अनुवाकः 12 TS 1.8.12

(A12)

(शिशु॒-रिन्द्र॒स्यै-क॑चत्वारिꣳशच्च)

अनुवाकः 12 - Complete Audio

TS 1.8.12 - स्वरानुगामी

0:00 0:00
PS1.1 देवी॑रापः॒ सं मधु॑मती॒र् मधु॑मतीभिः
PS1.2 सृज्यद्ध्वं॒ महि॒ वर्चः॑ क्ष॒त्रिया॑य
PS1.3 वन्वा॒ना अना॑धृष्टाः सीद॒तोर्ज॑स्वती॒र्महि॒ वर्चः॑
PS1.4 क्ष॒त्रिया॑य॒ दध॑ती॒रनि॑भृष्टमसि वा॒चो बन्धु॑स्तपो॒जाः
PS1.5 सोम॑स्य दा॒त्रम॑सि शु॒क्रा वः॑
PS1.6 शु॒क्रेणोत्पु॑नामि च॒न्द्राश्च॒न्द्रेणा॒मृता॑ अ॒मृते॑न॒ स्वाहा॑
PS1.7 राज॒सूया॑य॒ चिता॑नाः
PS1.8 स॒ध॒मादो᳚ द्यु॒म्निनी॒रूर्ज॑ ए॒ता अनि॑भृष्टा
PS1.9 अप॒स्युवो॒ वसा॑नः
PS1.10 प॒स्त्या॑सु चक्रे॒ वरु॑णः स॒धस्थ॑म॒पाꣳ
PS1.11 शिशु॑र् - [ ]
PS2.1 मा॒तृत॑मास्व॒न्तः
PS2.2 क्ष॒त्रस्योल्ब॑मसि क्ष॒त्रस्य॒ योनि॑र॒स्यावि॑न्नो अ॒ग्निर्
PS2.3 गृ॒हप॑ति॒रावि॑न्न॒ इन्द्रो॑ वृ॒द्धश्र॑वा॒ आवि॑न्नः
PS2.4 पू॒षा वि॒श्ववे॑दा॒ आवि॑न्नौ मि॒त्रावरु॑णा
PS2.5 वृता॒वृधा॒वावि॑न्ने॒ द्यावा॑पृथि॒वी धृ॒तव्र॑ते॒ आवि॑न्ना
PS2.6 दे॒व्यदि॑तिर् विश्वरू॒प्यावि॑न्नो॒ ऽयम॒सावा॑मुष्याय॒णो᳚ऽस्यां ॅवि॒श्य॑स्मिन्
PS2.7 रा॒ष्ट्रे म॑ह॒ते क्ष॒त्राय॑ मह॒त
PS2.8 आधि॑पत्याय मह॒ते जान॑राज्यायै॒ष वो॑
PS2.9 भरता॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णानाꣳ॒॒
PS2.10 राजेन्द्र॑स्य॒- [ ]
PS3.1 वज्रो॑ऽसि॒ वार्त्र॑घ्न॒स्त्वया॒ यं ॅवृ॒त्रं
PS3.2 ॅव॑द्ध्याच्छत्रु॒बाध॑नाः स्थ पा॒त मा᳚
PS3.3 प्र॒त्यञ्चं॑ पा॒त मा॑ ति॒र्यञ्च॑म॒न्वञ्चं॑
PS3.4 मा पात दि॒ग्भ्यो मा॑
PS3.5 पात॒ विश्वा᳚भ्यो मा ना॒ष्ट्राभ्यः॑
PS3.6 पात॒ हिर॑ण्यवर्णा-वु॒षसां᳚ ॅविरो॒केऽयः॑स्थूणा॒-वुदि॑तौ॒ सूर्य॒स्याऽऽ
PS3.7 रो॑हतं ॅवरुण मित्र॒ गर्तं॒
PS3.8 तत॑श्चक्षाथा॒मदि॑तिं॒ दितिं॑ च

