॒ दमे᳚ - द॒मे॒ । सु॒ष्टु॒तीरिति॑ सु-स्तु॒तीः । वा॒वृ॒धा॒ना । प्रतीति॑ । वा॒म् । जि॒ह्वा । घृ॒तम् । उदिति॑ । च॒र॒ण्ये॒त् ॥ प्रेति॑ । नः॒ । दे॒वी । सर॑स्वती । वाजे॑भिः । वा॒जिनी॑व॒तीति॑ वा॒जिनी᳚ - व॒ती॒ ॥ धी॒नाम् । अ॒वि॒त्री । अ॒व॒तु॒ ॥ एति॑ । नः॒ । दि॒वः । बृ॒ह॒तः ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

—-----------------------------------------------

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ याज्याकाण्डं वैश्वदेवम् । तत्र 'आग्नावैष्णवमेकादशपालं निर्वपेदभिचरन्त्सरस्वत्याज्यभागा स्याद्बार्हस्पत्यश्चरुः' इत्यस्याग्नावैष्णवस्य पुरोनुवाक्या - अग्नाविष्णू महीति त्रिष्टुप् ॥ हे अग्नाविष्णू महि महत् महनीयं पूजनीयम् । 'इन् सर्वधातुभ्यः' इति महेरिन् । तत् वक्ष्यमाणं वां युवयोः महित्वं माहात्म्यं ततो युवां वीतं घृतस्य गुह्यानि नाम । 'सुपां सुलुक्' इति शसो लुक् । आज्यसान्नाय्यपशुपुरोडाशादिगुह्यनामवन्ति घृतसम्बन्धीनि वस्तून्यश्नीतम् । वी गत्यादिषु । पादादित्वान्न निहन्यते । प्रति प्रत्येकं वां युवयोः दमेदमे गृहेगृहे सर्वेषु यज्ञगृहेषु । 'अनुदात्तं च' इति द्वितीयस्यानुदात्तत्वम् । सप्त सृप्तानि सप्तसङ्ख्यानि वा अर्चींषि रत्ना रत्नानि रमणीयानि । 'शेश्छन्दसि' इति लोपः । दधाना । दधानौ सन्तौ । 'सुपां सुलुक्' इति द्विवचनस्याकारः । दधानौ वीतमिति । किञ्च - प्रति प्रत्येकं वां युवयोः जिह्वा घृतमाचरण्येत् आभिमुख्येन प्राप्नोतु भक्षयत्वित्यर्थः । एतद्वां महिमेति पूर्वेणान्वीयते । चरण गतौ, कण्ड्वादिः ॥
2 तत्रैव याज्या - अग्नाविष्णू इति त्रिष्टुप् ॥ हे अग्नाविष्णू वां युवयोः धाम स्थानं तेजो वा महि महत् महनीयं वा प्रियमिष्टं युवयोः । किञ्च - वीथो घृतस्य गुह्या गुह्यानि स्वरूपाणि चरुपुरोडाशरूपाणि । पूर्ववच्छेर्लोपः । जुषाणा जुषमाणौ प्रीयमाणौ (अग्नीयः) शपश्श्लुः । पूर्ववदाकारः । दमेदमे । गतम् । सुष्टुतीश्शोभनस्तुतिकाः गिरः वावृधाना वावृधानौ वर्धयन्तौ दधानौ । यद्वा - सुष्टुतीः क्रिया वर्धयन्तौ । ऋत्विगादिना क्विन् । प्रवर्तयन्तौ । अन्तर्भावितण्यर्थाद्वृधेर्लट् शानच् 'बहुलं छन्दसि' इति शपश्श्लुः, 'तुजादीनाम्' इत्यभ्यासस्य दीर्घत्वम्, 'छन्दस्युभयथा' इत्यार्धधातुकत्वाल्लसार्वधातुकत्वाभावः । छान्दसो वा लिटः कानजादेशः ; ताच्छीलिको वा चानश् । यस्मादेवं तस्माद्वां युवयोः जिह्वा प्रत्येकं घृतमुच्चरण्येत् प्राप्नोतु भक्षयतु ॥
