अनुवाकः 9 TS 1.8.9

(A9)

(सावि॒त्रं द्वाद॑शकपाल॒-माश्व॑त्थे॒ त्रय॑स्त्रिꣳशच्च)

अनुवाकः 9 - Complete Audio

TS 1.8.9 - स्वरानुगामी

0:00 0:00
PS1.1 बा॒र्॒.ह॒स्प॒त्यं च॒रुं निर्व॑पति ब्र॒ह्मणो॑
PS1.2 गृ॒हे शि॑तिपृ॒ष्ठो दक्षि॑णै॒न्द्र-मेका॑दशकपालꣳ राज॒न्य॑स्य
PS1.3 गृ॒ह ऋ॑ष॒भो दक्षि॑णाऽऽदि॒त्यं च॒रुं
PS1.4 महि॑ष्यै गृ॒हे धे॒नुर् दक्षि॑णा
PS1.5 नैर्.ऋ॒तं च॒रुं प॑रिवृ॒क्त्यै॑ गृ॒हे
PS1.6 कृ॒ष्णानां᳚ ॅव्रीही॒णां न॒खनि॑र्भिन्नं कृ॒ष्णा
PS1.7 कू॒टा दक्षि॑णा ऽऽग्ने॒यम॒ष्टाक॑पालꣳ सेना॒न्यो॑
PS1.8 गृ॒हे हिर॑ण्यं॒ दक्षि॑णा वारु॒णं
PS1.9 दश॑कपालꣳ सू॒तस्य॑ गृ॒हे म॒हानि॑रष्टो॒
PS1.10 दक्षि॑णा मारु॒तꣳ स॒प्तक॑पालं ग्राम॒ण्यो॑
PS1.11 गृ॒हे पृश्ञ॒॑र् दक्षि॑णा सावि॒त्रं
PS1.12 द्वाद॑शकपालं - [ ]
PS2.1 क्ष॒त्तुर् गृ॒ह उ॑पद्ध्व॒स्तो दक्षि॑णाऽऽश्वि॒नं
PS2.2 द्वि॑कपा॒लꣳ स॑ङ्ग्रही॒तुर् गृ॒हे स॑वा॒त्यौ॑
PS2.3 दक्षि॑णा पौ॒ष्णं च॒रुं भा॑गदु॒घस्य॑
PS2.4 गृ॒हे श्या॒मो दक्षि॑णा रौ॒द्रं
PS2.5 गा॑वीधु॒कं च॒रुम॑क्षावा॒पस्य॑ गृ॒हे श॒बल॒
PS2.6 उद्वा॑रो॒ दक्षि॒णेन्द्रा॑य सु॒त्रांणे॑ पुरो॒डाश॒मेका॑दशकपालं॒
PS2.7 प्रति॒ निर्व॑प॒तीन्द्रा॑याꣳहो॒मुचे॒ ऽयं नो॒
PS2.8 राजा॑ वृत्र॒हा राजा॑ भू॒त्वा
PS2.9 वृ॒त्रं ॅव॑द्ध्यान् मैत्राबार्.हस्प॒त्यं भ॑वति
PS2.10 श्वे॒तायै᳚ श्वे॒तव॑थ्सायै दु॒ग्धे स्व॑यंमू॒र्ते
PS2.11 स्व॑यंमथि॒त आज्य॒ आश्व॑त्थे॒ -
PS2.12 [ ]
PS3.1 पात्रे॒ चतुः॑स्रक्तौ स्वयमवप॒न्नायै॒ शाखा॑यै
PS3.2 क॒र्णाꣳश्चाक॑र्णाꣳश्च तण्डु॒लान् वि चि॑नुयाद्
PS3.3 येक॒र्णाः स प॑यसि बार्.हस्प॒त्यो
PS3.4 येऽक॑र्णाः॒ स आज्ये॑ मै॒त्रः
PS3.5 स्व॑यंकृ॒ता वेदि॑र् भवति स्वयन्दि॒॒नं
PS3.6 ब॒र्॒.हिः स्व॑यंकृ॒त इ॒द्ध्मः सैव
PS3.7 श्वे॒ता श्वे॒तव॑थ्सा॒ दक्षि॑णा

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.8.9.1 TS 1.8.9.1