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.8.12.1 TS 1.8.12.1
देवी॑रापः॒ सं मधु॑मती॒र् मधु॑मतीभिः सृज्यद्ध्वं॒ महि॒ वर्चः॑ क्ष॒त्रिया॑य वन्वा॒ना अना॑धृष्टाः सीद॒तोर्ज॑स्वती॒र्महि॒ वर्चः॑ क्ष॒त्रिया॑य॒ दध॑ती॒रनि॑भृष्टमसि वा॒चो बन्धु॑स्तपो॒जाः सोम॑स्य दा॒त्रम॑सि शु॒क्रा वः॑ शु॒क्रेणोत्पु॑नामि च॒न्द्राश्च॒न्द्रेणा॒मृता॑ अ॒मृते॑न॒ स्वाहा॑ राज॒सूया॑य॒ चिता॑नाः । स॒ध॒मादो᳚ द्यु॒म्निनी॒रूर्ज॑ ए॒ता अनि॑भृष्टा अप॒स्युवो॒ वसा॑नः ॥ प॒स्त्या॑सु चक्रे॒ वरु॑णः स॒धस्थ॑म॒पाꣳ शिशु॑र् - [ ]
पदपाठः (Word-by-word)
देवीः᳚ । आ॒पः॒ । समिति॑ । मधु॑मती॒रिति॒ मधु॑- म॒तीः॒ । मधु॑मतीभि॒रिति॒ मधु॑-म॒ती॒भिः॒ । सृ॒ज्य॒द्ध्व॒म् । महि॑ । वर्चः॑ । क्ष॒त्रिया॑य । व॒न्वा॒नाः । अना॑धृष्टा॒ इत्यना᳚-धृ॒ष्टाः॒ । सी॒द॒त॒ । ऊर्ज॑स्वतीः । महि॑ । वर्चः॑ । क्ष॒त्रिया॑य । दध॑तीः । अनि॑भृष्ट॒मित्यनि॑-भृ॒ष्ट॒म् । अ॒सि॒ । वा॒चः । बन्धुः॑ । त॒पो॒जा इति॑ तपः - जाः । सोम॑स्य । दा॒त्रम् । अ॒सि॒ । शु॒क्राः । वः॒ । शु॒क्रेण॑ । उदिति॑ । पु॒ना॒मि॒ । च॒न्द्राः । च॒न्द्रेण॑ । अ॒मृताः᳚ । अ॒मृते॑न । स्वाहा᳚ । रा॒ज॒सूया॒येति॑ राज - सूया॑य । चिता॑नाः ॥ स॒ध॒माद॒ इति॑ सध-मादः॑ । द्यु॒म्निनीः᳚ । ऊर्जः॑ । ए॒ताः । अनि॑भृष्टा॒ इत्यनि॑-भृ॒ष्टाः॒ । अ॒प॒स्युवः॑ । वसा॑नः ॥ प॒स्त्या॑सु । च॒क्रे॒ । वरु॑णः । स॒धस्थ॒मिति॑ स॒ध - स्थ॒म् । अ॒पाम् । शिशुः॑ ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 एवं गृहीत्वाथ वैतसे द्रोणकलशे ग्रहान् समवनयति - देवीराप इति ॥ हे देवीरापः मधुमतीः मधुमत्यः मधुरसवत्यः मधुमतीभिस्संसृज्यध्वं परस्परमेकीभवत । महि महत् वर्चः क्षत्रियायास्मै वन्वानाः याचमानाः । वनु याचने शानच् ॥

[2अन्तराहोतुर्धिष्ण्यं ब्राह्मणाच्छंसिनश्च सादयति - अनाधृष्टा इति ॥ हे आपः अनाधृष्टाः केनाप्यतिरस्कृताः ऊर्जस्वतीः बलवत्यः महि महत् वर्चः क्षत्रियायास्मै] दधतीः दधत्यः धारयन्त्यः ददत्यो वा । एवम्भूतास्सत्यः अत्र सीदतेति ॥

3 शतमानं हिरण्यं प्रग्रथ्नाति - अनिभृष्टमिति ॥ अनिभृष्टमसन्तप्तमसि रक्षोभिः । वाचो बन्धुः हिरण्यवतां हि वाक् सर्वानभिभवति, वाच उत्कर्षहेतुश्च । तपोजाः अग्नेर्जातत्वात् । 'जनसनखनक्रमगमो विट्' 'विड्वनोरनुनासिकस्यात्' इत्यात्वं, लिङ्गव्यत्ययः ॥
4 तद्वैतस अवदधाति - सोमस्येति ॥ सोमस्य दात्रं देयं त्वमसि दक्षिणारूपत्वात् ॥
5 हिरण्येनोत्पुनाति - शुक्रा व इति । शुक्राः निर्मलाः वः युष्मान् शुक्रेण पुनामि । चन्द्राः कान्ताः आह्लादनीर्वा चन्द्रेण तादृशेन हिरण्येन । अमृता अमरणाः अमरणहेतुभूताः तादृशेनानेन जीवनहेतुना व उत्पुनामि । स्वाहा एवं कर्तव्यमिति सैव वागाह । राजसूयाय चिताना इति व्याख्यातम् । केचित्तु - त्रिभिरुत्पवनमाहुः । तदा 'शुक्रा वश्शुक्रेणोत्पुनामि स्वाहा राजसूयाय चितानाः' इति 'अमृता अमृतेनोत्पुनामि स्वाहा राजसूयाय चितानाः' इति 'अमृता अमृतेनोत्पुनामि स्वाहा राजसुयाय चितानाः' इति प्रयोगाः ॥
6 अथ पालाशादिषु पात्रेषु गृह्णाति - सधमाद इति त्रिष्टुभा ॥

