पञ्चशत् 1 #
ऐ॒न्द्रा॒ग्नं द्वाद॑शकपालं ॅवैश्वदे॒वं च॒रुमिन्द्रा॑य॒ शुना॒सीरा॑य पुरो॒डाशं॒ द्वाद॑शकपालं ॅवाय॒व्यं॑ पयः॑ सौ॒र्यमेक॑कपालं द्वादशग॒वꣳ सीरं॒ दक्षि॑णा- ऽऽग्ने॒य-म॒ष्टाक॑पालं॒ निर्व॑पति रौ॒द्रं गा॑वीधु॒कं च॒रुमै॒न्द्रं दधि॑ वारु॒णं ॅय॑व॒मयं॑ च॒रुं ॅव॒हिनी॑ धे॒नुर् दक्षि॑णा॒ ये दे॒वाः पु॑र॒स्सदो॒ऽग्निने᳚त्रा दक्षिण॒सदो॑ य॒मने᳚त्राः पश्चा॒थ्सदः॑ सवि॒तृने᳚त्रा उत्तर॒सदो॒ वरु॑णनेत्रा उपरि॒षदो॒ बृह॒स्पति॑नेत्रा रक्षो॒हण॒स्ते नः॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॒ - [ ]
पदपाठः (Word-by-word)
ऐ॒न्द्रा॒ग्नमित्यै᳚न्द्र - अ॒ग्नम् । द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् । वै॒श्व॒दे॒वमिति॑ वैश्व-दे॒वम् । च॒रुम् । इन्द्रा॑य । शुना॒सीरा॑य । पु॒रो॒डाश᳚म् । द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् । वा॒य॒व्य᳚म् । पयः॑ । सौ॒र्यम् । एक॑कपाल॒मित्येक॑ - क॒पा॒ल॒म् । द्वा॒द॒श॒ग॒वमिति॑ द्वादश - ग॒वम् । सीर᳚म् । दक्षि॑णा । आ॒ग्ने॒यम् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । निरिति॑ । व॒प॒ति॒ । रौ॒द्रम् । गा॒वी॒धु॒कम् । च॒रुम् । ऐ॒न्द्रम् । दधि॑ । वा॒रु॒णम् । य॒व॒मय॒मिति॑ यव-मय᳚म् । च॒रुम् । व॒हिनी᳚ । धे॒नुः । दक्षि॑णा । ये । दे॒वाः । पु॒रः॒ सद॒ इति॑ पुरः - सदः॑ । अ॒ग्निने᳚त्रा॒ इत्य॒ग्नि - ने॒त्राः॒ । द॒क्षि॒ण॒सद॒ इति॑ दक्षिण - सदः॑ । य॒मने᳚त्रा॒ इति॑ य॒म - ने॒त्राः॒ । प॒श्चा॒थ्सद॒ इति॑ पश्चात् - सदः॑ । स॒वि॒तृने᳚त्रा॒ इति॑ सवि॒तृ - ने॒त्राः॒ । उ॒त्त॒र॒सद॒ इत्यु॑त्तर - सदः॑ । वरु॑णनेत्रा॒ इति॒ वरु॑ण - ने॒त्राः॒ । उ॒प॒रि॒षद॒ इत्यु॑परि - सदः॑ । बृह॒स्पति॑नेत्रा॒ इति॒ बृह॒स्पति॑ - ने॒त्राः॒ । र॒क्षो॒हण॒ इति॑ रक्षः - हनः॑ । ते । नः॒ । पा॒न्तु॒ । ते । नः॒ । अ॒व॒न्तु॒ । तेभ्यः॑ ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ शुनासीरीयं हविर्विदधाति - ऐन्द्राग्नं द्वादशकपालमिति ॥ तानि पञ्च हवींषि पञ्चसञ्चरव्यतिरिक्तानि, तेन दश हवींषीति केचित् । अन्ये तु 'एतद्ब्राह्मणान्येव पञ्च हवींषि' इत्युक्त्वा 'अथेन्द्राय शुनसीराय' इति त्रयाणामनुब्राह्मणे विधानादष्टावित्याहुः । तदानीमैन्द्राग्नवैश्वदेवयोर्विकल्पार्थमाम्नानम् । शुनो वायुः, सीर आदित्यः, ' तद्वानिन्द्र इहोच्यते, अभेदात्मत्वात् । मत्वर्थीयो वा लुप्यते । 'देवताद्वन्द्वे च' इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । वायव्यम् । 'वाय्वृतुपित्रुषसो यत्' इति यत् । एवं सर्वे एककपालानां यागाः । द्वादशगवं द्वादश गावस्समाहृताः, तद्युक्तं सीरं लाङ्गलं च दक्षिणा । 'गोरतद्धितलुकि' इति अच् । राजसूयान्तर्भाविताश्चातुर्मास्ययागास्समाप्ताः ॥
2 एवं संवत्सरमिष्ट्वा तदन्ते आगामिन्यां पौर्णमास्यामिन्द्रतुरीयेण चतुर्हविषा यजेत, तं विदधाति - आग्नेयमष्टाकपालं निर्वपतीत्यादि ॥ गावीधुको रौद्रश्चरुर्द्वितीयः । गवीधुकाः तृणतण्डुलाः । ऐन्द्रं दधि तृतीयम् । वारुणो यवमयश्चरुश्चतुर्थः । 'द्व्यचश्छन्दसि' इति मयट् । तत्र वहिनी धेनुर्दक्षिणा । गतम् । 'देवासुरास्संयत्ता आसन् । ते देवा अग्निमब्रुवन् । त्वया वीरेणासुरानभिभवामेति । सोब्रवीत् । त्रेधाहमात्मानम्' इत्यादि ब्राह्मणम् ॥