3 तत्रैव 'सरस्वत्याज्यभागा' इत्यत्र पुरोनुवाक्या - प्र ण इति गायत्री ॥ देवी सरस्वती वाजेभिः वाजैः रसैर्नोस्मान् प्रावतु प्रकर्षेण रक्षत्वन्नादि दत्वा । सरस्वती विशेष्यते - वाजिनीवती वाजवत्क्रियावती धीनां धियां अवित्री अभिमतप्रदानेन तर्पयित्री । यद्वा - धीनेति वाङ्नाम । अस्माकं धीनां वाचं प्रावतु, अभिमतप्रदानेन अवित्री पालयित्री तृप्ता वा अस्मदभिमतं शत्रुमारणं करोत्विति । यद्वा - अस्मद्दत्तैर्वाजैः पुरोडाशादिभिरन्नैः देवी प्रकर्षेणावतु । 'उपसर्गाद्बहुलम्' इति नसो णत्वम् । धीनामिति । छान्दसो नुट्, 'नामन्यतरस्याम्' इति नाम उदात्तत्वम् ॥
4 तत्रैव याज्या - आ न इति त्रिष्टुप् ॥ पर्वतादा इति प्रथमपादान्तः । सरस्वती देवी यजता यष्टव्या । यजेः क्तिच्[क्तः] । दिवः द्युलोकात् नः अस्माकं यज्ञमागन्तु आगच्छतु यद्यप्यनुच्छ्रिते प्रदेशे स्थिता शीघ्रमागच्च्छतु । छान्दसश्शपो लुक् । किञ्च - बृहतो महतः अपि पर्वतादागच्छतु प्रकृष्टाद्विषमाच्च प्रदेशादागच्छत्वित्यर्थः । किञ्च - हवमस्माकमाह्वानम् । 'भावेनुपसर्गस्य' इत्यप्, सम्प्रसारणं च । जुजुषाणा सेवमाना प्रीयमाणा वा घृताची घृतमाज्यभागं प्रत्यञ्चती । 'चौ' इति पूर्वपदस्य दीर्घत्वमन्तोदात्तत्त्वं च । शग्मां सुखां समर्थां वा अस्माकं स्तुतिरूपां शृणोतु उशती कामयमाना अस्मत्प्रत्तानि हवींषि स्तोत्राण्येव वा । वष्टेश्शतरि 'शतुरनुमः' इति नद्या उदात्तत्वम् ॥
5 अथ तत्रैव 'बार्हस्पत्यश्चरुः' इत्येतस्य पुरोनुवाक्या - बृहस्पत इति गायत्री ॥ हे बृहस्पते विश्वदेव्य विश्वेभ्यो देवेभ्यो हित । गवादिर्द्रष्टव्यः । अस्माकं हव्यानि जुषस्व सेवस्व । यद्वा - बृहस्पते बृहतां पते ब्रह्मन् विश्वदेव्य विश्वदेवमय हव्यानि जुषस्व सेवस्व आमन्त्रितस्य विद्यमानवत्त्वादाख्यातस्य निघाताभावे अदुपदेशाल्लसार्वधातुकानुदात्तत्वे शस्योदात्तत्वम् । सेवित्वा च दाशुषे तद्दत्तवते अस्मै यजमानाय रत्नानि रमणीयानि रास्व देहि । रातेश्छान्दसमनुदात्तत्वम्, तेनात्मनेपदम् सार्वधातुकानुदात्तत्वं च । 'दाश्वान् साह्वान्' इति दाशेः क्वसुन्निपात्यते ॥
6 तत्रैव याज्या - एवा पित्र इति त्रिष्टुप् ॥ एवमेव । लुगपवादस्सोर्डादेशः । पित्रे पात्रे रक्षित्रे विश्वदेवाय विश्वे देवा अस्य सन्तीति विश्वेपि देवा अस्याज्ञां कुर्वन्तीति । 'बहुव्रीहौ विश्वं संज्ञायाम्' इति विश्वशब्दस्यान्तोदात्तत्वम् । वृष्णे वर्षित्रे । 'क्रियाग्रहणं कर्तव्यम्' इति कर्मणस्सम्प्रदानत्वाच्चतुर्थी । इमं देवं यज्ञैर्विधेम परिचरेम । विध विधाने, तौदादिकः । नमसा नमस्कारेण हविर्भिश्च चर्वादिभिः हे बृहस्पते । किमर्थमिति चेत् ' सुप्रजाः शोभनपुत्रपौत्राः वीरवन्तोन्यैश्च शूरैश्च तद्वन्तः रयीणां धनानां च पतयस्स्याम भवेमेत्येवमर्थं परिचरेम । 'नामन्यतरस्याम्' इति नाम उदात्तत्वम् ॥