बा॒र्॒.ह॒स्प॒त्यं च॒रुं निर्व॑पति ब्र॒ह्मणो॑ गृ॒हे शि॑तिपृ॒ष्ठो दक्षि॑णै॒न्द्र-मेका॑दशकपालꣳ राज॒न्य॑स्य गृ॒ह ऋ॑ष॒भो दक्षि॑णाऽऽदि॒त्यं च॒रुं महि॑ष्यै गृ॒हे धे॒नुर् दक्षि॑णा नैर्.ऋ॒तं च॒रुं प॑रिवृ॒क्त्यै॑ गृ॒हे कृ॒ष्णानां᳚ ॅव्रीही॒णां न॒खनि॑र्भिन्नं कृ॒ष्णा कू॒टा दक्षि॑णा ऽऽग्ने॒यम॒ष्टाक॑पालꣳ सेना॒न्यो॑ गृ॒हे हिर॑ण्यं॒ दक्षि॑णा वारु॒णं दश॑कपालꣳ सू॒तस्य॑ गृ॒हे म॒हानि॑रष्टो॒ दक्षि॑णा मारु॒तꣳ स॒प्तक॑पालं ग्राम॒ण्यो॑ गृ॒हे पृश्ञ॒॑र् दक्षि॑णा सावि॒त्रं द्वाद॑शकपालं - [ ]
पदपाठः (Word-by-word)
बा॒र्.॒ह॒स्प॒त्यम् । च॒रुम् । निरिति॑ । व॒प॒ति॒ । ब्र॒ह्मणः॑ । गृ॒हे । शि॒ति॒पृ॒ष्ठ इति॑ शिति - पृ॒ष्ठः । दक्षि॑णा । ऐ॒न्द्रम् । एका॑दशकपाल॒मित्येका॑दश-क॒पा॒ल॒म् । रा॒ज॒न्य॑स्य । गृ॒हे । ऋ॒ष॒भः । दक्षि॑णा । आ॒दि॒त्यम् । च॒रुम् । महि॑ष्यै । गृ॒हे । धे॒नुः । दक्षि॑णा । नै॒र॒.ऋ॒तमिति॑ नैः-ऋ॒तम् । च॒रुम् । प॒रि॒वृ॒क्त्या॑ इति॑ परि-वृ॒क्त्यै᳚ । गृ॒हे । कृ॒ष्णाना᳚म् । व्री॒ही॒णाम् । न॒खनि॑र्भिन्न॒मिति॑ न॒ख-नि॒र्भि॒न्न॒म् । कृ॒ष्णा । कू॒टा । दक्षि॑णा । आ॒ग्ने॒यम् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । से॒ना॒न्य॑ इति॑ सेना - न्यः॑ । गृ॒हे । हिर॑ण्यम् । दक्षि॑णा । वा॒रु॒णम् । दश॑कपाल॒मिति॒ दश॑-क॒पा॒ल॒म् । सू॒तस्य॑ । गृ॒हे । म॒हानि॑रष्ट॒ इति॑ म॒हा-नि॒र॒ष्टः॒ । दक्षि॑णा । मा॒रु॒तम् । स॒प्तक॑पाल॒मिति॑ स॒प्त - क॒पा॒ल॒म् । ग्रा॒म॒ण्य॑ इति॑ ग्राम - न्यः॑ । गृ॒हे । पृश्निः॑ । दक्षि॑णा । सा॒वि॒त्रम् । द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ रत्निनां हवींषि द्वादश भवन्ति अन्वहं कर्तव्यानि, तानि विदधाति 'रत्निनामेतानि हवींषि भवन्ति' इत्यादि ब्राह्मणम् । अग्नीन् समारोप्य ब्रह्मणो महर्त्विजो गृहं गत्या बार्हस्पत्यं चरुं निर्वपति । पत्युत्तरपदलक्षणो ण्यः । तत्र शितिपृष्ठः श्वेतपृष्ठो गौर्दक्षिणा ॥
2 श्वो भूते राजन्यस्य गृहं गत्वा तत्रैन्द्रमेकादशकपालं निर्वपति । तत्र ऋषभो दक्षीणा ॥
3 श्वो भूते महिष्याः प्रथमाया राज्ञः पत्न्या गृहं गत्वा तत्रादित्यं चरुं निर्वपति । अङ्गुष्ठमात्रः पुरोडाशः इत्येके ॥