3 -7यस्मिन्नहनीन्द्रतुरीयं कर्म क्रियते तस्यां रात्र्यां पञ्चेध्मीयेन यजेत, आहवनीयधिष्ण्य एव चतुर्धाहवनीयं प्रतिदिशं व्युद्धृत्य मध्ये पञ्चमं कृत्वा पञ्चगृहीतेनाज्यने यथालिङ्गं जुहोति । आज्येनैतान्व्याघारयतीति केचित् - ये देवाः पुरस्सद इत्यादिभिः ॥ तत्र ये देवा इति पदद्वयं रक्षोहण इत्यादि च पूर्वत्र परत्र च पञ्चस्वप्यनुषज्यते । ये देवाः पुरस्सदः पूर्वस्यां दिशि सीदन्तीति । 'पूर्वापराधराणाम्' इत्यसिप्रत्ययः । अग्निनेत्राः अग्निप्रधानाः । 'छन्दसि नेतुरुपसङ्ख्यानम्' इत्यप्रत्ययः, 'ऋतश्छन्दसि' इति कबभावः । रक्षोहणः रक्षसां हन्तारः, ते नोस्मान्पान्तु, ते नोस्मानवन्तु प्रीणयन्तु, तेभ्यो नमः नमस्कुर्मः, तेभ्यस्स्वाहा स्वाहुतमस्तु । एवं ये देवाः दक्षिणसदः यमनेत्रा रक्षोहणः ते नः पान्तु ते नोवन्त्वित्यादि । तथा ये देवाः पश्चात्सदः सवितृनेत्राः रक्षोहण इत्यादि । ये देवा उत्तरसदो वरुणनेत्राः रक्षोहण इत्यादि । ये देवा उपरिषदो बृउहस्पतिनेत्राः रक्षोहण इत्यादि । वनस्पत्यादित्वात् बृहस्पतिशब्दे पूर्वोत्तरयोः पदयोर्युगपत्प्रकृतिस्वरत्वम् ॥
8 उदवेषेण सर्वानाहवनीयाङ्गारान्मध्ये एकयोपसमूहति - समूढमिति ॥ समूढमेकीकृत्य नाशितमस्तु रक्षः अनेनाङ्गारसमूहेन, तथा सन्दग्धं एकीकृत्य दग्धमस्तु । उभयत्रापि पूर्वपदप्रकृतिस्वरत्वं 'गतिरनन्तरः' इति । तस्मादहं रक्षः इदमहमाभिसन्दहामि आभिमुख्येन चैकीकृत्य चानेन दहामि । इदमिति क्रियाविशेषणम् ॥
9 -13अपरं पञ्चगृहीतं गृहीत्वा पञ्च स्रुवाहुतीरभिजुहोति - अग्नये रक्षोघ्ने स्वाहेति ॥ यमादिष्वपि चतुर्ष्वनुषज्यते । दुवस्वते इति विकल्पार्थ इति केचित् । बृहस्पतिविशेषणमित्यन्ये । दुवस्वते परिचर्यावते बृहस्पतय इति । सर्वे निगदसिद्धाः । रक्षोघ्ने रक्षसां हन्त्रे । उदात्तनिवृत्तिस्वरेण चतुर्थ्या उदात्तत्वम् । सवित्रे इति उदात्तयणः' इति विभक्तुयदात्तत्वम् । बृहस्पतिरुक्तस्वरः ॥
अत्र प्रष्टिवाही रथो दक्षिणा । प्रष्टिः त्रिपादाधारविशेषः । यो रथस्त्रिभिरश्वैर्युक्तः प्रष्टिवद्वहति स प्रष्टिवाही । 'उपमानं शब्दार्थप्रकृतावेव' इति नियमात् पूर्वपदाद्युदात्तत्वाभावे कृदुत्तरपदप्रकृतिस्वरत्वमेव प्रवर्तते । 'प्रजापतिरग्निमसृजत । तं सृष्टं रक्षांस्यजिघांसन् । स एताः प्रजापतिरात्मनो देवता निरमिमीत' इत्यादि ब्राह्मणम् ॥
यो रक्षोभ्यो बिभीयात्पिशादेभ्यो वा सोनेन यजेतेत्ययज्ञ संयुक्तं केचिदाहुः ॥
14 अथ व्युष्टायां पुनर[पुरा]ग्निहोत्रात् अपामार्गसक्तून् जुहोति - देवस्येति ॥ व्याख्यातम् । रक्षसो वधं वधहेतूनिमान् जुहोमीति ॥
15 स्रुवं प्रहरति - हतं रक्ष इति ॥
16 उत्तिष्ठति - अवधिष्म रक्ष इति ॥ हतवन्तो वयं रक्षः, तत्किमिदानीमास्म इत्युत्तिष्ठति ॥
17 अत्र राजा यद्वस्ते परिधत्ते तद्दक्षिणा अध्वर्यवे वस्त्रं देयम् ॥
इत्यष्टमे सप्तमोनुवाकः ॥