पञ्चशत् 1 #
अग्ना॑विष्णू॒ महि॒ तद् वां᳚ महि॒त्वं ॅवी॒तं घृ॒तस्य॒ गुह्या॑नि॒ नाम॑ । दमे॑दमे स॒प्त रत्ना॒ दधा॑ना॒ प्रति॑ वां जि॒ह्वा घृ॒तमा च॑रण्येत् ॥ अग्ना॑विष्णू॒ महि॒ धाम॑ प्रि॒यं ॅवां᳚ ॅवी॒थो घृ॒तस्य॒ गुह्या॑ जुषा॒णा । दमे॑दमे सुष्टु॒तीर् वा॑वृधा॒ना प्रति॑ वां जि॒ह्वा घृ॒तमुच्च॑रण्येत् ॥ प्र णो॑ दे॒वी सर॑स्वती॒ वाजे॑भिर् वा॒जिनी॑वती । धी॒ना-म॑वि॒त्य्र॑वतु । आ नो॑ दि॒वो बृ॑ह॒तः - [ ]
पदपाठः (Word-by-word)
अग्ना॑विष्णू॒ इत्यग्ना᳚ - वि॒ष्णू॒ । महि॑ । तत् । वा॒म् । म॒हि॒त्वमिति॑ महि - त्वम् । वी॒तम् । घृ॒तस्य॑ । गुह्या॑नि । नाम॑ ॥ दमे॑दम॒ इति॒ दमे᳚-द॒मे॒ । स॒प्त । रत्ना᳚ । दधा॑ना । प्रतीति॑ । वा॒म् । जि॒ह्वा । घृ॒तम् । एति॑ । च॒र॒ण्ये॒त् ॥ अग्ना॑विष्णू॒ इत्यग्ना᳚-वि॒ष्णू॒ । महि॑ । धाम॑ । प्रि॒यम् । वा॒म् । वी॒थः । घृ॒तस्य॑ । गुह्या᳚ । जु॒षा॒णा ॥ दमे॑दम॒ इति॒ दमे᳚ - द॒मे॒ । सु॒ष्टु॒तीरिति॑ सु-स्तु॒तीः । वा॒वृ॒धा॒ना । प्रतीति॑ । वा॒म् । जि॒ह्वा । घृ॒तम् । उदिति॑ । च॒र॒ण्ये॒त् ॥ प्रेति॑ । नः॒ । दे॒वी । सर॑स्वती । वाजे॑भिः । वा॒जिनी॑व॒तीति॑ वा॒जिनी᳚ - व॒ती॒ ॥ धी॒नाम् । अ॒वि॒त्री । अ॒व॒तु॒ ॥ एति॑ । नः॒ । दि॒वः । बृ॒ह॒तः ।
सायणभाष्यम् (Sayana Commentary)
—-----------------------------------------------
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ याज्याकाण्डं वैश्वदेवम् । तत्र 'आग्नावैष्णवमेकादशपालं निर्वपेदभिचरन्त्सरस्वत्याज्यभागा स्याद्बार्हस्पत्यश्चरुः' इत्यस्याग्नावैष्णवस्य पुरोनुवाक्या - अग्नाविष्णू महीति त्रिष्टुप् ॥ हे अग्नाविष्णू महि महत् महनीयं पूजनीयम् । 'इन् सर्वधातुभ्यः' इति महेरिन् । तत् वक्ष्यमाणं वां युवयोः महित्वं माहात्म्यं ततो युवां वीतं घृतस्य गुह्यानि नाम । 'सुपां सुलुक्' इति शसो लुक् । आज्यसान्नाय्यपशुपुरोडाशादिगुह्यनामवन्ति घृतसम्बन्धीनि वस्तून्यश्नीतम् । वी गत्यादिषु । पादादित्वान्न निहन्यते । प्रति प्रत्येकं वां युवयोः दमेदमे गृहेगृहे सर्वेषु यज्ञगृहेषु । 'अनुदात्तं च' इति द्वितीयस्यानुदात्तत्वम् । सप्त सृप्तानि सप्तसङ्ख्यानि वा अर्चींषि रत्ना रत्नानि रमणीयानि । 'शेश्छन्दसि' इति लोपः । दधाना । दधानौ सन्तौ । 'सुपां सुलुक्' इति द्विवचनस्याकारः । दधानौ वीतमिति । किञ्च - प्रति प्रत्येकं वां युवयोः जिह्वा घृतमाचरण्येत् आभिमुख्येन प्राप्नोतु भक्षयत्वित्यर्थः । एतद्वां महिमेति पूर्वेणान्वीयते । चरण गतौ, कण्ड्वादिः ॥