7 तत्रैव याज्या विकल्प्यते - बृहस्पत इपि त्रिष्टुप् ॥ हे बृहस्पते अर्यस्स्वामी विद्वान्राजा वा । यद्द्रविणं अत्यर्हात् अन्यानतिक्रम्य लब्धुमर्हति । यद्वा - यत् येन विशिष्टेन धनेन द्युमद्दीप्तिमत् क्रतुमत्स्वाद्वन्नभोगादिक्रियावत् यथा तथा जनेषु विभाति विशेषेण भाति । किञ्च - यच्च धनं शवसा बलेन अन्नेन वा दीदयत् दीप्यते शवसो हेतुभूतं भवत् लोके पूज्यते । दीदितिर्दीप्तिकर्मा, छान्दसः लेट्यडागमः, धातोरन्तोदात्तत्वम् । हे ऋतप्रजात सत्यप्रभव तत्तादृशं चित्रं चायनीयं प्रार्थनीयं द्रविणमस्मासु धेहि स्थापय देहि वा ॥
8 'मैत्रावरुणमेककपालं निर्वपेद्वशायै काले' इत्यस्य पुरोनुवाक्या - आ न इति गायत्री ॥ हे मित्रावरुणा मित्रावरुणौ । पूर्ववदाकारः । घृतैरुदकैः गव्यूतिं गोप्रचारम् । गावो यूयन्ते मिश्र्यन्तेस्यामित्यधिकरणे क्तिन्, दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम्, 'गोर्यूतौ छन्दसि' इत्यवादेशः । उपलक्षणं चैतत् । सर्वमप्यस्मदीयं क्षेत्रमोक्षतं आसिञ्चतं समन्तादभिवर्षतम् । यद्वा - गव्यूतिं व्रजं घृतैर्घृतदुग्धाभिस्समन्तादुक्षतं बहुदोग्ध्रीकं कुरुतम् । किञ्च - हे सुक्रतू शोभनकर्माणौ शोभनप्रज्ञानौ वा मध्वा मधुना मधुरसेन जलेन घृतेनैव वा रजांसि लोकान् सर्वानपि समन्तादुक्षतमित्येव ॥
9 तत्रैव याज्या - प्र बाहवेति त्रिष्टुप् ॥ बाहोर्बलं बाहुशब्देनोच्यते । अर्श आदित्वादच् । बाहवा बाहवौ बाहुबलवन्तौ युवाम् । छान्दसं प्रत्ययात्पूर्वस्योदात्तत्वम् । प्रसिसृतमागच्छतम् । यद्वा - बाहवा बाहुबलेन सह बाहुबलवन्तावागच्छतम् । तृतीयैकवचनस्य नाभावाभावे गुणश्छान्दसः । किमर्थं ? नोस्मान् जीवसे जीवयितुम् । 'तुमर्थे सेसेन्' इत्यसेप्रत्ययः । अस्माकं वा जीवसे जीवनाय । असुन्याद्युदात्तत्वाभावश्छान्दसः । आगत्य च नोस्माकं गव्यूतिं घृतेन समन्तादुक्षतमिति गतम् । किञ्च - नोस्मान् जने जनेषु जनपदेषु समन्ताच्छ्रावयतम् । यद्वा - अस्माकं जनपदेषु युवयोर्बाहुबलं ख्यापयतम् । शृणोतेर्णिचि वृद्ध्यभावश्छान्दसः । हे युवाना युवानौ नित्यतरुणौ मिश्रितौ वा । पूर्ववदाकारः । हे मित्रावरुणा मित्रावरुणौ इमा इमान् अस्मदीयान् हवा हवान् आह्वानानि । पूर्ववच्छस आकारः, ह्वयतेः पूर्ववदप्सम्प्रसारणं च । श्रुतं शृणुतम् । शपो लुक्, पादादित्वान्न निहन्यते ॥
