पञ्चशत् 1 #
इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒स्त्वया॒ऽयं ॅवृ॒त्रं ॅव॑द्ध्यान् मि॒त्रावरु॑णयोस्त्वा प्रशा॒स्त्रोः प्र॒शिषा॑ युनज्मि य॒ज्ञ्स्य॒ योगे॑न॒ विष्णोः॒ क्रमो॑ऽसि॒ विष्णोः᳚ क्रा॒न्तम॑सि॒ विष्णो॒र् विक्रा᳚न्तमसि म॒रुतां᳚ प्रस॒वे जे॑षमा॒प्तं मनः॒ सम॒हमि॑न्द्रि॒येण॑ वी॒र्ये॑ण पशू॒नां म॒न्युर॑सि॒ तवे॑व मे म॒न्युर् भू॑या॒न्नमो॑ मा॒त्रे पृ॑थि॒व्यै माऽहं मा॒तरं॑ पृथि॒वीꣳ हिꣳ॑सिषं॒ मा - [ ]
पदपाठः (Word-by-word)
इन्द्र॑स्य । वज्रः॑ । अ॒सि॒ । वार्त्र॑घ्न॒ इति॒ वार्त्र॑-घ्नः॒ । त्वया᳚ । अ॒यम् । वृ॒त्रम् । व॒द्ध्या॒त् । मि॒त्रावरु॑णयो॒रिति॑ मि॒त्रा - वरु॑णयोः । त्वा॒ । प्र॒शा॒स्त्रोरिति॑ प्र-शा॒स्त्रोः । प्र॒शिषेति॑ प्र -शिषा᳚ । यु॒न॒ज्मि॒ । य॒ज्ञ्स्य॑ । योगे॑न । विष्णोः᳚ । क्रमः॑ । अ॒सि॒ । विष्णोः᳚ । क्रा॒न्तम् । अ॒सि॒ । विष्णोः᳚ । विक्रा᳚न्त॒मिति॒ वि - क्रा॒न्त॒म् । अ॒सि॒ । म॒रुता᳚म् । प्र॒स॒व इति॑ प्र - स॒वे । जे॒ष॒म् । आ॒प्तम् । मनः॑ । समिति॑ । अ॒हम् । इ॒न्द्रि॒येण॑ । वी॒र्ये॑ण । प॒शू॒नाम् । म॒न्युः । अ॒सि॒ । तव॑ । इ॒व॒ । मे॒ । म॒न्युः । भू॒या॒त् । नमः॑ । मा॒त्रे । पृ॒थि॒व्यै । मा । अ॒हम् । मा॒तर᳚म् । पृ॒थि॒वीम् । हिꣳ॒॒सि॒ष॒म् । मा ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 रथमुपावहरति - इन्द्रस्येति ॥ व्याख्यातम् । यो वृत्रं हतवान् तस्येन्द्रस्य वज्रो वृत्रवधसाधनभूतो रथमसि, तस्मात्तादृशेन त्वयाऽयं यजमानो वृत्रं वध्यादिति ॥
2 प्रष्टिवाहिनं रथं युनक्ति - मित्रावरुणयोरिति ॥ मित्रावरुणयोः प्रशास्त्रोः । औणादिकस्तृच्, तृच इडभावः । प्रशिषा प्रकृष्टेन शासनेनाज्ञया त्वां युनाज्मि । 'शास इदङ्हलोः' इतीत्वं, 'शासिवसिघसीनाम्' इति षत्वम् । यज्ञस्य योगेन हेतुना यज्ञे यथा युज्येतेति ॥
3 -5रथमभिप्रैति - विष्णोरित्यादि ॥ व्याख्यातम् ॥
6 रथमातिष्ठति - मरुतामीति ॥ मरुतां प्रसवे अनुज्ञायां सत्यां मरुद्भिरेवाहं जेषं जीयासं शत्रून् । जयतेर्लेटि 'सिब्बहुलं लेटि' इत्यडागमः, इतश्च लोपः ॥
7 कूबरमभिमन्त्रयते - आप्तमिति ॥ आप्तं सुहृद्भूतं यन्मनस्तदेव त्वमसि । यद्वा - यन्मनसेप्सितं तन्मन उच्यते । मननीयं वा मनः । तत्सर्वं मया आप्तं लब्धमनेन कर्मणा । किञ्च - अहमिन्द्रियेण चक्षुरादिना वीर्येण च प्रजननसामर्थ्येनैश्वर्येण वा सङ्गतोस्मि । योग्यं क्रियापदमध्याह्रियते । 'इन्द्रियमिन्द्रलिङ्गम्' इति निपात्यते ॥
8 वाराही उपानहावुपमुञ्चते - पशूनां मन्युरसीति ॥ पशूनां मन्युर्दीप्तिरसि क्रोधजन्मा गृह्यते । प्रकृतिशब्देन विकार उच्यते 'पशूनां वा एष मन्युः । यद्वराहः' इति च ब्राह्मणम् । 'नामन्यतरस्याम्' इति नाम उदात्तत्वम् । तवेव ममापि मन्युर्भूयात् दीप्तिमान् स्याम् ॥
9 इमामभिमृशति - नम इति ॥ मात्रे सर्वस्योत्पादयित्र्यै पृथिव्यै नमः । 'उभयत्राप्युदात्तयणः' इति चतुर्थ्या उदात्तत्वम् ॥
10 तस्य दक्षिणं पादमुपावहरति - मातरं पृथिवीं अहं मा हिंसिषं अनेन पादक्रमेण । न हि कश्चिन्मातरं हिनस्ति । पृथिवी च माता मा हिंसीत् । न हि कं चिदपि माता हिनस्ति ॥
