पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ प्रथमकाण्डेऽष्टमप्रपाठके द्वितीयोऽनुवाकः)।
प्रथमानुवाके प्रायणीयादह्र उत्तरभाविन आनुमतादयोऽष्टौ यागा नैतमन्त्राश्चोक्ताः। द्वितीये चातुर्मास्येषु प्रथमपर्वररूपं हविरष्टकं विधत्ते— आग्नेयमष्टाकपालमिति। स्पष्टोऽर्थः। एतेषां वैश्वदेवादीनां चातुर्मास्यानामानुमताद्यनन्तरभावित्वं पाठप्राप्तमापस्तम्बो विशदयति — एताभिरन्वहमिष्ट्वा चातुर्मास्यान्यारभते तैःसंवत्सरं यजते इति। तेषु चातुर्मास्येषु प्रथमपर्वणो वैश्वदेवस्य देशकालौ स एवाऽऽह प्राचीनप्रवणे वैश्वदेवेन यजते इति। फाल्गुन्यां पौर्णमास्यां चैत्र्यां वा वैश्वदेवेन यजते इति (च)।
तस्मिन्वैश्वदेवकर्मणि प्रथमभावीन्याग्येयादीनि पञ्च हवींष्युपाख्यानेन प्रशंसति—
वैश्वदेवेन वै प्रजापतिः प्रजा असृजत। ताः सृष्ठा न प्राजायन्त। सोऽग्निरकामयत। अहमिमाः प्रजनयेयमिति। स प्रजापतये शुचमदधात्। सोऽशोचत्प्रजामिच्छमानः। तस्माद्यं च प्रजा भुनक्ति यंच न। तावुभौ शोचतः प्रजामिच्छमानौ। तास्मग्नीमप्यसृजत्। ता अग्निरध्यैत्(१)। सोमो रेतोऽदधात्। सविता प्राजनयत्। सरस्वती वाचमदधात्। पूषाऽपोषयत्। ते वा एते त्रिः संवत्सरस्य प्रयुज्यन्ते। ये देवाः पुष्टिपतयः। सवत्सरो वै प्रजापतिः। संवत्सरेणैवास्ये प्रजाः प्राजनयत् (ब्रा. का.१ प्र. ६ अ.२) इति।
पुरा कदाचित्प्रजापतिः प्रजाकामः संस्तत्साधनत्वेनेदं वैश्वदेवाख्यं कर्मानुष्ठाय तेनैव प्रजा अरूजत। ताश्च सृष्ठाः प्रजा न प्राजायन्त स्वकीयान्यपत्यानि न लोभिरे। तदानीं प्रजापतिसृष्टाववस्थितः सोऽग्निर्मनस्येवमकामयत। किमित्यपत्यरहिता इमाः प्रजा अहं प्रजनयेयमपत्योत्पपादिकाः करिष्यामिति। एवं कामयमानः सोऽग्निः प्रजाः सृष्टवते प्रजापतये शोकमुत्पादितवान्। प्रजापति सृष्टानां प्रजानामपत्याभावस्योत्पादनकामिना वह्निना स्मारितत्वात्प्रजापत्तौ वह्निः शोकोतपादक उच्यते। सोऽग्निः प्राजापतेः शोकमुत्पाद्य स्वस्याप्यपत्याभावेन प्रजामपत्यरूपामिच्छमानोऽशोचत्।यस्मात्पुत्रवान्प्रजापतिः पौत्रमिच्छन्नशोचत्, यस्मात्पुत्राभावादग्निरशोचत्तस्माल्लोकेऽपि यं पितरमुत्पन्ना पुत्ररूपा प्रजा भुनक्ति पालयति, यं चापत्यरहितमनुत्पन्ना प्रजा न पालयति तावुभावपि पौत्ररूपां पुत्ररूपां च प्रजामिच्छन्तौ तदलाभाच्छोचतः। प्रजापतिस्तासु प्रजासु प्रजामपत्यमुत्पादयितुमग्निपप्यसृजदभ्यनुज्ञातवान्। अनुज्ञातः सोऽग्निस्ताः प्रजा अध्यैत्प्राप्तवान्मिथुनभावेन संगतवानित्यर्थः। ततः सोम आग्नेयं रेतस्तासु प्रजासु गर्भभावेन धारितवान्। ततः सविता प्रसवकाले प्राजनयत्प्रजाः। तेष्वपत्येषु सरस्वती वाचमदधात्संभाषितुमभ्यासं कारयामास। ततः संभाषमाणान्वालान्पूषाऽभ्यवर्धयत्। ये देवा अग्निंसोमादयोऽपत्यपोषा अपत्यपालकास्त