4 श्वो भूते परिवृक्त्या राज्ञो मध्यमपत्न्याः । परिपूर्वात् वृणक्तेः 'क्तिचि क्तौ च संज्ञायाम्' इति क्तिच्, 'उदात्तयणः' इति विभक्तेरुदात्तत्वं बाधित्वा 'उदात्तस्वरितयोर्यणः' इति व्यत्ययेन स्वरितत्वम् । कृष्णानां व्रीहीणां पत्न्या नखैर्निर्भिन्नं नखनिर्भिन्नं तण्डुलैश्चरुं कुर्यात् । 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । नखेषूलूखलधर्मान् मुसलधर्मांश्च करोति । तत्र कृष्णा कूटा भग्नशृङ्गा गौर्दक्षिणा ॥
5 श्वो भूते सेनान्यः सेनापतेः गृहं गत्वा तत्राग्नेयमष्टाकपालं निर्वपति । 'नोङ्धात्वोः' इति विभक्तेरुदात्तत्वे प्रतिषिद्धे पूर्ववत्स्वरितत्वम् । तत्र हिरण्यं दक्षिणा ॥
6 श्वो भूते सूतस्य सारथेः । ब्राह्मण्यां क्षत्रियेण जातस्येत्येके । तस्य गृहं गत्वा वारुणं दशकपालं निर्वपति । महानिरष्टः पीडितवृषणो गौर्दक्षिणा देया । अश्नोतेर्निष्ठायां 'यस्य विभाषा' इतीट्प्रतिषेधः, महांश्चासौ निरष्टश्च । वृषणपीडनेन महानभूत् । दासीभारादिर्द्रष्टव्यः, बहुव्रीहिर्वा ॥
7 श्वो भूते ग्रामण्यः ग्रामस्य यो नेता तस्य गृहे मारुतं सप्तकपालं निर्वपति । तत्र पृश्निः शुक्लो गौर्दक्षिणा । कुरटाख्यो गोविशेष इत्यन्ये ॥
8 श्वो भूते क्षत्तुर्मन्त्रिणः । अन्तःपुराध्यक्षस्येत्येके । तस्य गृहं गत्वा तत्र सावित्रं द्वादशकपालं निर्वपति । तत्र उपध्वस्तोन्येन वर्णेन परिभूतनिजवर्णो गौर्दक्षिणा । 'संज्ञायामनाचितादीनाम्' इत्युत्तरपदाद्युदात्तत्वम् ॥
9 श्वो भूते सङ्गहीतुस्सारथेः रश्मिग्राहिणो गृहं गत्वा आश्विनं द्विकपालं निर्वपति । रज्जुभिर्नियन्ता कुमाराध्यक्ष इत्यन्ये । सवात्यौ समानमातृकवत्सौ समाने वाते भवौ सवात्यौ सोदर्यौ । 'भवे छन्दसि' इति यः । वत्सान्तरेण दोह्या मृतवत्सा च तदीया च मातेत्यन्ये ॥
10 श्वो भूते भागदुघस्य यो राज्ञष्षड्भागं गृह्णाति तस्य गृहं गृत्वा पौष्णं चरुं निर्वपति । 'दुह कब्घश्च' इति कप्, 'छान्दसमन्तोदात्तत्वम् । तत्र श्यामो गौर्दकिष्णा ॥