11 सव्येंसे राजतं मणिं प्रतिमुञ्चते - इयदिति ॥ इदं परिमाणमस्येयत् । 'किमिदम्भ्यां वो घः' इति मतु, 'इदङ्किमोरीश्की' 'यस्येति' लोपः, उदात्तनिवृत्तिस्वरेण इकार उदात्तः । इयत्तया परिच्छिन्नमसि ; तस्मादायुरसीति आयुरिवेयत्तया परिच्छिन्नत्वात्, आयुर्हेतुत्वाद्वा ; तस्मात्तादृशस्त्वमायुर्मे धेहि ॥
12 दक्षिणेंसे औदुम्बरं - ऊर्गसीति ॥ ऊर्गन्नं तदेव त्वमसि तद्धेतुर्वा । तादृशं त्वमूर्जं धेहि ॥
13 दक्षिण एवांसे सौवर्णं - युङ्ङसीति ॥ योजयतीति युङ्, युक्तो वा । सर्वत्र ऋत्विगादिना क्विन्, 'युजेरसमासे' इति नुम्, 'क्विन्प्रत्ययस्य' इति कुत्वम् । तस्मात्त्वं वर्चो दीप्तिरसि । दीप्त्या हि योग्यतां भजते तत्त्वं वर्चो मे धेहि स्थापय ॥
14 -17रथविमोचनीयं जुहोति - अग्नय इत्याद्याः ॥ अग्नये गृहाणां निवासाधाराणां पात्रे । सोमाय वनानां वनप्रभवानां दारूणां पात्रे । 'इन्द्रस्य वज्रोसि' इत्युक्तं, तदात्मने मरुतामोजसे वेगाय ॥
18 रथवाहने रथमादधाति - हंस इत्यतिजगत्या ॥ 'अतिच्छन्दसा दधाति' इत्यादि ब्राह्मणम् । अध्यात्ममधिदैवमधियज्ञं चाधिकृत्य त्रेधेमं मन्त्रं व्याचक्षते । तत्र प्रकरणानुरूपोर्थविशेषो गृहीतव्यः । अध्यात्मे तावत् - हंसः आत्मा । शुचिषु स्थानेषु सीदतीति शुचिषत् । वासयिता वसुः वरिष्ठो वा । अन्तरिक्षे हृदयाकाशादिषु सीदतीति अन्तरिक्षसत् । होता आह्वाता देवानामादाता वा । वेद्यां यागार्थं सीदतीति वेदिषत् । अतिथिस्सततगतिः, तिथिकृतविशेषरहितो वा । दुःखरक्षणेषु गृहादिषु सीदतीति दुरोणसत् । नृषु प्राणिशरीरेषु तद्भावेन सीदतीति नृषत् । वरेषु फलेषु भोक्तृत्वेन सीदतीति वरसत् । ऋते यज्ञे सत्ये वा सीदतीति ऋतसत् । विविधे रक्षणे तृप्तौ वा सीदतीति व्योमसत् । अद्भ्यो जातः अब्जाः शरीराभिप्रायं, शुक्क्लाज्जातत्वात् । यथा 'पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति' इति । अपां वा यागद्वारेण जनयिता । अन्तर्भावितण्यर्थात् 'जनसनखन' इति विट्, 'विड्वनोः' इत्यात्वम् । गोषु पशुषु अनुग्राहकतया जातः गोजाः । ऋते यज्ञे ऋतार्थं वा जातः प्रादुर्भूतः ऋतजाः । अद्रिजाः पर्वतादिष्वपि प्रादुर्भूतः । ऋतं सत्यरूपं बृहद्ब्रह्म । अथाधिदैवे - हंस आदित्यः । शुचिनि मण्डले सीदतीति शुचिषत् । होता अपामादाता । वेद्यामाराध्यतया सीदतीति वेदिषत् । अतिथिस्सततगतिः । दुरोणेषु गृहेषु मेषादिषु सीदतीति दुरोणसत् । वराणां दातृत्वेन तेषु सीदतीति वरसत् । अपो जनयतीत्यब्जाः । गोजाः रश्मिसमूहवर्ती । ऋते सत्ये जात ऋतजाः । अद्रिजाः उदयाचलात्प्रादुर्भूतः । समानमन्यत् । अथाधियज्ञे - हंसो रथः हन्ति पृथिवीमिति । शुचौ देवयजने रथवाहने च सीदतीति शुचिषत् । शुचिर्यजमानः सीदत्यस्मिम्निति वा शुचिषत् । होतेव वेद्यां सीदतीति वेदिषत् । अतिथिस्सर्वत्राप्रतिहतगतिः । नृषत् मनुष्यार्थं शूरार्थं वा सीदतीति नृषु वा उपकारार्थं सीदतीति नृषत् । ऋतार्थं सत्यार्थं यज्ञार्थं वा सीदतीति ऋतसत् । अब्जाः उदकाज्जातः । गोजाः गोविकारचर्मादिग्रथितत्वात् ततो जात इत्युच्यते । अद्रिभिर्दारुभिरुत्पादितत्वात्ततो जात इत्युच्यते अद्रिजाः । गतमन्यत् ॥
इत्यष्टमे पञ्चदशोनुवाकः ॥