एतेऽग्न्यादयः पूषान्ताः पञ्च देवाः पुष्टिकरत्वेन संवत्सरस्य मध्ये चातुर्मास्येषु त्रिः प्रयुज्यन्ते। वैश्वदेववरुणप्रघासत्ताकमेधाख्येषु पर्वसु पञ्चानामेतेषामाग्नेयादीनां संचारित्वात्। सोऽयं प्रयोगत्रयकालः संवस्तर एव प्रजापतिस्वरूपः। अतः प्रजापतिरूपेण प्रयोगत्रययुक्तेन संवत्सरेणैवास्या अनुष्ठात्रे प्रजा उत्पादितवान्भवति। पञ्च यागान्प्रशस्य षष्ठं प्रशंसति— ताः प्रजा जाता मरुतोऽघ्नन्। अस्मानपि न प्रायुक्षतेति (२)। स एतं प्रजापतिर्मारुत सप्तकपालमपश्यत्। तं निरवपत्। ततो वै प्रजाभ्योऽकल्पत। यन्मारुतो निरुप्यते। यज्ञस्य क्लृप्त्यै। प्रजानामघाताय (ब्रा. का.१ प्र. ६ अ.२) इति।
एकोनपञ्चाशन्मरुत उत्पन्नास्ताः प्रजा हतवन्तः। कोनाभिप्रायेण, अस्मानप्येतस्मिन्वैश्वदेवकर्मण्येताः प्रजा न प्रयुक्तवत्य इति। प्रजाभ्योऽकल्पत तासां प्रजानां रक्षणाय समर्थोऽभूत्। अतोऽयं षष्ठो यागो यज्ञस्य संपूर्त्यै प्रजानामहिंसायै च संपद्यते। कपालसंख्यां प्रशंसति— सप्तकालो भवति। सप्त गणा वै मरुतः। गणश एवास्मै विशं कल्पयति (ब्रा. का.१ प्र. ६ अ.२) इति।
सप्तांना समूह एकैको गणः। तादृशाश्च गणाः सप्तसंख्याकाः। तथा सप्तसंख्ययाऽस्मै यजमानाय बहुगु(ग)णरूपां प्रजां संपादयति।
सप्तमयागे द्रव्यं प्रशंसति — स प्रजापतिरशोचत्(३)। याः पूर्वाः प्रजा असृक्षि। मारुतस्ता अवधिषः। कथमपराः सृजेयेति। तस्य शुष्म आण्डं भूतं निरवर्तत। तदव्युदहरत्। तदपोषयत्। तत्प्राजायत। आण्डस्य वा एतद्रूपम्। यदामिक्षा। यद्व्युद्धरति(४)। प्रजा एव तद्यजमानः पोषयति (ब्रा. का.१ प्र. ६ अ.२) इति।
तस्य प्रजापतेः शुष्मो बलमाण्डं भूतमाण्डवत्पिण्डाकारं प्राप्य निर्गतं पिण्डीभूतं व्युदहरद्विभज्योद्धृतवान्। उद्धृत्य च तत्पोषयित्वा प्रजारूपेणोदपादयत्। क्षीरपिण्डरूपाया आमिक्षाया अण्डरूपत्वात्तद्व्युद्धरणेन प्रजापतिवद्यजमानः प्रजाः पोषयति पोषितवान्भवति। अनेनार्थवादेनापूर्वार्थत्वाद्व्युद्धरेदिति विधिरुन्नेतव्यः। तदीयां देवतां प्रशंसति— वैश्वदेव्यामिक्षा भवति। वैश्वदेव्यो वै प्रजाः। प्रजा एवास्मै प्रजनयति (ब्रा. का.१ प्र. ६ अ.२) इति।
बहुर्भिदेवैरग्न्यादिभिरुक्तप्रकारेणोत्पादितत्वात्यजानां वैश्वदेवत्वम्।
विभज्योद्धृतयोरामिक्षाभागयोर्वाजिनसेचनं विधत्ते — वाजिनमानयति। प्रजास्वेव प्रजातासु रेतो दधाति (ब्रा. का.१ प्र. ६ अ.२) इति।
दध्यानयनेन घनीभूतामिक्षाशब्दवाच्यस्य क्षीरपिण्डस्य प्रजारूपेणाऽऽविर्भावः पूर्वार्थवादे निरुपतिः। अतस्तस्मिन्पिण्डे वाजिनाख्येन क्षीरगतनीरेण सेचने सति प्रजातासु प्रजासु रेतो धारितं भवति। अष्टमयागदेवतां प्रशंसति —
द्यावापृथिव्य एककपालो भवति। प्रजा एव प्रजाता द्यावापृथिवीभ्यामुभयतः परिगृह्णाति (ब्रा. का.१ प्र. ६ अ.२) इति।