11 श्वो भूते अक्षावापस्य, यस्सहायो द्यूतकर्मणि अक्षावापनस्य कर्ता तस्य गृहं गत्वा रौद्रं गावीधुकं चरुं निर्वपति । तत्र शबलः उद्वारः उद्गतवालो गौर्दकिष्णा । केचित् पौष्णरौद्रयोर्मध्ये तक्षरथकारयोर्गृहे वैष्णवं त्रिकपालं सर्वायसदक्षिणमाहुः ॥
12 अथ रत्निनां हविष्षु संस्थितेषु अग्नीन् परिसमारोप्य यजमानस्य गृहं गत्वा ऐन्द्रं कर्म द्विहविष्कं करोति, तद्विदधाति - इन्द्राय सुत्राम्णे पुरोडाशमेकादशकपालं प्रति निर्वपति इन्द्रायां होमुचे पुरोडाशमेकादशकपालं प्रति निर्वपति । प्रतिनिर्वाप्ये एते । केचिदृषभं दक्षिणामाहुः ॥
13 पुरस्तात्स्विष्टकृतोध्वर्युर्जपति - अयं न इति ॥ रत्निनां गृहेभ्यः प्रव्रजतोनुमन्त्रणमनेनेति केचिदाहुः । अयं नोस्माकं राजा वृत्रहा शत्रुहा भूत्वा राजा दीप्यमानश्च भूत्वा वृत्रं शत्रून् वध्यात् नाशयेदित्याशास्महे । जातावेकवचनम् । यद्वा - वृत्रहा राजा इन्द्रः यो वृत्रं हत्वा अधिकार्थं राजा स एव भूत्वा वृत्रं वध्यादिति ॥
14 अथैन्द्रकर्मणि समाप्ते श्वो भूते अभिषेचनीयोक्थ्ये प्रक्रान्ते द्विहविष्कां दीक्षणीयामिष्टिं विदधाति - मैत्राबार्हस्पत्यं भवतीति ॥ मैत्रश्च बार्हस्पत्यश्च मैत्राबार्हस्पत्यं, समाहारद्वन्द्वः । मैत्रश्च बार्हस्पत्यश्च द्वौ चरू कर्तव्यौ भवत इत्यर्थः । समासान्तोदात्तत्वं, छान्दस आनर्ङ् । तत्र बार्हस्पत्यस्य प्राथम्येपि अल्पाच्तरत्वान्मैत्रशब्दस्य पूर्वनिपातः । अधुना तयोर्बार्हस्पत्यस्य लक्षणमाह - श्वेताया इति षष्ठ्यर्थे चतुर्थी । श्वेतायाश्श्वेतवत्साया गोर्दुग्धे बार्हस्पत्यः कर्तव्यः । मैत्रस्याह - स्वयम्मूर्त इत्यादि । तामेव श्वेतवत्सां गां आस्त्ये [आम्रस्य ?] दृतौ दुहन्ति दोग्धि, तत्स्वयमेवानातक्तमेव मूर्तं कठिनं भवति । 