पदपाठः (Word-by-word)
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
[2अन्तराहोतुर्धिष्ण्यं ब्राह्मणाच्छंसिनश्च सादयति - अनाधृष्टा इति ॥ हे आपः अनाधृष्टाः केनाप्यतिरस्कृताः ऊर्जस्वतीः बलवत्यः महि महत् वर्चः क्षत्रियायास्मै] दधतीः दधत्यः धारयन्त्यः ददत्यो वा । एवम्भूतास्सत्यः अत्र सीदतेति ॥
सहैकस्मिन् पात्रे मादयन्त इति सधमादः । मद तृप्तियोगे, चौरादिकः, क्विपि णिलोपः, 'सधमाधस्थयोश्छन्दसि' इति सधादेशः । द्युम्निनीर्धनवतीः दीप्तिमतीर्वा । ऊर्जः ऊर्जयित्रीः । ऊर्जयतेः कर्तरि क्विप् । बलहेतुभूताः । अनिभृष्टाः अक्लिष्टाः अपस्युवः अपांसि कर्माणीच्छन्तीः । छान्दस उवङ् । एवम्भूता एता अपः वसानः आच्छादयन् एताभिरात्मानं छादयित्वा पस्त्यासु गृहभूतास्वेतासु सधस्थमेताभिस्सहस्थानं वरुणश्चक्रे करोति । अपामासां शिशुश्शिशुरिव मातृतमासु अतिशयेन जगतो निर्मात्रीषु पस्त्यासु भूतासु अन्तः मध्ये वरुणः सधस्थं करोति यथा मातॄणामुदरे शिशुस्सहवासं करोति । ता एवम्महानुभावाः अस्याभिषेकाय गृह्णामीति ॥
इत्यष्टमे द्वादशोनुवाकः ॥