10 अत्र मैत्रावरुणसोमारौद्रयोर्मध्ये कर्मान्तरं न श्रूयते, तेन लिङ्गक्रमाभ्यां याज्यार्थतायामसत्यां सोमारौद्रादिषु सामिधेन्यादिषु इतः परं काश्चिदृचो विनियुज्यन्ते ; यथासम्भवं । द्रष्टव्याः तत्र - अग्निं व इत्यनुष्टुप् ॥ हे ऋत्विग्यजमानाः वः युष्मदर्थं अग्निं पूर्व्यं पूर्वैः कृतं पूर्वैराराधितं ते यौ [तया] च गिरा स्तुत्या देवमीडे याचे । यद्वा - गिरा स्तोत्रेण स्तौमि । वसूनाम् । चतुर्थ्यर्थे षष्ठी । वस्वर्थं सपर्यन्तः पूजयन्तः । सपर पूजायाम्, कण्ड्वादिः । पूजार्थमेकस्मिन् बहुवचनं, तदा ईडे इति व्यत्ययेनैकवचनम् । यद्वा - हे सपर्यन्तः । व्यत्ययेनामन्त्रिताद्युदात्तत्वम्, रभावः औणादिको वा, वसन्तानिवत् झच् । सपर्यन्तोहमीडे । अग्निर्वीशेष्यते - पुरुप्रियं बहूनां प्रियं मित्रं न मित्रमिव क्षेत्रस्य साधयितारम् ॥
11 तत्र चतस्रः पङ्क्तयः पञ्चपादाः । 'देवानां य इन्मनः' इति पादत्रयं सर्वास्वनुषज्यते । तत्र द्वेद्वे सोमारौद्रे - मक्ष्वित्यादि ॥ मक्षु शीघ्रम् । 'अन्येषामपि दृश्यते' इति संहितायां दीर्घत्वम् । देववतः यज्वनः । स हि देववान्, देवानिष्टवान् तैस्तद्वान् भवति । रथः स रथः शीघ्रो भवति शीघ्रं गच्छति निस्सङ्गः पृत्सु सङ्ग्रामेषु शूरो वा शूरो इव । वाशब्द उपमर्थीयः । यथा शूरो विक्रान्तः पुरुषः कासुचित्पृत्सु निस्सङ्गश्शीघ्रं गच्छति एवं देववतो रथः । यद्वा - शूर इति षष्ठ्यर्थे प्रथमा । शूरस्येव रथो देववतश्शीघ्रं गच्छतीति । कः पुनरसौ देववानित्याह – य एव देवानाम्मनो भवति, यमेव देवा मन्यन्ते, देवानेव वा यो मन्यते । ईदृशो यो यजमानः इयक्षति पुनर्देवान्यष्टुमिच्छति । आदिवर्णलोपश्छान्दसः । किञ्च - अयज्वनः अयजमानान् अभिभुवत् अभिभवदेव । तस्माद्वयमप्येवमर्थं यजामह इति । भवतेर्लेटि शपो लुक्, 'लेटोडाटौ' इत्यडागमः, 'भूसुवोस्तिङि' इति गुणाभावः ॥
12 अथ द्वितीया - हे यजमान इष्ट्यादीन् कुर्वाण त्वं न रिष्यसि न हिंस्य असि । हे सुन्वान सोमानाहरन् त्वमपि न रिष्यसि । हे देवयो देवानात्मन इच्छन् पाकयज्ञादिभिः प्रचरन् त्वमपि न रिष्यसि । 'न छन्दस्यपुत्रस्य' इतीत्वाभावः, 'क्याच्छन्दसि' इत्युप्रत्ययः । किं कारणमित्याह - देवानां य इन्मन इत्यनुषज्यते । अयज्वानस्सोपद्रवा भवन्तीति शेषः ॥
13 अथ तृतीया - असदिति ॥ असद्भवेत् । अस्तेर्लेट्यडागमः । अत्र वक्ष्यमाणे सुवीर्यं शोभनवीर्यं वलं धनं वा पुरुषे भवति । 'वीरवीर्यौ च' इत्युत्तरपदान्तोदात्तत्वम् । उत अपि च त्यत् तदेव आश्वश्वियं आशुना अश्वसमूहेन युक्तं भवति । 'केशाश्वाभ्यां' इति छः, छान्दसं ह्रस्वत्वं, 'परादिश्छस्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् । उपलक्षणं चैतत् हास्तिकादीनाम् । अत्रेत्युक्तम्, कुत्रेत्याह - देवानां य इन्मन इत्यनुषज्यते । अयज्वानो निश्श्रीका भवन्तीति शेषः ॥
