अनुवाकः 13 TS 1.8.13

(A13)

(अ॒नु॒ष्टुप्त्व॑र्-त॒पाश्च॑ - सरीसृ॒पेभ्यः॒ स्वाहा᳚)

अनुवाकः 13 - Complete Audio

TS 1.8.13 - स्वरानुगामी

0:00 0:00
PS1.1 स॒मिध॒मा ति॑ष्ठ गाय॒त्री त्वा॒
PS1.2 छन्द॑सामवतु त्रि॒वृथ्स्तोमो॑ रथन्त॒रꣳ सामा॒ग्निर्
PS1.3 दे॒वता॒ ब्रह्म॒ द्रवि॑णमु॒ग्रामा ति॑ष्ठ
PS1.4 त्रि॒ष्टुप् त्वा॒ छन्द॑सामवतु पञ्चद॒शः
PS1.5 स्तोमो॑ बृ॒हथ् सामेन्द्रो॑ दे॒वता᳚
PS1.6 क्ष॒त्रं द्रवि॑णं ॅवि॒राज॒मा ति॑ष्ठ॒
PS1.7 जग॑ती त्वा॒ छन्द॑सामवतु सप्तद॒शः
PS1.8 स्तोमो॑ वैरू॒पꣳ साम॑ म॒रुतो॑
PS1.9 दे॒वता॒ विड् द्रवि॑ण॒-मुदी॑ची॒मा-ति॑ष्ठानु॒ष्टुप् त्वा॒
PS1.10 - [ ]
PS2.1 छन्द॑सा-मवत्वेकविꣳ॒॒शः स्तोमो॑ वैरा॒जꣳ साम॑
PS2.2 मि॒त्रावरु॑णौ दे॒वता॒ बलं॒ द्रवि॑ण-मू॒र्द्ध्वामा
PS2.3 ति॑ष्ठ प॒ङ्क्तिस्त्वा॒ छन्द॑सामवतु त्रिणवत्रयस्त्रिꣳ॒॒शौ
PS2.4 स्तोमौ॑ शाक्वररैव॒ते साम॑नी॒ बृह॒स्पति॑र्
PS2.5 दे॒वता॒ वर्चो॒ द्रवि॑ण-मी॒दृङ् चा᳚न्या॒दृङ्
PS2.6 चै॑ता॒दृङ् च॑ प्रति॒दृङ् च॑
PS2.7 मि॒तश्च॒ संमि॑तश्च॒ सभ॑राः
PS2.8 शु॒क्रज्यो॑तिश्च चि॒त्रज्यो॑तिश्च स॒त्यज्यो॑तिश्च॒ ज्योति॑ष्माꣳश्च
PS2.9 स॒त्यश्च॑र्त॒पाश्चा - [ ]
PS3.1 ऽत्यꣳ॑हाः
PS3.2 अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॑
PS3.3 सवि॒त्रे स्वाहा॒ सर॑स्वत्यै॒ स्वाहा॑
PS3.4 पू॒ष्णे स्वाहा॒ बृह॒स्पत॑ये॒ स्वाहेन्द्रा॑य॒
PS3.5 स्वाहा॒ घोषा॑य॒ स्वाहा॒ श्लोका॑य॒
PS3.6 स्वाहा ऽꣳशा॑य॒ स्वाहा॒ भगा॑य॒
PS3.7 स्वाहा॒ क्षेत्र॑स्य॒ पत॑ये॒ स्वाहा॑
PS3.8 पृथि॒व्यै स्वाहा॒ ऽन्तरि॑क्षाय॒ स्वाहा॑
PS3.9 दि॒वे स्वाहा॒ सूर्या॑य॒ स्वाहा॑
PS3.10 च॒न्द्रम॑से॒ स्वाहा॒ नक्ष॑त्रेभ्यः॒ स्वाहा॒
PS3.11 ऽद्भ्यः स्वाहौष॑धीभ्यः॒ स्वाहा॒ वन॒स्पति॑भ्यः॒
PS3.12 स्वाहा॑ चराच॒रेभ्यः॒ स्वाहा॑ परिप्ल॒वेभ्यः॒
PS3.13 स्वाहा॑ सरीसृ॒पेभ्यः॒ स्वाहा᳚

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.8.13.1 TS 1.8.13.1