'स्वयंक्तेन' इति स्मासः । तदेव मूर्तं बदला[रा]दिसंयोगेन परिबद्धं दृतिस्थमेव स्वयम्मथितं भवति । तन्नवनीतं दृतेरुद्धृत्य आतपे स्थापितं तत्स्वयंविलीनमाज्यं भवति । आज्य इत्यत्रापि स्वयमित्यपेक्ष्यते । ईदृश आज्ये मैत्रः कर्तव्य इत्यर्थः । अधुना मैत्रपात्रस्य लक्षणमाह - आश्वत्थ इत्यादि । स्वयमवपन्नायास्स्वयमेव भग्नायाः अश्वत्थशाखाया एकदेशेन कॢप्ते आश्वत्थे अश्वत्थविकारे पात्रे चतुस्स्रक्तौ चतुरश्रे मैत्रश्चरुः कर्तव्यः । अश्वत्थशत्ब्दात् 'अनुदात्तादेरञ्' इत्यञ्प्रत्ययः ॥
15 अधुना तयोर्विधानान्तरं विदधाति - कर्णांश्चेति ॥ कर्णाश्छिद्राश्छिन्नाः अकर्णाः निष्फलीकृताः तन्डुलाः । कर्णांश्चाकर्णांश्च विचिनुयात् 'यथाभागं व्यावर्तेथाम्' इति मन्त्रेण पृथक्कुर्यात् । ततः किमित्याह - ये इत्यादि । तत्र ये कर्णाः छिन्नाः, स पयसि पूर्वोक्ते बार्हस्पत्यश्चरुः कार्यः । ये त्वकर्णाः स आज्ये पूर्वोर्क्ते मैत्रश्चरुः कार्यः ॥
16 अत्र स्वयङ्कृता वेदिर्भवति । 'देवस्य त्वा' इति स्फ्यादानादि 'धा असि' इत्यन्तं न क्रियते । तथा स्वयन्दिनं स्वयमेव लूनं बर्हिर्भवति असिदादिना न छिनत्ति स्वयम्भग्नाम् दर्भानाहरति । दा प्लवने, इत्वनत्वे छान्दसे । तथा स्वयङ्कृत इध्मः, न वृश्चति । उभयत्र सन्नहनादिकर्म न क्रियते । अत्र यस्या दुग्धे आज्ये चरुः क्लप्तः सैव श्वेता श्वेतवत्सा दकिष्णा देया । अथ शितिपृष्ठो गौर्बार्हस्पत्यस्य दक्षिणा, मैत्रस्याश्व इत्यन्ये अनुब्राह्मण्दर्शनादिच्छन्ति पूर्वोक्तञ्च ॥

इत्यष्टमे नवमोनुवाकः ॥

पञ्चशत् 2 #
TS 1.8.9.2 TS 1.8.9.2
क्ष॒त्तुर् गृ॒ह उ॑पद्ध्व॒स्तो दक्षि॑णाऽऽश्वि॒नं द्वि॑कपा॒लꣳ स॑ङ्ग्रही॒तुर् गृ॒हे स॑वा॒त्यौ॑ दक्षि॑णा पौ॒ष्णं च॒रुं भा॑गदु॒घस्य॑ गृ॒हे श्या॒मो दक्षि॑णा रौ॒द्रं गा॑वीधु॒कं च॒रुम॑क्षावा॒पस्य॑ गृ॒हे श॒बल॒ उद्वा॑रो॒ दक्षि॒णेन्द्रा॑य सु॒त्रांणे॑ पुरो॒डाश॒मेका॑दशकपालं॒ प्रति॒ निर्व॑प॒तीन्द्रा॑याꣳहो॒मुचे॒ ऽयं नो॒ राजा॑ वृत्र॒हा राजा॑ भू॒त्वा वृ॒त्रं ॅव॑द्ध्यान् मैत्राबार्.हस्प॒त्यं भ॑वति श्वे॒तायै᳚ श्वे॒तव॑थ्सायै दु॒ग्धे स्व॑यंमू॒र्ते स्व॑यंमथि॒त आज्य॒ आश्व॑त्थे॒ - [ ]
पदपाठः (Word-by-word)