14 अथ चतुर्थी - नकिरिति ॥ तमिति प्रथमास्थाने द्वितीया । स खलु कर्मणा धर्मेण नशत् नश्यति न दुःखाभिभूतो भवति । पूर्वजन्मकृतेन पापेन कर्मणा न बाध्यते । नशेर्लेटि व्यत्ययेन शप् । केचिदाहुः - कर्मणेति प्रथमैकवचनस्य लुगपवादः 'सुपां सुलुक्' इत्याकारः । नशेर्ण्यन्ताल्लेटि 'बहुलं संज्ञाछन्दसोः' इति णिलुक् । ईजानमिष्टवन्तं देवान् । यजेः 'लिटः कानज्वा' इति कानच् । यक्ष्यमाणं च अचिराद्यक्ष्यमाणं यष्टुं कृताध्यवसायमिति । धेनवः देवान् प्रीणयत्यः पृणन्तश्च श्राद्धेन पितॄन् प्रीणयन्तम् । पृ प्रीतौ, श्नम् च । पपुरिञ्च पितॄणां प्रीणनशीलं च न पृणन्तमेव । 'आदृगमहनः' इति किन्प्रत्पयः । न केवलमीजानं यक्ष्यमाणमेव अपि तु पृणन्तं च पपुरिं चेति । प्रासङ्गिकी वृत्तप्रशंसा, इष्टापूर्तकारिणां प्रशंसनात् । तदृते कर्मण्यस्य विनियोगो द्रष्टव्यः । श्रवस्यवः, श्रवोन्नं तदिच्छन्त्यः अन्नयुक्ता इत्यर्थः । 'क्याच्छन्दसि' इत्युप्रत्ययः । काः पुनस्ता इत्याह - घृतस्य धारा अविच्छिन्नाः प्रवाहाः यथोक्तस्वभावाः यथोक्तलक्षणान् पुरुषान् उपक्षरन्ति । अपि च उपयन्ति विश्वतः सर्वाभ्यो दिग्भ्य उपागच्छन्ति ॥
15 'यो ब्रह्मवर्चसकामस्स्यात्तस्मा एतं सोमारौद्रं चरुं निर्वपेत्' इत्यस्य पुरोनुवाक्या - सोमारुद्रा वि वृहतमिति त्रिष्टुप् ॥ हे सोमारुद्रा सोमारुद्रौ । पूर्ववदानङ्, आकारश्च । विवृहतम् । वृहू उद्यमने, तौदादिकः । विषूचीं विष्वग्गमनाम् । कामित्याह - या अमीवा रोगस्तेजोहानिरूपः नोस्माकं गयं गृहं आविवेश । किञ्च - आरे दूरे बाधेथां गमयतं, गमयित्वा नाशयतं, निरृतिं निकृष्टां गतिं निकृष्टगमनहेतुं पापम् । 'पातौ च' इति गतेः प्रकृतिस्वरत्वम्, प्रादिसमासो वा । पराचैः परावृत्तिभिर्गमनैः । यथा पुनरस्मत्पार्श्वं नागच्छति तथा बाधेथाम् । निपातोयं यथा उच्चैः नीचैः । एवादित्वादन्तोदात्तत्वम् । किञ्च - चेदर्थे चिच्छब्दः । एनः अस्माभिः कृतं चेदस्मदस्मत्तः अस्मत्सकाशात्प्रमुमुक्तं प्रकर्षेण मोचयतम् । शपश्श्लुः ॥
16 तत्रैव याज्या - सोमारुद्रा युवमिति त्रिष्टुप् ॥ हे सोमारुद्रा युवं युवां एतानि भेषजानि यानि लोके सन्ति तानि विश्वा विश्वानि अस्मे अस्माकम् । 'सुपां सुलुक्' इति शे आदेशः । तनूषु शरीरेषु धत्तं स्थापयतं, दत्तं वा । किञ्च - नः अस्माकं तनूषु बद्धं यदस्माभिः कृतं एनः पापमस्ति तत्प्रथमं तावदस्मत् अस्मत्तः मुञ्चतं विश्लेषयितम् । तिङः परत्वान्न निहन्यते । ततो मुक्त्वा तदवस्यतं अवसाययितं विनाशयितम् । न इत्यस्य 'प्रकृत्यान्तःपादम्' इति प्रकृतिभावः ॥