स॒मिध॒मा ति॑ष्ठ गाय॒त्री त्वा॒ छन्द॑सामवतु त्रि॒वृथ्स्तोमो॑ रथन्त॒रꣳ सामा॒ग्निर् दे॒वता॒ ब्रह्म॒ द्रवि॑णमु॒ग्रामा ति॑ष्ठ त्रि॒ष्टुप् त्वा॒ छन्द॑सामवतु पञ्चद॒शः स्तोमो॑ बृ॒हथ् सामेन्द्रो॑ दे॒वता᳚ क्ष॒त्रं द्रवि॑णं ॅवि॒राज॒मा ति॑ष्ठ॒ जग॑ती त्वा॒ छन्द॑सामवतु सप्तद॒शः स्तोमो॑ वैरू॒पꣳ साम॑ म॒रुतो॑ दे॒वता॒ विड् द्रवि॑ण॒-मुदी॑ची॒मा-ति॑ष्ठानु॒ष्टुप् त्वा॒ - [ ]
पदपाठः (Word-by-word)
स॒मिध॒मिति॑ सं-इध᳚म् । एति॑ । ति॒ष्ठ॒ । गा॒य॒त्री । त्वा॒ । छन्द॑साम् । अ॒व॒तु॒ । त्रि॒वृदिति॑ त्रि-वृत् । स्तोमः॑ । र॒थ॒न्त॒रमिति॑ रथं-त॒रम् । साम॑ । अ॒ग्निः । दे॒वता᳚ । ब्रह्म॑ । द्रवि॑णम् । उ॒ग्राम् । एति॑ । ति॒ष्ठ॒ । त्रि॒ष्टुप् । त्वा॒ । छन्द॑साम् । अ॒व॒तु॒ । प॒ञ्च॒द॒श इति॑ पञ्च-द॒शः । स्तोमः॑ । बृ॒हत् । साम॑ । इन्द्रः॑ । दे॒वता᳚ । क्ष॒त्रम् । द्रवि॑णम् । वि॒राज॒मिति॑ वि-राज᳚म् । एति॑ । ति॒ष्ठ॒ । जग॑ती । त्वा॒ । छन्द॑साम् । अ॒व॒तु॒ । स॒प्त॒द॒श इति॑ सप्त-द॒शः । स्तोमः॑ । वै॒रू॒पम् । साम॑ । म॒रुतः॑ । दे॒वता᳚ । विट् । द्रवि॑णम् । उदी॑चीम् । एति॑ । ति॒ष्ठ॒ । अ॒नु॒ष्टुबित्य॑नु - स्तुप् । त्वा॒ ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ यजमानमध्वर्युर्दिशो व्यास्थापयति, मध्ये पश्चिमेन समिधमातिष्ठति पञ्चभिः । तत्र प्राचीं - समिधमिति ॥ समिद्ध्यतेस्यामादित्य इति समित् प्राचीदिक् उपर्युपरि समिद्धा भवतीति । तामातिष्ठाधितिष्ठ स्वीकुरु । गायत्री चतुर्विंशत्यक्षरा छन्दसाम्मध्ये प्राच्यां दिशि स्थिता त्वामवतु । त्रिवृदाख्यस्स्तोमश्च त्वामवत्वित्येव । स्तोमानाम्मध्य इति गम्यते । त्रयोवयवस्तिस्रो वृत्तयो यस्य स त्रिवृत् नवस्तोत्रीयः । 'त्रिचक्रादीनां छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । रथन्तरं च साम त्वामवतु साम्नाम्मध्ये । 'संज्ञायां भृतॄवृजि' इत्यादिना खच् । अग्निर्देवता त्वामवतु देवतानां मध्ये । ब्रह्म ब्राह्मणः द्रविणं प्रशस्तं धनं त्वामवतु द्रविणानां मध्ये ॥
2 दक्षिणां उग्रामिति ॥ उग्रां पितृसम्बन्धाद्दक्षिणामातिष्ठ । त्रिष्टुप् चतुश्चत्वारिंशदक्षरा । पञ्चदशस्स्तोमः पञ्चदशस्स्तोत्रीयः परिमाणमस्य 'स्तोमे डविधिः पञ्चदशाद्यर्थे' इति डः । बृहत्साम इन्द्रश्च क्षत्रं क्षत्रियाः । गतमन्यत् ।