अत्राऽऽदावुक्तानां पञ्चानां पाठे प्राप्तं क्रमं प्रशंसति— देवासुराः संयत्ता आसन्। सोऽग्निरब्रवीत्(५)। मामग्रे यजत। मया मुखेनासुराञ्जेष्यथेति। मां द्वितीयमिति सोमोऽब्रवीत्। मया राज्ञाजेष्यथैति। मां तृतीयमिति सविता। मया प्रसुता जेष्यथेति। मां चतुर्थीमिति सरस्वती। इन्द्रियं वोऽहं धास्यामीति। मां पञ्चममिति पूषा। मया प्रकिष्ठया जेष्यथेति (६)। तेऽग्निना मुखेनासुरानजयन्। सोमोन राज्ञा। सवित्रा प्रसूताः। सरस्वतीन्द्रियमदघात्। पूषा प्रतिष्ठाऽऽसीत्। ततो वै देवा व्यजयन्त। यदेतानि हवीषि निरुप्यन्ते विजित्यै (ब्रा. का.१ प्र. ६ अ.२) इति।
लोके युद्धार्थमुद्यतायां सेनायां केचन शूरा भटा मुखतो योद्धुं गच्छन्ति। तेषां युद्धं द्रष्टं कश्चिद्राजा स्वामित्वेन संनिधत्ते। केचन दण्डहस्ताः पृष्ठतः स्थित्वा योद्धनपरावृत्तये बलात्प्रेरयन्ति। अन्ये केचन दुन्दुभ्यादिजयघोषेण योद्धणामुत्साहं जनयन्ति। अपरा कियत्यपि सेना पुरोगताया युध्यन्त्याःसेनायाः पृष्ठतः सहायत्वेनावतिष्ठते। तानेतान्पञ्चविधव्यापारानग्न्यादयः क्रमेण स्वीकृतवन्तः। ततो देवानां जयोऽभूत्। ततोऽत्रपि पञ्चहविषां निर्वापे जयो भवति। शाखान्तरगतेनोपवपन्तीति वाक्येन वैश्वदेवादिषु चतुर्षु चातुर्मास्यपर्वसु ताधारण्येनोत्तरवेद्युपवापः प्राप्तस्तभुपवापं वैश्वदेवपर्वणि प्रतिवेधति — नोत्तरवेतिमुपवपति। पशवो वा उत्तरवेदिः। अजाता इव ह्येतर्हि पशवः(७) (ब्रा. का.१ प्र. ६ अ.२) इति।
उत्तरवेदिसमीपे तदाभिमुख्येन पशूनां बन्धनादुत्तरवेदेः पशुत्वम्। पुर्वोक्तरीत्या वैश्वदेवस्य प्रजापतिसृष्टिसाधनत्वात्स्त्रष्टव्यासु प्रजास्वन्तर्भूतानां पशूनां वैश्वदेवादूर्ध्वमुत्पत्तिकालो न त्विदानीमतः पशुरूपोत्तरवेदिर्नात्रोपवपनीया।
तदेवमनुब्राह्मणगतेन वैश्वदेवेन वै प्रजापतिरित्यनुवाकेन वैश्वदेवपर्वगतान्याग्नेयादीन्यष्ट हवींषि प्रशस्तानि। अथानुवाकान्तरेण वैश्वदेवपर्वगतानि विशेषाङ्गानि वीधीयन्ते। तत्र चोदकप्राप्तस्य बर्हिषस्त्रैगुण्यं विधत्ते— त्रिवृद्बर्हिर्भवति। माता पिता पुत्रः। तदेव तन्मिथुनम्। उल्वं गर्भो जरायु। तदेव तन्मिथुनम् (ब्रा. का.१ प्र. ६ अ.२) इति।
मात्रादित्रयं यदस्तिं तदेव पुत्रयुक्तत्वात्तन्मिथुनं सार्थकम्। गर्भस्यान्तर्वेष्टनमुल्बं बहिर्वेष्टनं जरायु। गर्भादित्रयं यदस्ति तदेव सारभूतेन गर्भेणोपेतस्वात्तन्मिथुनं सफलम्। उल्बजराय्वोर्द्वित्वसामान्येन मिथुनत्वम्। बर्हिषस्त्रैगुण्ये सति यथोक्तमिथुनद्वयसाम्यं संपद्यते। विधत्ते — “त्रेधा बर्हिः संनद्धं भवति। त्रय इमे लोकाः। एष्वेव लोकेषु प्रतितिष्ठति” (ब्रा. का.१ प्र. ६ अ.२) इति।
प्रकृतौ दर्भमुष्टीनां पृथग्बन्धनं न विहितां सूत्रकारेण अदित्यै रामाऽसीत्युदगग्रं वितत्यं सुसंभृता त्वा संभरामीति तस्मिन्निधनानि संभृत्य इति प्रसारिते शुल्बे मुष्टिनां संभरणमात्रस्यैवाभिधानात्। इह तु युष्टिजयस्य पृथग्वन्धनं विशेषः। विधत्ते— एकधा पुनः संनद्धं भवति। एक इव ह्ययं लोकः(१)। अस्मिन्नेव तेन लोके प्रतितिष्ठति” (ब्रा. का.१ प्र. ६ अ.२) इति।
पृथग्बद्धानां त्रयाणां मुष्टीनां पुनर्मिलित्वा बन्धनं कार्यम्। चोदकप्राप्तस्य बन्धनस्य त्रेधाबन्धनेन बाधप्राप्तौ प्रतिप्रसजरूपोऽयं विधिः।
चोदकेन सामान्यतः प्राप्तानां दर्भाणां पुष्पितत्वरूपं विशेणमत्र विधत्ते— “प्रसुवो भवन्ति। प्रथमजामेव पुष्टिमवरुन्धे” (ब्रा. का.१ प्र. ६ अ.३) इति।
प्रसूनोपेतो दर्भाः प्रसुवः। विधत्ते— “प्रथमजो वत्सो दक्षिणा समृद्ध्यै” (ब्रा. का.१ प्र. ६ अ.३) इति।अनूयाजार्थस्य द्रव्यस्य ग्रहणं विधत्ते—
“पृषदाज्यं गृह्णाति। पशवो वै पृषदाज्यम्। पशूनेवावरुन्धे” (ब्रा. का.१ प्र. ६ अ.३) इति। दधिमिश्रमाज्यं पृषदाज्यम्।
ग्रहणे संख्यां विधत्ते— “पञ्चगृहीतं भवति। पाङ्क्ता हि पशवः” (ब्रा. का.१ प्र. ६ अ.३) इति। सपुच्छपादैः पञ्चभिर्युक्ततावात्पङ्क्तिच्छन्दःसाध्यत्वाद्वा पशूनां पाङ्क्तत्वम्।
मिश्रणं प्रशंसति— “बहुरूपं भवति (२) । बहुरूपा हि पशवः समृद्ध्यै” (ब्रा. का.१ प्र. ६ अ.३) इति।
दधिबिन्दूनामाज्यबिन्दूनामनेकरुपत्वाद्बहुरूपत्वम्। गोमहिषादिरूपेण पशवो बहुरूपाः। हविरासादनादूर्ध्वे सामिधेनीभ्यः पुरा मन्थनं विधत्ते—
“अग्निं मन्थन्ति। अग्निमुखा वै प्रजापतिः प्रजा असृजत। यदग्निं मन्थन्ति। अग्निमुखा एव तत्प्रजा यजमानः सृजते” (ब्रा. का.१ प्र. ६ अ.३) इति।
हविःसादनादूर्ध्वभावित्वमापस्तम्बो दर्शयति – पञ्च होत्रा यजमानः सर्वाणी हविष्यासन्नान्यभिमृशति पशुवन्निर्मन्थ्यः सामिधेन्यश्च इति।
होतृमन्त्रब्राह्मणे श्रूयते—“तद्भूयोऽतप्यत। तस्मात्तेपानादग्निरजायत इति स प्रजननादेव प्रजा असृजत” इति च।
तत्राग्नेः प्रथमसृष्टत्वात्प्रजानामाग्निमुखत्वम्।
शाखान्तरभिहितां प्रयाजानूयाजसंख्यां हृदि कृत्वा साङ्गं कर्म प्रशंसति— “नव प्रयाजा इज्यन्ते। नवानूयाजाः। अष्टौ हवीषि। द्वावाधारौ। द्वावाज्यभागौ (३)। त्रिशत्संपद्यन्ते। त्रिशदक्षरा विराट्। अन्नं विराट्। विराजैवान्नाद्यमवरुन्धे” (ब्रा. का.१ प्र. ६ अ.३) इति।
दशाक्षरपादैस्त्रिभिर्युक्तस्य विराड्छन्दसस्त्रिंशदक्षरत्वम्।
अलंकरणकाल आज्येनैककपालमभिपूरयतीत्यापस्तम्बेन यदुक्तं तदिदं द्वेधा प्रशस्य विधत्ते— “यजमानो वा एककपपालः। तेज आज्यम्। यदेककपाल आज्यमानयति। यजमानमेव तेजसा समर्धयति। यजमानो वा एककपालः। पशव आज्यम्(४)। यदेककपाल आज्यमानयति। यजमानमेव पशुभिः समर्धयति” (ब्रा. का.१ प्र. ६ अ.३) इति।