सहैकस्मिन् पात्रे मादयन्त इति सधमादः । मद तृप्तियोगे, चौरादिकः, क्विपि णिलोपः, 'सधमाधस्थयोश्छन्दसि' इति सधादेशः । द्युम्निनीर्धनवतीः दीप्तिमतीर्वा । ऊर्जः ऊर्जयित्रीः । ऊर्जयतेः कर्तरि क्विप् । बलहेतुभूताः । अनिभृष्टाः अक्लिष्टाः अपस्युवः अपांसि कर्माणीच्छन्तीः । छान्दस उवङ् । एवम्भूता एता अपः वसानः आच्छादयन् एताभिरात्मानं छादयित्वा पस्त्यासु गृहभूतास्वेतासु सधस्थमेताभिस्सहस्थानं वरुणश्चक्रे करोति । अपामासां शिशुश्शिशुरिव मातृतमासु अतिशयेन जगतो निर्मात्रीषु पस्त्यासु भूतासु अन्तः मध्ये वरुणः सधस्थं करोति यथा मातॄणामुदरे शिशुस्सहवासं करोति । ता एवम्महानुभावाः अस्याभिषेकाय गृह्णामीति ॥

7 तार्प्यं परिधापयति - क्षत्रस्योल्बमिति ॥ व्याख्यातं वाजपेये । घृताक्तं तार्प्यम् ॥
8 पाण्डुरं वासः परिधत्ते - क्षत्रस्य योनिरसीति ॥ क्षत्रस्य बलस्य राजन्यस्य वा योनिः कारणमसीति । अस्मिन् कर्मणि (यद्वा) स जातो भवतीति हि स्तुतिः ।
9 -15आविदो यजमानं वाचयन् बर्हिरुदानयति - आविन्नो अग्निरित्यादि ॥ अग्निरिदानीमनेन मुख्येन कर्मणा गृहपतिराविन्नः लब्धात्मा, परिनिष्पन्नात्मा वा । विन्दतेर्विद्यतेर्वा निष्ठा । अग्नेर्गृहपतित्वमिदानीं परिनिष्पन्नमिति । 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम्, कर्तरि निष्ठायां तु व्यत्ययेन । इन्द्रश्चेदानीं वृद्धश्रवाः प्रवृद्धकीर्तिः आविन्नः । पूषा चेदनीं विश्ववेदाः विश्वस्य वेदिता आविन्नः । 'गतिकारकयोरपि' इत्यसुन् । विश्वधनो वा । मित्रावरुणौ चेदानीमृतावृधौ ऋतस्य यज्ञस्य सत्यस्य वा वर्धयितारौ आवीन्नौ । 'अन्येषामपि दृश्यते' इति दीर्घत्वम् । 'देवताद्वन्द्वे च' इति मित्रावरुणशब्दे पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । द्यावापृथिवी द्यावापृथिव्यौ च धृतव्रते धृतकर्मणावाविन्ने । 'दिवो द्यावा' इति द्यावादेशः, पूर्ववत्प्रकृतिस्वरत्वम् । अदितिर्देवमाता पृथिवी वा । देवी दीप्तिमती । इदानीं विश्वरूपैस्सर्वैर्विकाररूपैस्तद्वती आविन्ना । गौरादित्वात् ङीष् । तथाऽयं च यजमानः असौ नरसिंहवर्मा आमुष्यायणः राजेन्द्रवर्मणोपत्यमिति युवप्रत्ययान्तं पितुर्नाम गृह्यते ; राजेन्द्रायण इति यथा । अमुष्यशब्दान्नडादित्वात्फक् । अस्यां विशि । जातावेकवचनम् । कुटुम्बभूतासु प्रजासु अस्मिन्राष्ट्रे सर्वजनपदे आविन्नः । महते क्षत्रायेति व्याख्यातम् ॥