2 तत्रैव याज्या - अग्नाविष्णू इति त्रिष्टुप् ॥ हे अग्नाविष्णू वां युवयोः धाम स्थानं तेजो वा महि महत् महनीयं वा प्रियमिष्टं युवयोः । किञ्च - वीथो घृतस्य गुह्या गुह्यानि स्वरूपाणि चरुपुरोडाशरूपाणि । पूर्ववच्छेर्लोपः । जुषाणा जुषमाणौ प्रीयमाणौ (अग्नीयः) शपश्श्लुः । पूर्ववदाकारः । दमेदमे । गतम् । सुष्टुतीश्शोभनस्तुतिकाः गिरः वावृधाना वावृधानौ वर्धयन्तौ दधानौ । यद्वा - सुष्टुतीः क्रिया वर्धयन्तौ । ऋत्विगादिना क्विन् । प्रवर्तयन्तौ । अन्तर्भावितण्यर्थाद्वृधेर्लट् शानच् 'बहुलं छन्दसि' इति शपश्श्लुः, 'तुजादीनाम्' इत्यभ्यासस्य दीर्घत्वम्, 'छन्दस्युभयथा' इत्यार्धधातुकत्वाल्लसार्वधातुकत्वाभावः । छान्दसो वा लिटः कानजादेशः ; ताच्छीलिको वा चानश् । यस्मादेवं तस्माद्वां युवयोः जिह्वा प्रत्येकं घृतमुच्चरण्येत् प्राप्नोतु भक्षयतु ॥
3 तत्रैव 'सरस्वत्याज्यभागा' इत्यत्र पुरोनुवाक्या - प्र ण इति गायत्री ॥ देवी सरस्वती वाजेभिः वाजैः रसैर्नोस्मान् प्रावतु प्रकर्षेण रक्षत्वन्नादि दत्वा । सरस्वती विशेष्यते - वाजिनीवती वाजवत्क्रियावती धीनां धियां अवित्री अभिमतप्रदानेन तर्पयित्री । यद्वा - धीनेति वाङ्नाम । अस्माकं धीनां वाचं प्रावतु, अभिमतप्रदानेन अवित्री पालयित्री तृप्ता वा अस्मदभिमतं शत्रुमारणं करोत्विति । यद्वा - अस्मद्दत्तैर्वाजैः पुरोडाशादिभिरन्नैः देवी प्रकर्षेणावतु । 'उपसर्गाद्बहुलम्' इति नसो णत्वम् । धीनामिति । छान्दसो नुट्, 'नामन्यतरस्याम्' इति नाम उदात्तत्वम् ॥
4 तत्रैव याज्या - आ न इति त्रिष्टुप् ॥ पर्वतादा इति प्रथमपादान्तः । सरस्वती देवी यजता यष्टव्या । यजेः क्तिच्[क्तः] । दिवः द्युलोकात् नः अस्माकं यज्ञमागन्तु आगच्छतु यद्यप्यनुच्छ्रिते प्रदेशे स्थिता शीघ्रमागच्च्छतु । छान्दसश्शपो लुक् । किञ्च - बृहतो महतः अपि पर्वतादागच्छतु प्रकृष्टाद्विषमाच्च प्रदेशादागच्छत्वित्यर्थः । किञ्च - हवमस्माकमाह्वानम् । 'भावेनुपसर्गस्य' इत्यप्, सम्प्रसारणं च । जुजुषाणा सेवमाना प्रीयमाणा वा घृताची घृतमाज्यभागं प्रत्यञ्चती । 'चौ' इति पूर्वपदस्य दीर्घत्वमन्तोदात्तत्त्वं च । शग्मां सुखां समर्थां वा अस्माकं स्तुतिरूपां शृणोतु उशती कामयमाना अस्मत्प्रत्तानि हवींषि स्तोत्राण्येव वा । वष्टेश्शतरि 'शतुरनुमः' इति नद्या उदात्तत्वम् ॥
5 अथ तत्रैव 'बार्हस्पत्यश्चरुः' इत्येतस्य पुरोनुवाक्या - बृहस्पत इति गायत्री ॥ हे बृहस्पते विश्वदेव्य विश्वेभ्यो देवेभ्यो हित । गवादिर्द्रष्टव्यः । अस्माकं हव्यानि जुषस्व सेवस्व । यद्वा - बृहस्पते बृहतां पते ब्रह्मन् विश्वदेव्य विश्वदेवमय हव्यानि जुषस्व सेवस्व आमन्त्रितस्य विद्यमानवत्त्वादाख्यातस्य निघाताभावे अदुपदेशाल्लसार्वधातुकानुदात्तत्वे शस्योदात्तत्वम् । सेवित्वा च दाशुषे तद्दत्तवते अस्मै यजमानाय रत्नानि रमणीयानि रास्व देहि । रातेश्छान्दसमनुदात्तत्वम्, तेनात्मनेपदम् सार्वधातुकानुदात्तत्वं च । 'दाश्वान् साह्वान्' इति दाशेः क्वसुन्निपात्यते ॥