विशेषान्तरं विधातुं प्रस्तौति — यदल्पमानयेत्। अल्पा एनं पशवोऽभुञ्जन्त उपतिष्टेरन्। यद्वाह्वानयेत्। बहव एनं पशवो भुञ्जन्त उपतिष्ठेरन्(ब्रा. का.१ प्र. ६ अ.३) इति। भुञ्जन्त क्षीरदानादिना पालयन्तोऽभुञ्जन्त इति तद्विपर्ययः। पशूनामल्पत्वमपालयितृत्वं चेत्युभौ दोषौ। बहुत्वं पालयितृत्वं चेत्युभौ गुणौ।
तत्र गुणसंपादनेन प्रशंसन्विधत्ते - “बह्वानीयाऽऽविःपृष्ठं कुर्यात्। बहव एवैनं पशवो भुञ्जन्त उपतिष्ठन्ते” (ब्रा. का.१ प्र. ६ अ.३) इति।
बह्वाज्ये पुरोडाशस्य पृष्ठामनिमज्य यथा दृश्यते तथा बह्वाज्यमानयेत्। तथा सत्याज्यस्य बहुत्वात्पशूनामल्पत्वदोषो न भविष्यति। पुरोडाशपृष्ठस्याऽऽ विर्भूतत्वादापालयितृत्वमपि न भवति।
कृत्स्नस्यापि पुरोडाशस्य होमं विधातुं प्रस्तौति — “यजमानो वा एककपालः। यदेककपालस्यावद्येत् (५)। यजमानस्यावद्येत्। उद्वा माद्येद्यजमानः। प्र वा मीयेत” (ब्रा. का.१ प्र. ६ अ.३) इति।
इतररपुरोडाशेषु भक्षणाद्यर्थमवशेष्य किंचिदेवावदीयते। तद्वदत्राप्यवदानेन यजमानस्यावयवश्छिद्येत, अथवोन्मत्तो भवेत्। यद्वा प्रमीयेत।
कृत्स्नहोमं विधत्ते — “सकृदेव होतव्यः। सकृदिव हि सुवर्गो लोकः” (ब्रा. का.१ प्र. ६ अ.३) इति।
सकृदेव कृत्स्न एव। स्वर्गलोकस्य सकृत्त्वमखण्डितत्वम्।
एककपाले पूर्वमानतिस्य बह्वाज्यस्य होमं विधत्ते — हुत्वाऽमिजुहोति। यजमानेव सुवर्गं लोकं गमयित्वा। तेजसा समर्धयति (ब्रा. का.१ प्र. ६ अ.३) इति।
आदौ पुरोडाशं हुत्वा तस्योपर्याज्यं जुहुयादित्यर्थः।
चोदकप्राप्तेनाऽऽहवनीयहोमेनेककपालं प्रशंसति — यजमानो वा एककपालः। सुवर्गो लोक आहवनीयः। यदेककपालमाहवनीये जुहोति। यजडमानेव सुवर्गं लोकं गमयति (ब्रा. का.१ प्र. ६ अ.३) इति।
कयाचिदुपपत्त्या पुरोडाशस्य चोदकप्राप्तं स्त्रुचा होममपोद्य हस्तेन होमः प्रसक्तस्तद्वा (स्तं वा)रयितुं स्त्रुचा होमस्य प्रतिप्रसवं विधत्ते— यद्धस्तेन जुहुयात्। सुवर्गालोक्काद्यजमानमवविध्येत्। स्त्रुचा जुहोति। सुवर्गस्य लोकस्य समष्ट्यै (ब्रा. का.१ प्र. ६ अ.३) इति।
अवविध्येत्प्रच्यावयेत्। पुरोडाशो येन संनिवेशेन पात्रेऽवस्थितस्तेनैव संनिवेशेनाग्रौ तस्य स्थितिः शाखान्तरे विहिता, स्त्रुचा हूयमानस्त्ववाङ्मुखो वह्रौ यतेदतस्तद्विधिविरोधं परिहर्तु हस्तेन होतव्यमित्येषा मन्दानामुपपत्तिः।
हुतस्य पुरोडाशस्य नैश्चल्यं विधातुं प्रस्तौति — यत्प्राङ्पद्येत। देवलोकमभिजयेत्। यद्दक्षिणा पितृलोकम्। यत्प्रत्यक् (७)। रक्षा सि यज्ञ हन्यः। यदुदङ्। मनुष्यलोकमभिजयेत् (ब्रा. का.१ प्र. ६ अ.३) इति।
यद्यपि लोकादिजयो न स्वरूपेण दोषस्तथाऽप्याधिकफलभावनायां सत्यां तावन्मात्रक्त्वं दोष एव। विधत्ते— प्रतिष्टितो होतव्य। एककपाल वै प्रतितिष्ठिन्तं द्यावापृथिवी अनु प्रतितिष्ठितः। द्यावापृथिवी ऋतवः। ऋतून्यज्ञः। यज्ञे यजमानः। यजमानं प्रजाः। तस्मात्प्रतिष्ठितो होतव्यः। (८)। (ब्रा. का.१ प्र. ६ अ.३) इति।