16 यजमानायतने तिष्ठन्तं प्राह - एष व इति ॥ व्याख्यातमेव ॥
17 सोमोस्माकमिति ॥ ब्रह्मणश्च जपो व्याख्यातः ॥
18 यजमानाय धनुः प्रयच्छति - इन्द्रस्येति ॥ व्याख्यातं वाजपेये ॥
19 इषून् प्रयच्छति - शत्रुबाधनास्स्थेति ॥ शत्रवो बाध्यन्ते यैस्तादृशास्स्थेति ॥
20 प्रतिगृह्णाति - पात मेति । हे इषवः मा पात रक्षत प्रत्यञ्चं प्रत्यग्गमनं युष्माकमभिमुखमागच्छन्तं शत्रोर्वा । तथा पात मा तिर्यञ्चं तिरश्चीनगमनं पार्श्वयोश्चरन्तम् । तथा पात मान्वञ्चं अन्वग्गमनं पृष्ठतो गच्च्छन्तम् । ऋत्विगादिना क्विन् । किं बहुना ; दिग्भ्यस्सर्वाभ्यो मा पात सर्वासु दिक्षु स्थितं, सर्वदिगवस्थितशत्रुपीडाभ्यो वा । अपि च – विश्वाभ्योपि भौमान्तरिक्षद्युप्रभवाभ्योपि नाष्ट्राभ्यः नाशहेतुभ्यः पात माम् । नशेरौणादिकस्त्रप्रत्ययः, वृद्धिश्च ॥
21 बाहू उद्गृह्णाति - हिरण्यवर्णाविति त्रिष्टुभा ॥ हे हिरण्यवर्णौ हिरण्मयाभरणसन्नद्धौ हिरण्यवदुज्ज्वलवर्णौ वा । हे ईदृशौ बाहू । अयस्स्थूणौ वा । अयस्स्थूणसदृशौ अप्रधृष्यौ । 'इवे प्रतिकृतौ' इति कनो 'देवपथादिभ्यश्च' इति लुप्, 'स्फिगन्तस्योपमेयनामधेयस्य' इत्याद्युदात्तत्वम् । अतश्च बाहू एकैकेनामन्त्र्येते - हे वरुण शत्रूणां वारक हे मित्र तेषां प्रमापक अस्माकं वा हिंसायास्त्रायक ईदृशौ युवां गर्तं एतं रथपृष्ठं आकाशोदरं वा आरोहतं उषसां विरोके व्युष्टौ । पूजनार्थमेकस्मिन् बहुवचनम् । उषसो व्युष्टिकाले । एतस्या लक्षणमाह - सूर्यस्येति । उदितावुदये । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । तत आरोहणानन्तरं चक्षाथां पश्यतं अदितिमखण्डितं स्वजनं दितिं च खण्डितं शत्रुजनं च तदुचितेन चक्षुषा सानुग्रहेण सनिग्रहेण च स्वीकुरुतमित्यर्थः । यद्वा - अखण्डनं खण्डनं च स्वेषां परेषां च पश्यतमुत्पादयतम् ॥