3 प्रतीचीं - विराजमिति ॥ जगती विराट् उपर्युपरि शान्ता भवतीति । अष्टाचत्वारिंशदक्षरा जगती । सप्तदशस्स्तोमः सप्तदशस्तोत्रीयः । वैरूपाख्यं साम । मरुतो देवता । विट् वैश्याः ॥
4 उत्तरां - उदीचीमिति ॥ उत्क्रम्याञ्चति भूगोलमित्युदीची ; यत्र गच्छन्नादित्यो न दृश्यते । 'अनिगन्तोञ्चतौ' इति प्रकृतिस्वरत्वम् । अनुष्टुब्द्वात्रिंशदक्षरा । एकविंशः एकविंशतिस्तोत्रीयः । वैराजाख्यं साम । मित्रावरुणौ देवता । समुदायस्य देवतात्वादेकवचनं, देवतात्वमात्रस्य विवक्षितत्वात् ; श्रुतयः प्रमाणमिति यथा । 'देवताद्वन्द्वे च' इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ॥
5 मध्ये - ऊर्ध्वामिति ॥ पङ्क्तिः पञ्चपदा चत्वारिंशदक्षरा । त्रिणवत्रयस्त्रिंशौ स्तोमौ त्रिणवस्सप्तविशस्तोत्रीयः त्रयस्त्रिंशस्त्रयस्त्रिंशस्तोत्रीयः । शाक्वरं रैवतं च सामद्वयम् । बृहस्पतिर्देवता । वनस्पत्यादित्वाद्द्वयोर्युगपत्प्रकृतिस्वरत्वम् । वर्चो दीप्तिः । निगदसिद्धमन्यत् ॥
6 -19अत्र मारुत एकविंशतिकपालोस्ति, तत्र मध्यमानि सप्तकपालानि 'धुनिश्च ध्वान्तश्च' इत्यारण्येनानुवाक्येनोपधीयन्ते । अन्यानि चतुर्दश, एताभ्यां गणाभ्यामुपदधाति - ईदृड्चेत्यादिना ॥ शुक्रज्योतिश्चेत्यादिना च ॥ एते चतुर्दश मरुद्विशेषाः । तादर्थ्यात्कपालेषु ताच्छब्द्यम् । इदमिव पश्यतीदृङ् । 'त्यदादिषु दृशः' इति क्विन्, 'इदङ्किभोरीश्की' इतीशादेशः, 'दृक्स्ववस्स्ववतसां छन्दसि ' ईति नुम्, 'क्विन्प्रत्ययस्य कुः' इति कुत्वम् । अन्य इव पश्यति अन्यादृङ् । 'आ सर्वनाम्नः' इत्यात्वम् । एष इव पश्यति एतादृङ् । परत्र सन्निहितमेतच्छब्द आह, आत्मनि सन्निहितमिदंशब्दः । प्रतिकूलं पश्यतीति प्रतिदृङ् । छान्दसः क्विन् । मितः निभृतः । सम्मितः संहतरूपः । 'गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् । सह बिभतीर्ति सभराः । छान्दसोसुन् । भरसा सह वर्तत इति वा सभराः, भरो वेगः । शुक्रज्योतिः येन ज्योतींषि शुक्राणि क्रियन्ते । चित्राणि पूजनीयानि ज्योतींषि येन क्रियन्ते स चित्रज्योतिः । सत्सु साधूनि सत्यानि ज्योतींषि येन स सत्यज्योतिः । ज्योतिष्मान् ब्रह्मज्योतिः । सत्यस्सति साधुः । छान्दसमन्तोदात्तत्वम् । ऋतस्य यज्ञस्य पाता रक्षकः ऋतपाः । अत्यंहाः अंहोतिक्रान्तवान् । अत्यर्थं वा गच्छतीत्यत्यंहाः । 'गतिकारकयोरपि' इत्यंहेरसुन् ॥
20 -25षट्पार्थिवानि वारुणानि पुरस्तादभिषेकस्य जुहोति - अग्नये स्वाहेत्यादीनि बृहस्पत्यन्तानि ॥
26 -31षडुपरिष्टात् - इन्द्राय स्वाहेत्यादीनि क्षेत्रस्य पतये स्वाहे त्यन्तानि । सर्वाणि निगदसिद्धानि ॥
32 -37षट्पुरस्ताद्भूतानामवेष्टीर्जुहोति - पृथिव्यै स्वाहेत्याद्यानि नक्षत्रेभ्यस्स्वाहेत्यन्तानि ॥ पृथिव्यादिभ्यः मृत्युरवेष्टो भवति विनाशितो भवति ॥
38 -43षडुपरिष्टादद्भ्यस्स्वाहेत्याद्याः सरीसृपेभ्यस्स्वाहेत्यन्ताः । सर्वा निगदसिद्धाः । चरणशिलाश्चराचराः । चरेर्यङ्लुगन्तात्पचाद्यचि अभ्यासस्याडागमः । परितः प्लवनशीलाः परिप्लवाः । स एवाच् । सर्पणशीलास्सरीसृपाः । सृपेर्यङ्लुगन्तात्पचाद्यचि अभ्यासस्य रीगागमः, 'न धातुलोप आर्धधातुके' इति गुणाभावः ॥

इत्यष्टमे त्रयोदशोनुवाकः ॥

पञ्चशत् 2 #
TS 1.8.13.2 TS 1.8.13.2
छन्द॑सा-मवत्वेकविꣳ॒॒शः स्तोमो॑ वैरा॒जꣳ साम॑ मि॒त्रावरु॑णौ दे॒वता॒ बलं॒ द्रवि॑ण-मू॒र्द्ध्वामा ति॑ष्ठ प॒ङ्क्तिस्त्वा॒ छन्द॑सामवतु त्रिणवत्रयस्त्रिꣳ॒॒शौ स्तोमौ॑ शाक्वररैव॒ते साम॑नी॒ बृह॒स्पति॑र् दे॒वता॒ वर्चो॒ द्रवि॑ण-मी॒दृङ् चा᳚न्या॒दृङ् चै॑ता॒दृङ् च॑ प्रति॒दृङ् च॑ मि॒तश्च॒ संमि॑तश्च॒ सभ॑राः । शु॒क्रज्यो॑तिश्च चि॒त्रज्यो॑तिश्च स॒त्यज्यो॑तिश्च॒ ज्योति॑ष्माꣳश्च स॒त्यश्च॑र्त॒पाश्चा - [ ]
पदपाठः (Word-by-word)
छन्द॑साम् । अ॒व॒तु॒ । ए॒क॒विꣳ॒॒श इत्ये॑क-विꣳ॒॒शः । स्तोमः॑ । वै॒रा॒जम् । साम॑ । मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ । दे॒वता᳚ । बल᳚म् । द्रवि॑णम् । ऊ॒द्‌र्ध्वाम् । एति॑ । ति॒ष्ठ॒ । प॒ङ्क्तिः । त्वा॒ । छन्द॑साम् । अ॒व॒तु॒ । त्रि॒ण॒व॒त्र॒य॒स्त्रिꣳ॒॒शाविति॑ त्रिणव - त्र॒य॒स्त्रिꣳ॒॒शौ । स्तोमौ᳚ । शा॒क्व॒र॒रै॒व॒ते इति॑ शाक्वर-रै॒व॒ते । साम॑नी॒ इति॑ । बृह॒स्पतिः॑ । दे॒वता᳚ । वर्चः॑ । द्रवि॑णम् । ई॒दृङ् । च॒ । अ॒न्या॒दृङ् । च॒ । ए॒ता॒दृङ् । च॒ । प्र॒ति॒दृङिति॑ प्रति - दृङ् । च॒ । मि॒तः । च॒ । संमि॑त॒ इति॒ सं - मि॒तः॒ । च॒ । सभ॑रा॒ इति॒ स - भ॒राः॒ ॥ शु॒क्रज्यो॑ति॒रिति॑ शु॒क्र - ज्यो॒तिः॒ । च॒ । चि॒त्रज्यो॑ति॒रिति॑ चि॒त्र - ज्यो॒तिः॒ । च॒ । स॒त्यज्यो॑ति॒रिति॑ स॒त्य - ज्यो॒तिः॒ । च॒ । ज्योति॑ष्मान् । च॒ । स॒त्यः । च॒ । ऋ॒त॒पा इत्यृ॑त - पाः । च॒ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 1.8.13.3 TS 1.8.13.3
ऽत्यꣳ॑हाः । अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॑ सवि॒त्रे स्वाहा॒ सर॑स्वत्यै॒ स्वाहा॑ पू॒ष्णे स्वाहा॒ बृह॒स्पत॑ये॒ स्वाहेन्द्रा॑य॒ स्वाहा॒ घोषा॑य॒ स्वाहा॒ श्लोका॑य॒ स्वाहा ऽꣳशा॑य॒ स्वाहा॒ भगा॑य॒ स्वाहा॒ क्षेत्र॑स्य॒ पत॑ये॒ स्वाहा॑ पृथि॒व्यै स्वाहा॒ ऽन्तरि॑क्षाय॒ स्वाहा॑ दि॒वे स्वाहा॒ सूर्या॑य॒ स्वाहा॑ च॒न्द्रम॑से॒ स्वाहा॒ नक्ष॑त्रेभ्यः॒ स्वाहा॒ ऽद्भ्यः स्वाहौष॑धीभ्यः॒ स्वाहा॒ वन॒स्पति॑भ्यः॒ स्वाहा॑ चराच॒रेभ्यः॒ स्वाहा॑ परिप्ल॒वेभ्यः॒ स्वाहा॑ सरीसृ॒पेभ्यः॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
अत्यꣳ॑हा॒ इत्यति॑-अꣳ॒॒हाः॒ ॥ अ॒ग्नये᳚ । स्वाहा᳚ । सोमा॑य । स्वाहा᳚ । स॒वि॒त्रे । स्वाहा᳚ । सर॑स्वत्यै । स्वाहा᳚ । पू॒ष्णे । स्वाहा᳚ । बृह॒स्पत॑ये । स्वाहा᳚ । इन्द्रा॑य । स्वाहा᳚ । घोषा॑य । स्वाहा᳚ । श्लोका॑य । स्वाहा᳚ । अꣳशा॑य । स्वाहा᳚ । भगा॑य । स्वाहा᳚ । क्षेत्र॑स्य । पत॑ये । स्वाहा᳚ । पृ॒थि॒व्यै । स्वाहा᳚ । अ॒न्तरि॑क्षाय । स्वाहा᳚ । दि॒वे । स्वाहा᳚ । सूर्या॑य । स्वाहा᳚ । च॒न्द्रम॑से । स्वाहा᳚ । नक्ष॑त्रेभ्यः । स्वाहा᳚ । अ॒द्भ्य इत्य॑त्-भ्यः । स्वाहा᳚ । ओष॑धीभ्य॒ इत्योष॑धि-भ्यः॒ । स्वाहा᳚ । वन॒स्पति॑भ्य॒ इति॒ वन॒स्पति॑-भ्यः॒ । स्वाहा᳚ । च॒रा॒च॒रेभ्यः॑ । स्वाहा᳚ । प॒रि॒प्ल॒वेभ्य॒ इति॑ परि - प्ल॒वेभ्यः॑ । स्वाहा᳚ । स॒री॒सृ॒पेभ्यः॑ । स्वाहा᳚ ( ) ॥
पदसंख्या: 50