प्रागादिदिक्षु पतनपरिहारेण होमस्थान एव प्रतिष्ठितो निश्चलो यथा भवति तथा होतव्यः। ऋतव इत्यादिष्वनु प्रतितिष्ठन्तीत्यादिकं द्रष्टव्यम्। तस्मादिति पूर्वस्य विधेरुपसंहारः। तदतेदुक्तं कृत्स्नहोमादिकमापस्तम्बेन स्पष्टमुदाहृतम् — उपांशु प्रचरति सर्वहुतमपर्यावर्तयन्नृजुं प्रतिष्ठितं न हस्तेन जुहुयात् इति। सुचा होमेऽप्यपर्यावृत्तिं संप्रदायविद्र एवं संपादयन्ति शिक्ये पुरोडाशमवस्थाप्य वामहस्तेन शिक्याग्रं धृत्वा दक्षिणहस्तेन श्रुचमस्ताद्धारयित्वा तथा स्त्रुचा होमं कुर्वन्वामहस्तेन शिक्यमीषदुदधृत्य वह्रौ स्थापयेदिति।
वैश्वदेव्यामिक्षाया निःसृतं वाजिनशब्दाधिदेयं यन्नीरं तस्य वाजिसंज्ञकान्देवानुद्दिश्य यागं विधत्ते— वाजिनो यजति। अग्निर्वायुः सुर्यः। ते वै वाजिनः। तानेव तद्यजति। अथो खल्वाहुः। छन्दासि वै वाजिन इति। तान्येव तद्यजति (ब्रा. का.१ प्र. ६ अ.३) इति। तस्य यागस्य कालं विधातुं प्रस्तौति — ऋक्सामे वा इन्द्रस्य हरी सोमपानौ। तयोः परिधय आधानम्। वाजिनं भागधेयम्(९)। यदप्रहृत्य परिधीञ्जुहुयात्। अन्तराधानाम्यां घासं प्रयच्छेत् (ब्रा. का.१ प्र. ६ अ.३) इति।
हरि अश्वौ। तयोर्वशीकरणाय मुखे प्रक्षिप्तो लोहविशेष आधानम्। अन्तर्मुखमध्येऽवस्थितमाधानं ययोस्तावन्तराधानौ। हस्तेन मुखे प्रक्षित्यमाणः साज्यशर्करमुदादिपिण्डो घासस्तृणविशेषो वा। नह्याधानेऽन्तरवस्थिते सति घासो भक्षयितुं शक्यः। विधत्ते— प्रहृत्य परिधीञ्जुहोति। निरादानाम्यामेव घासं प्रयच्छति (ब्रा. का.१ प्र. ६ अ.३) इति।
परिधीनामग्रौ प्रहारेणाऽऽधानस्यापनीतत्वादघासो भक्षयितुं शक्यते। सोऽयं काल आपस्तम्बेन स्पष्टीकृतः — परिधीन्प्रहृत्य सस्त्रावान्तं कृत्वा वाजिनपात्र उपस्तीर्यान्तर्वेदि बर्हिरनुविषिञ्चन्वाजिनं गृह्णाति नाभिधारयति इति।
तत्र पात्रे ग्रहणकाले पात्रस्याभिपूरणेनाधोवस्थितस्य बर्हिषो विशेषेण सेचनं विधत्ते — बर्हिषि विषिञ्चन्वाजिनमानयति। प्रजा वै बर्हिः। रेतो वाजिनम्। प्रजास्वेव रेतो दधाति (ब्रा. का.१ प्र. ६ अ.३) इति।
सोमवत्परस्परोपहवपूर्वकं भक्षणमप्राप्तत्वादिह विधत्ते— समुपहूय भक्षयन्ति। एतत्सोमपीथा ह्येते। अथो आत्मन्नेव रेतो दधते (ब्रा. का.१ प्र. ६ अ.३) इति।
वाजिनयागस्य सांनाय्यविकृतित्वेऽपि सांनाय्यवदिडाभक्षणं न कर्तव्यं, किंतु सोमवद्भक्षयेत्। एतदेव वाजिनभक्षणं सोमपीथः। सोमपानं येषामृत्विजां त एतत्सोमपीथाः। वाजिनभक्षणे यजमानस्य चरमभक्षणं विधत्ते — यजमान उत्तमो भक्षयति। पशवो वै वाजिनम्। यजमान एव पशून्प्रतिष्ठापयन्ति (१०)। (ब्रा. का.१ प्र. ६ अ.३) इति।
एतस्मिन्वैश्वदेवकर्मणि मन्त्रे विशेषाभावान्मन्त्रकाण्डे प्रधानविषय एवाऽऽन्नता अतो नास्ति विनियोगसंग्रहः।
अत्र मीमांसा।