6 तत्रैव याज्या - एवा पित्र इति त्रिष्टुप् ॥ एवमेव । लुगपवादस्सोर्डादेशः । पित्रे पात्रे रक्षित्रे विश्वदेवाय विश्वे देवा अस्य सन्तीति विश्वेपि देवा अस्याज्ञां कुर्वन्तीति । 'बहुव्रीहौ विश्वं संज्ञायाम्' इति विश्वशब्दस्यान्तोदात्तत्वम् । वृष्णे वर्षित्रे । 'क्रियाग्रहणं कर्तव्यम्' इति कर्मणस्सम्प्रदानत्वाच्चतुर्थी । इमं देवं यज्ञैर्विधेम परिचरेम । विध विधाने, तौदादिकः । नमसा नमस्कारेण हविर्भिश्च चर्वादिभिः हे बृहस्पते । किमर्थमिति चेत् ' सुप्रजाः शोभनपुत्रपौत्राः वीरवन्तोन्यैश्च शूरैश्च तद्वन्तः रयीणां धनानां च पतयस्स्याम भवेमेत्येवमर्थं परिचरेम । 'नामन्यतरस्याम्' इति नाम उदात्तत्वम् ॥
7 तत्रैव याज्या विकल्प्यते - बृहस्पत इपि त्रिष्टुप् ॥ हे बृहस्पते अर्यस्स्वामी विद्वान्राजा वा । यद्द्रविणं अत्यर्हात् अन्यानतिक्रम्य लब्धुमर्हति । यद्वा - यत् येन विशिष्टेन धनेन द्युमद्दीप्तिमत् क्रतुमत्स्वाद्वन्नभोगादिक्रियावत् यथा तथा जनेषु विभाति विशेषेण भाति । किञ्च - यच्च धनं शवसा बलेन अन्नेन वा दीदयत् दीप्यते शवसो हेतुभूतं भवत् लोके पूज्यते । दीदितिर्दीप्तिकर्मा, छान्दसः लेट्यडागमः, धातोरन्तोदात्तत्वम् । हे ऋतप्रजात सत्यप्रभव तत्तादृशं चित्रं चायनीयं प्रार्थनीयं द्रविणमस्मासु धेहि स्थापय देहि वा ॥
8 'मैत्रावरुणमेककपालं निर्वपेद्वशायै काले' इत्यस्य पुरोनुवाक्या - आ न इति गायत्री ॥ हे मित्रावरुणा मित्रावरुणौ । पूर्ववदाकारः । घृतैरुदकैः गव्यूतिं गोप्रचारम् । गावो यूयन्ते मिश्र्यन्तेस्यामित्यधिकरणे क्तिन्, दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम्, 'गोर्यूतौ छन्दसि' इत्यवादेशः । उपलक्षणं चैतत् । सर्वमप्यस्मदीयं क्षेत्रमोक्षतं आसिञ्चतं समन्तादभिवर्षतम् । यद्वा - गव्यूतिं व्रजं घृतैर्घृतदुग्धाभिस्समन्तादुक्षतं बहुदोग्ध्रीकं कुरुतम् । किञ्च - हे सुक्रतू शोभनकर्माणौ शोभनप्रज्ञानौ वा मध्वा मधुना मधुरसेन जलेन घृतेनैव वा रजांसि लोकान् सर्वानपि समन्तादुक्षतमित्येव ॥