17 यदि बिभीयद्दुश्चर्मा भविष्यामीति सोमापौष्णं चरुं निर्वपेत्' इत्यस्य पुरोनुवाक्या - सोमापूषणेति त्रिष्टुप् ॥ हे सोमापूषणौ । पूर्ववदाकारः । रयीणां धनानां जनना जननौ जनयितारौ युवाम् । 'नामन्यतरस्यां' इति नाम उदात्तत्वम् । दिवश्च पृथिव्याश्च जनयितारौ । 'ऊडिदम्' इति दिवो विभक्तिरुदात्ता । 'उदात्तयणः' इति पृथिव्याः । जातौ जातमात्रावेव युवां विश्वस्य भुवनस्य भूतजातस्य गोपा गोपयितारौ । इर्दृशौ युवां देवा अकृण्वन् अकुर्वन् । अमृतस्य नाभिं नहनौ बन्धनौ ॥
18 तत्रैव याज्या - इमौ देवाविति त्रिष्टुप् ॥ इमौ देवौ सोमापूषणौ जायमानावेवावस्थितौ जुषन्त अजुषन्त सेवितवन्तः सर्वे देवाः । 'बहुलं छन्दस्यमाङ्योगेपि' इत्यडभावः । किञ्च - इमौ देवौ तमांसि अजुष्टा अजुष्टानि अप्रियाणि । 'शेश्छन्दसि' इति लोपः । अजुष्टा अजुष्टौ तमोभिरसेवितारौ । पूर्ववदाकारः । गूहतामनाशयताम् । छान्दसो लिङ्, 'ऊदुपधाया गोहः' । यद्वा - इमौ खलु सर्वस्य तमांसि गूहतां गूहयतः । लडर्थे लिङ् । किञ्च – आभ्यां सोमापूषभ्यां सह । अन्वादेशत्वेपि व्यत्ययेन निघाताभावः, 'ऊडिदम्' इति विभक्त्युदात्तत्वमेव प्रवर्तते । आभ्यां महेन्द्रः, आमासु तरुणीषु उस्रियासु गोषु अन्तः परिपक्वं पयो जनत् जनयति उत्पादयति । जनेर्ण्यन्तात्पूर्ववल्लङ्, पूर्ववदडभावः, 'छन्दस्युभयथा' इति शप आर्धधातुकत्वाण्णिलोपः । ताविमावेवम्महानुभावौ अस्माकं दुश्चर्मतां नाशयतां शोभनानि दत्तामित्यर्थः ॥
इति भट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये प्रथमे काण्डे अष्टमे प्रपाठके द्वाविंशोनुवाकः ॥

प्रपाठकस्समाप्तः काण्डश्च ॥

हरिः ओम् ॥

—----------------

पञ्चशत् 2 #
TS 1.8.22.2 TS 1.8.22.2
पर्व॑ता॒दा सर॑स्वती यज॒ता ग॑न्तु य॒ज्ञ्ं । हवं॑ दे॒वी जु॑जुषा॒णा घृ॒ताची॑ श॒ग्मां नो॒ वाच॑मुश॒ती शृ॑णोतु ॥ बृह॑स्पते जु॒षस्व॑ नो ह॒व्यानि॑ विश्वदेव्य । रास्व॒ रत्ना॑नि दा॒शुषे᳚ ॥ ए॒वा पि॒त्रे वि॒श्वदे॑वाय॒ वृष्णे॑ य॒ज्ञिर् वि॑धेम॒ नम॑सा ह॒विर्भिः॑ । बृह॑स्पते सुप्र॒जा वी॒रव॑न्तो व॒यꣳ स्या॑म॒ पत॑यो रयी॒णां ॥ बृह॑स्पते॒ अति॒ यद॒र्यो अर्.हा᳚द् द्यु॒मद् वि॒भाति॒ क्रतु॑म॒ज्जने॑षु । यद् दी॒दय॒च्छव॑स- [ ]
पदपाठः (Word-by-word)