प्रथमाध्यायस्य चतुर्थपादे चिन्तितम् —
चातुर्मास्याद्यपर्वप्रोक्ताग्नेयाद्याष्टकान्तिमे (के)।
वैश्वदेवेतिशब्दोक्तो गुणः संघस्य नाम वा॥
नामत्वे रूपराहित्यादविधिर्गुणता ततः।
अग्न्यादिभिर्विकल्प्यन्ते विश्वे देवास्तु सप्तसु॥
अविधित्वेऽप्यर्थवत्स्यान्नाम प्राक्प्रवणादिषु॥
इज्यन्तेऽत्र यजन्ते वा विश्वे देवा इतीदृशी।
निरुक्तिर्न विकल्पः स्यादुत्पत्त्युत्पन्नशिष्टतः॥
चातुर्मास्ययागस्य चत्वारि पर्वाणि —वैश्वदेवो वरुणप्रघासः साकमेधः शुनासीर्यश्चेति। तेषु प्रथमे पर्वणी अष्टौ यागा विहिताः — आग्नेयमष्टाकपालं निर्वपति सौम्यं चरु सावित्रं द्वादशकपालं सारस्वतं चरुं पौष्णं चरुं मारुत सप्तकपालं वैश्वदेवीमाभिक्षां द्यावापृथि व्यमेककपालं इति। तेषामष्टानां संनिधाविदमाम्नायते — वैश्वदेवेन यजेत इति। तत्राऽऽग्नेयादीन्यजेतेत्यनुद्य वैश्वदेवशब्देन देवतारूपो गुणस्तेषु विधीयते। यद्यपि वैश्वदेव्यामिक्षायां विश्वे देवाः प्राप्तास्तथाऽप्याग्नेयादिषु सप्तसु यागेष्वप्राप्तत्वाद्विधीयन्ते। तेष्वप्यग्न्यादिदेवताः सन्तीति चेत्तर्हि गत्यभावात्तेषु देवता विकल्प्यन्ताम्। नामधेयत्वे तु नाममात्रस्याविधेयत्वाद्द्रव्यदेवतयोरभावेन यागस्यात्र स्वरूपासंभवाच्छ्रूयमाणो विदिरनर्थकः स्यात। तस्मादुणविधिरिति प्राप्ते ब्रूमः — उत्पत्तिवांक्यैर्विहिताग्नेयादीनष्टौ यागान्यजेतेत्यनूद्याष्टानां संघे वैश्वदेवशब्दो नामत्वेनोपवर्ण्यते। न च विधित्वाभावेऽपि नामोपदेशवैयर्थ्यें, प्राचीनप्रवणे वैश्वदेवेन यजेतेत्यादिषु वैश्वदेवशब्देनैकेनैवाष्टानां संघस्य व्यवहर्तव्यत्वात्। नामप्रवृत्तिनिमित्तभूता निरुक्तिर्द्विधा — आमिक्षायागे विश्वेषां देवानामिज्यमानतया तत्सहचरितानां सर्वेषां छत्रिन्यायेन वैश्वदेवत्म्। अथवा विश्वे देवा अष्टानां कर्तार इति वैश्वदेवत्वम्। तथा च ब्राह्मणम् – यद्विश्वे देवाः समयजन्त। तद्वैश्वदेवस्य वैश्वदेवत्वम् इति।
देवताविकल्पस्तु समानबलत्वाभावान्न युज्यते। अग्न्यादय उत्पत्तिशिष्टत्वात्प्रबला विश्वे देवा अनुत्पन्नशिष्टत्वाद्दुर्बलाः। तस्माद्वैश्वदेवशब्दः कर्मनामधेयम्।
अत्रैव गुरुमतमाह—
गुणनामत्वसंदेहादप्रमा चोदनेति चेत्।
नोक्तन्यायेन संघस्य नामधेयत्वनिर्णयात्॥
स्पष्टोऽर्थः। द्वितीयाध्यायस्य द्वितीयपादे चिन्तितम्—
गुणः कर्मान्तरं वा स्याद्वाजिभ्यो वाजिनं त्विति।
गुणो देवाननूद्योक्तः समुच्चयविकल्पतः॥
आमिक्षोत्पत्तिशिष्टत्वात्प्रबला तत्र वाजिनम्।
गुणोऽप्रविश्य कर्मान्यत्कल्पयेद्वाजिदेवकम्॥