9 तत्रैव याज्या - प्र बाहवेति त्रिष्टुप् ॥ बाहोर्बलं बाहुशब्देनोच्यते । अर्श आदित्वादच् । बाहवा बाहवौ बाहुबलवन्तौ युवाम् । छान्दसं प्रत्ययात्पूर्वस्योदात्तत्वम् । प्रसिसृतमागच्छतम् । यद्वा - बाहवा बाहुबलेन सह बाहुबलवन्तावागच्छतम् । तृतीयैकवचनस्य नाभावाभावे गुणश्छान्दसः । किमर्थं ? नोस्मान् जीवसे जीवयितुम् । 'तुमर्थे सेसेन्' इत्यसेप्रत्ययः । अस्माकं वा जीवसे जीवनाय । असुन्याद्युदात्तत्वाभावश्छान्दसः । आगत्य च नोस्माकं गव्यूतिं घृतेन समन्तादुक्षतमिति गतम् । किञ्च - नोस्मान् जने जनेषु जनपदेषु समन्ताच्छ्रावयतम् । यद्वा - अस्माकं जनपदेषु युवयोर्बाहुबलं ख्यापयतम् । शृणोतेर्णिचि वृद्ध्यभावश्छान्दसः । हे युवाना युवानौ नित्यतरुणौ मिश्रितौ वा । पूर्ववदाकारः । हे मित्रावरुणा मित्रावरुणौ इमा इमान् अस्मदीयान् हवा हवान् आह्वानानि । पूर्ववच्छस आकारः, ह्वयतेः पूर्ववदप्सम्प्रसारणं च । श्रुतं शृणुतम् । शपो लुक्, पादादित्वान्न निहन्यते ॥
10 अत्र मैत्रावरुणसोमारौद्रयोर्मध्ये कर्मान्तरं न श्रूयते, तेन लिङ्गक्रमाभ्यां याज्यार्थतायामसत्यां सोमारौद्रादिषु सामिधेन्यादिषु इतः परं काश्चिदृचो विनियुज्यन्ते ; यथासम्भवं । द्रष्टव्याः तत्र - अग्निं व इत्यनुष्टुप् ॥ हे ऋत्विग्यजमानाः वः युष्मदर्थं अग्निं पूर्व्यं पूर्वैः कृतं पूर्वैराराधितं ते यौ [तया] च गिरा स्तुत्या देवमीडे याचे । यद्वा - गिरा स्तोत्रेण स्तौमि । वसूनाम् । चतुर्थ्यर्थे षष्ठी । वस्वर्थं सपर्यन्तः पूजयन्तः । सपर पूजायाम्, कण्ड्वादिः । पूजार्थमेकस्मिन् बहुवचनं, तदा ईडे इति व्यत्ययेनैकवचनम् । यद्वा - हे सपर्यन्तः । व्यत्ययेनामन्त्रिताद्युदात्तत्वम्, रभावः औणादिको वा, वसन्तानिवत् झच् । सपर्यन्तोहमीडे । अग्निर्वीशेष्यते - पुरुप्रियं बहूनां प्रियं मित्रं न मित्रमिव क्षेत्रस्य साधयितारम् ॥
11 तत्र चतस्रः पङ्क्तयः पञ्चपादाः । 'देवानां य इन्मनः' इति पादत्रयं सर्वास्वनुषज्यते । तत्र द्वेद्वे सोमारौद्रे - मक्ष्वित्यादि ॥ मक्षु शीघ्रम् । 'अन्येषामपि दृश्यते' इति संहितायां दीर्घत्वम् । देववतः यज्वनः । स हि देववान्, देवानिष्टवान् तैस्तद्वान् भवति । रथः स रथः शीघ्रो भवति शीघ्रं गच्छति निस्सङ्गः पृत्सु सङ्ग्रामेषु शूरो वा शूरो इव । वाशब्द उपमर्थीयः । यथा शूरो विक्रान्तः पुरुषः कासुचित्पृत्सु निस्सङ्गश्शीघ्रं गच्छति एवं देववतो रथः । यद्वा - शूर इति षष्ठ्यर्थे प्रथमा । शूरस्येव रथो देववतश्शीघ्रं गच्छतीति । कः पुनरसौ देववानित्याह – य एव देवानाम्मनो भवति, यमेव देवा मन्यन्ते, देवानेव वा यो मन्यते । ईदृशो यो यजमानः इयक्षति पुनर्देवान्यष्टुमिच्छति । आदिवर्णलोपश्छान्दसः । किञ्च - अयज्वनः अयजमानान् अभिभुवत् अभिभवदेव । तस्माद्वयमप्येवमर्थं यजामह इति । भवतेर्लेटि शपो लुक्, 'लेटोडाटौ' इत्यडागमः, 'भूसुवोस्तिङि' इति गुणाभावः ॥