क्ष॒त्तुः । गृ॒हे । उ॒प॒द्ध्व॒स्त इत्यु॑प - ध्व॒स्तः । दक्षि॑णा । आ॒श्वि॒नम् । द्वि॒क॒पा॒लमिति॑ द्वि - क॒पा॒लम् । स॒ङ्ग्र॒ही॒तुरिति॑ सं-ग्र॒ही॒तुः । गृ॒हे । स॒वा॒त्या॑विति॑ स - वा॒त्यौ᳚ । दक्षि॑णा । पौ॒ष्णम् । च॒रुम् । भा॒ग॒दु॒घस्येति॑ भाग - दु॒घस्य॑ । गृ॒हे । श्या॒मः । दक्षि॑णा । रौ॒द्रम् । गा॒वी॒धु॒कम् । च॒रुम् । अ॒क्षा॒वा॒पस्येत्य॑क्ष - आ॒वा॒पस्य॑ । गृ॒हे । श॒बलः॑ । उद्वा॑र॒ इत्युत् - वा॒रः॒ । दक्षि॑णा । इन्द्रा॑य । सु॒त्रांण॒ इति॑ सु - त्रांणे᳚ । पु॒रो॒डाश᳚म् । एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् । प्रति॑ । निरिति॑ । व॒प॒ति॒ । इन्द्रा॑य । अꣳ॒॒हो॒मुच॒ इत्यꣳ॑हः-मुचे᳚ । अ॒यम् । नः॒ । राजा᳚ । वृ॒त्र॒हेति॑ वृत्र-हा । राजा᳚ । भू॒त्वा । वृ॒त्रम् । व॒द्ध्या॒त् । मै॒त्रा॒बा॒र्.॒ह॒स्प॒त्यमिति॑ मैत्रा-बा॒र्.॒ह॒स्प॒त्यम् । भ॒व॒ति॒ । श्वे॒तायै᳚ । श्वे॒तव॑थ्साया॒ इति॑ श्वे॒त-व॒थ्सा॒यै॒ । दु॒ग्धे । स्व॒य॒मूं॒र्त इति॑ स्वयम्-मू॒र्ते । स्व॒य॒मं॒थि॒त इति॑ स्वयं - म॒थि॒ते । आज्ये᳚ । आश्व॑त्थे ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 1.8.9.3 TS 1.8.9.3
पात्रे॒ चतुः॑स्रक्तौ स्वयमवप॒न्नायै॒ शाखा॑यै क॒र्णाꣳश्चाक॑र्णाꣳश्च तण्डु॒लान् वि चि॑नुयाद् येक॒र्णाः स प॑यसि बार्.हस्प॒त्यो येऽक॑र्णाः॒ स आज्ये॑ मै॒त्रः स्व॑यंकृ॒ता वेदि॑र् भवति स्वयन्दि॒॒नं ब॒र्॒.हिः स्व॑यंकृ॒त इ॒द्ध्मः सैव श्वे॒ता श्वे॒तव॑थ्सा॒ दक्षि॑णा ॥
पदपाठः (Word-by-word)
पात्रे᳚ । चतुः॑स्रक्ता॒विति॒ चतुः॑ - स्र॒क्तौ॒ । स्व॒य॒म॒व॒प॒न्नाया॒ इति॑ स्वयं-अ॒व॒प॒न्नायै᳚ । शाखा॑यै । क॒र्णान् । च॒ । अक॑र्णान् । च॒ । त॒ण्डु॒लान् । वीति॑ । चि॒नु॒या॒त् । ये । क॒र्णाः । सः । पय॑सि । बा॒र्.॒ह॒स्प॒त्यः । ये । अक॑र्णाः । सः । आज्ये᳚ । मै॒त्रः । स्व॒य॒कृं॒तेति॑ स्वयम् - कृ॒ता । वेदिः॑ । भ॒व॒ति॒ । स्व॒य॒दिं॒नमिति॑ स्वयं - दि॒नम् । ब॒र्॒.हिः । स्व॒य॒कृं॒त इति॑ स्वयं - कृ॒तः । इ॒द्ध्मः । सा । ए॒व । श्वे॒ता । श्वे॒तव॒थ्सेति॑ श्वे॒त - व॒थ्सा॒ । दक्षि॑णा ॥
पदसंख्या: 33