“तप्ते पयसि दध्यानयति, सा वैश्वदेव्यामिक्षा, वाजिभ्यो वाजिनम्” इति श्रूयते। घनीभूतः पिण्ड आमिक्षा। वाजिनं जलम्। तत्राऽऽमिक्षाद्रव्यभाजो यागे विश्वे देवा उक्ताः। ते च वाजिभ्य इत्यनेनानूद्यन्ते। वाजोऽन्नमामीक्षारूपमेषामस्तीति तन्निष्पत्तेः। ताननूद्य वाजिनद्रव्यरूपो गुणो विधीयते। तच्च द्रव्यमामीक्षाद्रव्येण सह समुच्चीयतां विकल्प्यतां वेति प्राप्ते ब्रूमः — उत्पत्तिशिष्टेनाऽऽमिक्षाद्रव्येणविरुद्धे वैश्वदेवयागे वाजिनद्रव्यस्पोत्पत्तिशिष्टताया अवकाशाभावाद्वाजिनशब्दो वाजिशब्दार्थस्य देवतान्तरतामापादयदि। ततो द्रव्यदेवतालक्षणस्य रूपस्य भिन्नत्वात्कर्मान्तरम्।
चतुर्थाध्यायस्य प्रथमपादे चिन्तितम्—
आमिक्षा वाजिनं च स्याद्दध्यानीतेः प्रयोजिका।
उताऽऽमिक्षैव सामर्थ्य द्वयोस्तुल्यं ततोऽग्रिमः॥
आमिक्षा पय एवात्र तच्छब्दान्मन्त्रतो रसात्।
प्रयोजिकैका प्राधान्यादनुनिष्पादि वाजिनम्॥
इदमाम्नायते—“तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिम्यो वाजिनम्” इति।
तत्र पयसि दधीप्रक्षेपादामिक्षाद्रव्यं यथा निष्पद्यते तथा वाजिनद्रव्य मपीति दध्यानयनस्य जनकत्वासामर्थ्यमुभयद्रव्यविषयं तुल्यमेव। तस्मादुभयमपि प्रयोजकमिति प्राप्ते ब्रूमः — न द्रव्यान्तरममिक्षा, किंतु पय एवेति तच्छब्दादिभिरवगम्यते। यस्मिन्पयसि दधिप्रक्षेपः साऽऽमिक्षेति तच्छब्देन पयः परामृश्यते। आमिक्षायागे पुरोनुवाक्यायामप्येवमाम्नातम् — “जुषन्तां युज्यं पयः” इति। पयो रसश्च मधुर आमिक्षायामनुवर्तते, न तु वाजिने। ततः प्राधान्येन पयसो घनीभावं कर्तुं दध्यानीतमित्यामिक्षैव प्रयोजिका अनुनिष्पाद्येव वाजिनं न तु प्रयोजकम्।
अष्टमाध्यायस्य द्वितीयपादे चिन्तितम् —
सुरावाजिनयोः सोमस्येष्टर्वा सोमशब्दतः।
आद्यो मैवं हविःसाम्यात्सोमशब्दः प्रशस्तये॥
सौत्रामण्यां सुराग्रहाः श्रुताः—सुराग्रहान्गृह्णातीत्यादिना। चातुर्मास्येषु वाजिनयागः श्रुतः—वाजिन्यो वाजिनमिति। तत्रोभयत्र सोमस्य विध्यन्तः कार्यः। कुतः। “सोमो वै वाजिनं सुरा सोमः” इति वाजिने सुरायां च सोमशब्दप्रयोगात्। सोमशब्दश्चाग्निहोत्रशब्दवद्धर्मानतिदिशतीति चेन्मैवम्। ऐष्टि — कहविःसाम्यान्। ओषधिविकृतं सुरा, आम्नाय्यविकृतं वाजिनम्। तस्मादैष्टिको विध्यन्तः। सोमशब्दस्त्यर्थवादमतत्वान्नाग्निहोत्रादिनामवदतिदेशकः। यदि वाजिनस्य प्रतिपत्तिकर्मत्वान्नास्ति धर्मापेक्षा तर्ह्येतस्मिन्नंशे कृत्वाचिन्ताऽस्तु।
तत्रैवान्यच्चिन्तितम्—
द्वयोर्दध्नोऽथ पयस आमिक्षायां द्विजत्वतः।
द्वयोर्दध्नो घनत्वेन प्राधान्यात्पयसो भवेत्॥
“तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा” इति श्रुताया आमिक्षाया सांनाय्ययागीययोर्दधिपसोर्धर्माः कार्या आमिक्षाया उभयजन्यत्वादित्येकः पक्षः। घनत्वस्याऽऽधिक्याद्दधिधर्मा इति द्वितीयः पक्षः। पयस्यामिक्षायुत्पादयितुं सहकारित्वेन दध्यानीयते। ततः पयस एव मुख्यकारणत्वात्तद्धर्म एव न्याय्यः॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
इत्यष्टमे द्वितीयोऽनुवाकः ॥