12 अथ द्वितीया - हे यजमान इष्ट्यादीन् कुर्वाण त्वं न रिष्यसि न हिंस्य असि । हे सुन्वान सोमानाहरन् त्वमपि न रिष्यसि । हे देवयो देवानात्मन इच्छन् पाकयज्ञादिभिः प्रचरन् त्वमपि न रिष्यसि । 'न छन्दस्यपुत्रस्य' इतीत्वाभावः, 'क्याच्छन्दसि' इत्युप्रत्ययः । किं कारणमित्याह - देवानां य इन्मन इत्यनुषज्यते । अयज्वानस्सोपद्रवा भवन्तीति शेषः ॥
13 अथ तृतीया - असदिति ॥ असद्भवेत् । अस्तेर्लेट्यडागमः । अत्र वक्ष्यमाणे सुवीर्यं शोभनवीर्यं वलं धनं वा पुरुषे भवति । 'वीरवीर्यौ च' इत्युत्तरपदान्तोदात्तत्वम् । उत अपि च त्यत् तदेव आश्वश्वियं आशुना अश्वसमूहेन युक्तं भवति । 'केशाश्वाभ्यां' इति छः, छान्दसं ह्रस्वत्वं, 'परादिश्छस्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् । उपलक्षणं चैतत् हास्तिकादीनाम् । अत्रेत्युक्तम्, कुत्रेत्याह - देवानां य इन्मन इत्यनुषज्यते । अयज्वानो निश्श्रीका भवन्तीति शेषः ॥
14 अथ चतुर्थी - नकिरिति ॥ तमिति प्रथमास्थाने द्वितीया । स खलु कर्मणा धर्मेण नशत् नश्यति न दुःखाभिभूतो भवति । पूर्वजन्मकृतेन पापेन कर्मणा न बाध्यते । नशेर्लेटि व्यत्ययेन शप् । केचिदाहुः - कर्मणेति प्रथमैकवचनस्य लुगपवादः 'सुपां सुलुक्' इत्याकारः । नशेर्ण्यन्ताल्लेटि 'बहुलं संज्ञाछन्दसोः' इति णिलुक् । ईजानमिष्टवन्तं देवान् । यजेः 'लिटः कानज्वा' इति कानच् । यक्ष्यमाणं च अचिराद्यक्ष्यमाणं यष्टुं कृताध्यवसायमिति । धेनवः देवान् प्रीणयत्यः पृणन्तश्च श्राद्धेन पितॄन् प्रीणयन्तम् । पृ प्रीतौ, श्नम् च । पपुरिञ्च पितॄणां प्रीणनशीलं च न पृणन्तमेव । 'आदृगमहनः' इति किन्प्रत्पयः । न केवलमीजानं यक्ष्यमाणमेव अपि तु पृणन्तं च पपुरिं चेति । प्रासङ्गिकी वृत्तप्रशंसा, इष्टापूर्तकारिणां प्रशंसनात् । तदृते कर्मण्यस्य विनियोगो द्रष्टव्यः । श्रवस्यवः, श्रवोन्नं तदिच्छन्त्यः अन्नयुक्ता इत्यर्थः । 'क्याच्छन्दसि' इत्युप्रत्ययः । काः पुनस्ता इत्याह - घृतस्य धारा अविच्छिन्नाः प्रवाहाः यथोक्तस्वभावाः यथोक्तलक्षणान् पुरुषान् उपक्षरन्ति । अपि च उपयन्ति विश्वतः सर्वाभ्यो दिग्भ्य उपागच्छन्ति ॥
15 'यो ब्रह्मवर्चसकामस्स्यात्तस्मा एतं सोमारौद्रं चरुं निर्वपेत्' इत्यस्य पुरोनुवाक्या - सोमारुद्रा वि वृहतमिति त्रिष्टुप् ॥ हे सोमारुद्रा सोमारुद्रौ । पूर्ववदानङ्, आकारश्च । विवृहतम् । वृहू उद्यमने, तौदादिकः । विषूचीं विष्वग्गमनाम् । कामित्याह - या अमीवा रोगस्तेजोहानिरूपः नोस्माकं गयं गृहं आविवेश । किञ्च - आरे दूरे बाधेथां गमयतं, गमयित्वा नाशयतं, निरृतिं निकृष्टां गतिं निकृष्टगमनहेतुं पापम् । 