पर्व॑तात् । एति॑ । सर॑स्वती । य॒ज॒ता । ग॒न्तु॒ । य॒ज्ञ्म् ॥ हव᳚म् । दे॒वी । जु॒जु॒षा॒णा । घृ॒ताची᳚ । श॒ग्माम् । नः॒ । वाच᳚म् । उ॒श॒ती । शृ॒णो॒तु॒ ॥ बृह॑स्पते । जु॒षस्व॑ । नः॒ । ह॒व्यानि॑ । वि॒श्व॒दे॒व्येति॑ विश्व-दे॒व्य॒ ॥ रास्व॑ । रत्ना॑नि । दा॒शुषे᳚ ॥ ए॒वा । पि॒त्रे । वि॒श्वदे॑वा॒येति॑ वि॒श्व-दे॒वा॒य॒ । वृष्णे᳚ । य॒ज्ञिः । वि॒धे॒म॒ । नम॑सा । ह॒विर्भि॒रिति॑ ह॒विः - भिः॒ ॥ बृह॑स्पते । सु॒प्र॒जा इति॑ सु - प्र॒जाः । वी॒रव॑न्त॒ इति॑ वी॒र - व॒न्तः॒ । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥ बृह॑स्पते । अतीति॑ । यत् । अ॒र्यः । अर्.हा᳚त् । द्यु॒मदिति॑ द्यु - मत् । वि॒भातीति॑ वि - भाति॑ । क्रतु॑म॒दिति॒ क्रतु॑ - म॒त् । जने॑षु ॥ यत् । दी॒दय॑त् । शव॑सा ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 1.8.22.3 TS 1.8.22.3
र्तप्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रं ॥ आ नो॑ मित्रावरुणा घृ॒तैर् गव्यू॑तिमुक्षतं । मद्ध्वा॒ रजाꣳ॑सि सुक्रतू ॥ प्र बा॒हवा॑ सिसृतं जी॒वसे॑ न॒ आ नो॒ गव्यू॑ति-मुक्षतं घृ॒तेन॑ । आ नो॒ जने᳚ श्रवयतं ॅयुवाना श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मा ॥ अ॒ग्निं ॅवः॑ पू॒र्व्यं गि॒रा दे॒वमी॑डे॒ वसू॑नां । स॒प॒र्यन्तः॑ पुरुप्रि॒यं मि॒त्रं न क्षे᳚त्र॒साध॑सं ॥ म॒क्षू दे॒वव॑तो॒ रथः॒ - [ ]
पदपाठः (Word-by-word)
ऋ॒त॒प्र॒जा॒तेत्यृ॑त-प्र॒जा॒त॒ । तत् । अ॒स्मासु॑ । द्रवि॑णम् । धे॒हि॒ । चि॒त्रम् ॥ एति॑ । नः॒ । मि॒त्रा॒व॒रु॒णेति॑ मित्रा-व॒रु॒णा॒ । घृ॒तैः । गव्यू॑तिम् । उ॒क्ष॒त॒म् ॥ मद्ध्वा᳚ । रजाꣳ॑सि । सु॒क्र॒तू॒ इति॑ सु-क्र॒तू॒ ॥ प्रेति॑ । बा॒हवा᳚ । सि॒सृ॒त॒म् । जी॒वसे᳚ । नः॒ । एति॑ । नः॒ । गव्यू॑तिम् । उ॒क्ष॒त॒म् । घृ॒तेन॑ ॥ एति॑ । नः॒ । जने᳚ । श्र॒व॒य॒त॒म् । यु॒वा॒ना॒ । श्रु॒तम् । मे॒ । मि॒त्रा॒व॒रु॒णेति॑ मित्रा - व॒रु॒णा॒ । हवा᳚ । इ॒मा ॥ अ॒ग्निम् । वः॒ । पू॒र्व्यम् । गि॒रा । दे॒वम् । ई॒डे॒ । वसू॑नाम् ॥ स॒प॒र्यन्तः॑ । पु॒रु॒प्रि॒यमिति॑ पुरु-प्रि॒यम् । मि॒त्रम् । न । क्षे॒त्र॒साध॑स॒मिति॑ क्षेत्र - साध॑सम् ॥ म॒क्षु । दे॒वव॑त॒ इति॑ दे॒व - व॒तः॒ । रथः॑ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 1.8.22.4 TS 1.8.22.4
शूरो॑ वा पृ॒थ्सु कासु॑ चित् । दे॒वानां॒ ॅय इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥ न य॑जमान रिष्यसि॒ न सु॑न्वान॒ न दे॑वयो ॥ अस॒दत्र॑ सु॒वीर्य॑मु॒त त्यदा॒श्वश्वि॑यं ॥ नकि॒ष्टं कर्म॑णा नश॒न्न प्र यो॑ष॒न्न यो॑षति ॥ उप॑ क्षरन्ति॒ सिन्ध॑वो मयो॒भुव॑ ईजा॒नं च॑ य॒क्ष्यमा॑णं च धे॒नवः॑ । पृ॒णन्तं॑ च॒ पपु॑रिं च - [ ]
पदपाठः (Word-by-word)