इत्यष्टमे द्वादशोनुवाकः ॥

पञ्चशत् 2 #
TS 1.8.12.2 TS 1.8.12.2
मा॒तृत॑मास्व॒न्तः ॥ क्ष॒त्रस्योल्ब॑मसि क्ष॒त्रस्य॒ योनि॑र॒स्यावि॑न्नो अ॒ग्निर् गृ॒हप॑ति॒रावि॑न्न॒ इन्द्रो॑ वृ॒द्धश्र॑वा॒ आवि॑न्नः पू॒षा वि॒श्ववे॑दा॒ आवि॑न्नौ मि॒त्रावरु॑णा वृता॒वृधा॒वावि॑न्ने॒ द्यावा॑पृथि॒वी धृ॒तव्र॑ते॒ आवि॑न्ना दे॒व्यदि॑तिर् विश्वरू॒प्यावि॑न्नो॒ ऽयम॒सावा॑मुष्याय॒णो᳚ऽस्यां ॅवि॒श्य॑स्मिन् रा॒ष्ट्रे म॑ह॒ते क्ष॒त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्यायै॒ष वो॑ भरता॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णानाꣳ॒॒ राजेन्द्र॑स्य॒- [ ]
पदपाठः (Word-by-word)
मा॒तृत॑मा॒स्विति॑ मा॒तृ - त॒मा॒सु॒ । अ॒न्तः ॥ क्ष॒त्रस्य॑ । उल्ब᳚म् । अ॒सि॒ । क्ष॒त्रस्य॑ । योनिः॑ । अ॒सि॒ । आवि॑न्नः । अ॒ग्निः । गृ॒हप॑ति॒रिति॑ गृ॒ह-प॒तिः॒ । आवि॑न्नः । इन्द्रः॑ । वृ॒द्धश्र॑वा॒ इति॑ वृ॒द्ध-श्र॒वाः॒ । आवि॑न्नः । पू॒षा । वि॒श्ववे॑दा॒ इति॑ वि॒श्व - वे॒दाः॒ । आवि॑न्नौ । मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ । ऋ॒ता॒वृधा॒वित्यृ॑त-वृधौ᳚ । आवि॑न्ने॒ इति॑ । द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । धृ॒तव्र॑ते॒ इति॑ धृ॒त - व्र॒ते॒ । आवि॑न्ना । दे॒वी । अदि॑तिः । वि॒श्व॒रू॒पीति॑ विश्व-रू॒पी । आवि॑न्नः । अ॒यम् । अ॒सौ । आ॒मु॒ष्या॒य॒णः । अ॒स्याम् । वि॒शि । अ॒स्मिन्न् । रा॒ष्ट्रे । म॒ह॒ते । क्ष॒त्राय॑ । म॒ह॒ते । आधि॑पत्या॒येत्याधि॑-प॒त्या॒य॒ । म॒ह॒ते । जान॑राज्या॒येति॒ जान॑-रा॒ज्या॒य॒ । ए॒षः । वः॒ । भ॒र॒ताः॒ । राजा᳚ । सोमः॑ । अ॒स्माक᳚म् । ब्रा॒ह्म॒णाना᳚म् । राजा᳚ । इन्द्र॑स्य ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 1.8.12.3 TS 1.8.12.3
वज्रो॑ऽसि॒ वार्त्र॑घ्न॒स्त्वया॒ यं ॅवृ॒त्रं ॅव॑द्ध्याच्छत्रु॒बाध॑नाः स्थ पा॒त मा᳚ प्र॒त्यञ्चं॑ पा॒त मा॑ ति॒र्यञ्च॑म॒न्वञ्चं॑ मा पात दि॒ग्भ्यो मा॑ पात॒ विश्वा᳚भ्यो मा ना॒ष्ट्राभ्यः॑ पात॒ हिर॑ण्यवर्णा-वु॒षसां᳚ ॅविरो॒केऽयः॑स्थूणा॒-वुदि॑तौ॒ सूर्य॒स्याऽऽ रो॑हतं ॅवरुण मित्र॒ गर्तं॒ तत॑श्चक्षाथा॒मदि॑तिं॒ दितिं॑ च ॥
पदपाठः (Word-by-word)
वज्रः॑ । अ॒सि॒ । वार्त्र॑घ्न॒ इति॒ वार्त्र॑ - घ्नः॒ । त्वया᳚ । अ॒यम् । वृ॒त्रम् । व॒द्ध्या॒त् । श॒त्रु॒बाध॑ना॒ इति॑ शत्रु-बाध॑नाः । स्थ॒ । पा॒त । मा॒ । प्र॒त्यञ्च᳚म् । पा॒त । मा॒ । ति॒र्यञ्च᳚म् । अ॒न्वञ्च᳚म् । मा॒ । पा॒त॒ । दि॒ग्भ्य इति॑ दिक्-भ्यः । मा॒ । पा॒त॒ । विश्वा᳚भ्यः । मा॒ । ना॒ष्ट्राभ्यः॑ । पा॒त॒ । हिर॑ण्यवर्णा॒विति॒ हिर॑ण्य - व॒र्णौ॒ । उ॒षसा᳚म् । वि॒रो॒क इति॑ वि - रो॒के । अयः॑ स्थूणा॒विययः॑ - स्थू॒णौ॒ । उदि॑ता॒वियुत् - इ॒तौ॒ । सूर्य॑स्य । एति॑ । रो॒ह॒त॒म् । व॒रु॒ण॒ । मि॒त्र॒ । गर्त᳚म् । ततः॑ । च॒क्षा॒था॒म् । अदि॑तिम् । दिति᳚म् । च॒ ॥
पदसंख्या: 41