'पातौ च' इति गतेः प्रकृतिस्वरत्वम्, प्रादिसमासो वा । पराचैः परावृत्तिभिर्गमनैः । यथा पुनरस्मत्पार्श्वं नागच्छति तथा बाधेथाम् । निपातोयं यथा उच्चैः नीचैः । एवादित्वादन्तोदात्तत्वम् । किञ्च - चेदर्थे चिच्छब्दः । एनः अस्माभिः कृतं चेदस्मदस्मत्तः अस्मत्सकाशात्प्रमुमुक्तं प्रकर्षेण मोचयतम् । शपश्श्लुः ॥
16 तत्रैव याज्या - सोमारुद्रा युवमिति त्रिष्टुप् ॥ हे सोमारुद्रा युवं युवां एतानि भेषजानि यानि लोके सन्ति तानि विश्वा विश्वानि अस्मे अस्माकम् । 'सुपां सुलुक्' इति शे आदेशः । तनूषु शरीरेषु धत्तं स्थापयतं, दत्तं वा । किञ्च - नः अस्माकं तनूषु बद्धं यदस्माभिः कृतं एनः पापमस्ति तत्प्रथमं तावदस्मत् अस्मत्तः मुञ्चतं विश्लेषयितम् । तिङः परत्वान्न निहन्यते । ततो मुक्त्वा तदवस्यतं अवसाययितं विनाशयितम् । न इत्यस्य 'प्रकृत्यान्तःपादम्' इति प्रकृतिभावः ॥
17 यदि बिभीयद्दुश्चर्मा भविष्यामीति सोमापौष्णं चरुं निर्वपेत्' इत्यस्य पुरोनुवाक्या - सोमापूषणेति त्रिष्टुप् ॥ हे सोमापूषणौ । पूर्ववदाकारः । रयीणां धनानां जनना जननौ जनयितारौ युवाम् । 'नामन्यतरस्यां' इति नाम उदात्तत्वम् । दिवश्च पृथिव्याश्च जनयितारौ । 'ऊडिदम्' इति दिवो विभक्तिरुदात्ता । 'उदात्तयणः' इति पृथिव्याः । जातौ जातमात्रावेव युवां विश्वस्य भुवनस्य भूतजातस्य गोपा गोपयितारौ । इर्दृशौ युवां देवा अकृण्वन् अकुर्वन् । अमृतस्य नाभिं नहनौ बन्धनौ ॥
18 तत्रैव याज्या - इमौ देवाविति त्रिष्टुप् ॥ इमौ देवौ सोमापूषणौ जायमानावेवावस्थितौ जुषन्त अजुषन्त सेवितवन्तः सर्वे देवाः । 'बहुलं छन्दस्यमाङ्योगेपि' इत्यडभावः । किञ्च - इमौ देवौ तमांसि अजुष्टा अजुष्टानि अप्रियाणि । 'शेश्छन्दसि' इति लोपः । अजुष्टा अजुष्टौ तमोभिरसेवितारौ । पूर्ववदाकारः । गूहतामनाशयताम् । छान्दसो लिङ्, 'ऊदुपधाया गोहः' । यद्वा - इमौ खलु सर्वस्य तमांसि गूहतां गूहयतः । लडर्थे लिङ् । किञ्च – आभ्यां सोमापूषभ्यां सह । अन्वादेशत्वेपि व्यत्ययेन निघाताभावः, 'ऊडिदम्' इति विभक्त्युदात्तत्वमेव प्रवर्तते । आभ्यां महेन्द्रः, आमासु तरुणीषु उस्रियासु गोषु अन्तः परिपक्वं पयो जनत् जनयति उत्पादयति । जनेर्ण्यन्तात्पूर्ववल्लङ्, पूर्ववदडभावः, 'छन्दस्युभयथा' इति शप आर्धधातुकत्वाण्णिलोपः । ताविमावेवम्महानुभावौ अस्माकं दुश्चर्मतां नाशयतां शोभनानि दत्तामित्यर्थः ॥
इति भट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये प्रथमे काण्डे अष्टमे प्रपाठके द्वाविंशोनुवाकः ॥
प्रपाठकस्समाप्तः काण्डश्च ॥
हरिः ओम् ॥
—----------------