शूरः॑ । वा॒ । पृ॒थ्स्विति॑ पृत्-सु । कासु॑ । चि॒त् ॥ दे॒वाना᳚म् । यः । इत् । मनः॑ । यज॑मानः । इय॑क्षति । अ॒भीति॑ । इत् । अय॑ज्वनः । भु॒व॒त् ॥ न । य॒ज॒मा॒न॒ । रि॒ष्य॒सि॒ । न । सु॒न्वा॒न॒ । न । दे॒व॒यो॒ इति॑ देव-यो॒ ॥ अस॑त् । अत्र॑ । सु॒वीर्य॒मिति॑ सु - वीर्य᳚म् । उ॒त । त्यत् । आ॒श्वश्वि॑य॒मित्या॑शु-अश्वि॑यम् ॥ नकिः॑ । तम् । कर्म॑णा । न॒श॒त् । न । प्रेति॑ । यो॒ष॒त् । न । यो॒ष॒ति॒ ॥ उपेति॑ । क्ष॒र॒न्ति॒ । सिन्ध॑वः । म॒यो॒भुव॒ इति॑ मयः - भुवः॑ । ई॒जा॒नम् । च॒ । य॒क्ष्यमा॑णम् । च॒ । धे॒नवः॑ ॥ पृ॒णन्त᳚म् । च॒ । पपु॑रिम् । च॒ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 1.8.22.5 TS 1.8.22.5
श्रव॒स्यवो॑ घृ॒तस्य॒ धारा॒ उप॑ यन्ति वि॒श्वतः॑ ॥सोमा॑रुद्रा॒ वि वृ॑हतं॒ ॅविषू॑ची॒ममी॑वा॒ या नो॒ गय॑-मावि॒वेश॑ । आ॒रे बा॑धेथां॒ निर्.ऋ॑तिं परा॒चैः कृ॒तं चि॒देनः॒ प्र मु॑मुक्त-म॒स्मत् ॥ सोमा॑रुद्रा यु॒व-मे॒तान्य॒स्मे विश्वा॑ त॒नूषु॑ भेष॒जानि॑ धत्तं । अव॑ स्यतं मु॒ञ्चतं॒ ॅयन्नो॒ अस्ति॑ त॒नूषु॑ ब॒द्धं कृ॒तमेनो॑ अ॒स्मत् ॥ सोमा॑पूषणा॒ जन॑ना रयी॒णां जन॑ना दि॒वो जन॑ना ( ) पृथि॒व्याः । जा॒तौ विश्व॑स्य॒ भुव॑नस्य गो॒पौ दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभिं᳚ ॥ इ॒मौ दे॒वौ जाय॑मानौ जुषन्ते॒मौ तमाꣳ॑सि गूहता॒-मजु॑ष्टा । आ॒भ्यामिन्द्रः॑ प॒क्वमा॒मास्व॒न्तः सो॑मापू॒षभ्यां᳚ जनदु॒स्रिया॑सु ॥
पदपाठः (Word-by-word)
श्र॒व॒स्यवः॑ । घृ॒तस्य॑ । धाराः᳚ । उपेति॑ । य॒न्ति॒ । वि॒श्वतः॑ ॥ सोमा॑रु॒द्रेति॒ सोमा᳚-रु॒द्रा॒ । वीति॑ । वृ॒ह॒त॒म् । विषू॑चीम् । अमी॑वा । या । नः॒ । गय᳚म् । आ॒वि॒वेशेत्या᳚ - वि॒वेश॑ ॥ आ॒रे । बा॒धे॒था॒म् । निर्.ऋ॑ति॒मिति॒ निः - ऋ॒ति॒म् । प॒रा॒चैः । कृ॒तम् । चि॒त् । एनः॑ । प्रेति॑ । मु॒मु॒क्त॒म् । अ॒स्मत् ॥ सोमा॑रु॒द्रेति॒ सोमा᳚-रु॒द्रा॒ । यु॒वम् । ए॒तानि॑ । अ॒स्मे इति॑ । विश्वा᳚ । त॒नूषु॑ । भे॒ष॒जानि॑ । ध॒त्त॒म् । अवेति॑ । स्य॒त॒म् । मु॒ञ्चत᳚म् । यत् । नः॒ । अस्ति॑ । त॒नूषु॑ । ब॒द्धम् । कृ॒तम् । एनः॑ । अ॒स्मत् । सोमा॑पूष॒णेति॒ सोमा᳚ - पू॒ष॒णा॒ । जन॑ना । र॒यी॒णाम् । जन॑ना । दि॒वः । जन॑ना ( ) । पृ॒थि॒व्याः ॥ जा॒तौ । विश्व॑स्य । भुव॑नस्य । गो॒पौ । दे॒वाः । अ॒कृ॒ण्व॒न्न् । अ॒मृत॑स्य । नाभि᳚म् ॥ इ॒मौ । दे॒वौ । जाय॑मानौ । जु॒ष॒न्त॒ । इ॒मौ । तमाꣳ॑सि । गू॒ह॒ता॒म् । अजु॑ष्टा ॥ आ॒भ्याम् । इन्द्रः॑ । प॒क्वम् । आ॒मासु॑ । अ॒न्तः । सो॒मा॒पू॒षभ्या॒मिति॑ सोमापू॒ष - भ्या॒म् । ज॒न॒त् । उ॒स्रिया॑सु ॥
पदसंख्या: 75