अनुवाकः 19 TS 1.8.19

(A19)

(अ॒ग्ने॒यꣳ हिर॑ण्यमै॒द्रमृ॑ष॒भो वै᳚श्वदे॒वं पि॒शङ्गी॑ बार्.हस्प॒त्यꣳ-स॒प्तच॑त्वारिꣳशत्)

अनुवाकः 19 - Complete Audio

TS 1.8.19 - स्वरानुगामी

0:00 0:00
PS1.1 आ॒ग्ने॒य-म॒ष्टाक॑पालं॒ निर्व॑पति॒ हिर॑ण्यं॒ दक्षि॑णै॒न्द्र-मेका॑दशकपाल-मृष॒भो
PS1.2 दक्षि॑णा वैश्वदे॒वं च॒रुं पि॒शङ्गी॑
PS1.3 पष्ठौ॒ही दक्षि॑णा मैत्रावरु॒णी-मा॒मिक्षां᳚ ॅव॒शा
PS1.4 दक्षि॑णा बार्.हस्प॒त्यं च॒रुꣳ शि॑तिपृ॒ष्ठो
PS1.5 दक्षि॑णाऽऽदि॒त्यां म॒ल्॒.हां ग॒र्भिणी॒मा ल॑भते
PS1.6 मारु॒तीं पृश्ञ॑ं॑ पष्ठौ॒ही-म॒श्विभ्यां᳚ पू॒ष्णे
PS1.7 पु॑रो॒डाशं॒ द्वाद॑शकपालं॒ निर्व॑पति॒ सर॑स्वते
PS1.8 सत्य॒वाचे॑ च॒रुꣳ स॑वि॒त्रे स॒त्यप्र॑सवाय
PS1.9 पुरो॒डाशं॒ द्वाद॑शकपालं तिसृध॒न्वꣳ शु॑ष्कदृ॒तिर्
PS1.10 दक्षि॑णा

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.8.19.1 TS 1.8.19.1
आ॒ग्ने॒य-म॒ष्टाक॑पालं॒ निर्व॑पति॒ हिर॑ण्यं॒ दक्षि॑णै॒न्द्र-मेका॑दशकपाल-मृष॒भो दक्षि॑णा वैश्वदे॒वं च॒रुं पि॒शङ्गी॑ पष्ठौ॒ही दक्षि॑णा मैत्रावरु॒णी-मा॒मिक्षां᳚ ॅव॒शा दक्षि॑णा बार्.हस्प॒त्यं च॒रुꣳ शि॑तिपृ॒ष्ठो दक्षि॑णाऽऽदि॒त्यां म॒ल्॒.हां ग॒र्भिणी॒मा ल॑भते मारु॒तीं पृश्ञ॑ं॑ पष्ठौ॒ही-म॒श्विभ्यां᳚ पू॒ष्णे पु॑रो॒डाशं॒ द्वाद॑शकपालं॒ निर्व॑पति॒ सर॑स्वते सत्य॒वाचे॑ च॒रुꣳ स॑वि॒त्रे स॒त्यप्र॑सवाय पुरो॒डाशं॒ द्वाद॑शकपालं तिसृध॒न्वꣳ शु॑ष्कदृ॒तिर् दक्षि॑णा ॥
पदपाठः (Word-by-word)
आ॒ग्ने॒यम् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा-क॒पा॒ल॒म् । निरिति॑ । व॒प॒ति॒ । हिर॑ण्यम् । दक्षि॑णा । ऐ॒न्द्रम् । एका॑दशकपाल॒मित्येका॑दश-क॒पा॒ल॒म् । ऋ॒ष॒भः । दक्षि॑णा । वै॒श्व॒दे॒वमिति॑ वैश्व-दे॒वम् । च॒रुम् । पि॒शङ्गी᳚ । प॒ष्टौ॒ही । दक्षि॑णा । मै॒त्रा॒व॒रु॒णीमिति॑ मैत्रा-व॒रु॒णीम् । आ॒मिक्षा᳚म् । व॒शा । दक्षि॑णा । बा॒र्.॒ह॒स्प॒त्यम् । च॒रुम् । शि॒ति॒पृ॒ष्ठ इति॑ शिति-पृ॒ष्ठः । दक्षि॑णा । आ॒दि॒त्याम् । म॒ल्॒.हाम् । ग॒र्भिणी᳚म् । एति॑ । ल॒भ॒ते॒ । मा॒रु॒तीम् । पृश्नि᳚म् । प॒ष्ठौ॒हीम् । अ॒श्विभ्या॒मित्य॒श्वि-भ्या॒म् । पू॒ष्णे । पु॒रो॒डाश᳚म् । द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् । निरिति॑ । व॒प॒ति॒ । सर॑स्वते । स॒त्य॒वाच॒ इति॑ सत्य - वाचे᳚ । च॒रुम् । स॒वि॒त्रे । स॒त्यप्र॑सवा॒येति॑ स॒त्य - प्र॒स॒वा॒य॒ । पु॒रो॒डाश᳚म् । द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् । ति॒सृ॒ध॒न्वमिति॑ तिसृ - ध॒न्वम् । शु॒ष्क॒दृ॒तिरिति॑ शुष्क - दृ॒तिः । दक्षि॑णा ॥
पदसंख्या: 47
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ पञ्चहविषामवेष्ट्योदवस्यति, तां विदधाति - आग्नेयमित्यादि ॥ 'ईश्वरो वा एष दिशोनून्मदितोः' इत्यादि ब्राह्मणम् । आग्नेयैन्द्रवैश्वदेवमैत्रावरुणबार्हस्पत्यानि पञ्च हवींषि निर्वपति । हिरण्यऋषभपष्ठौहीवशाशितिपृष्ठेत्येतानि दक्षिणाकाले देयनि । सन्तिष्ठते दशपेयः । 'एतया दिशामवेष्ट्या तेजस्कामो ब्राह्मणो राजन्यो वा वैश्यो वा' इत्ययज्ञसंयुक्तं केचिदाहुः ॥
2 अथ यस्यां दशपेयासमाप्तिस्तस्यां प्रथमायामपराह्णे द्विपशुना पशुबन्धेन यजते, तं विदधाति - आदित्यां मल्हामिति ॥ आदित्यो देवता । 'दित्यदित्यादित्य' इति ण्यः । मल्हा मणिला अजा, यस्या ग्रीवायां मणिवन्मांसद्वयमवलम्बते । तादृशीं गर्भिणीमालभेत । मारुतीं च पृश्निं श्वेतवर्णां पष्ठौहीम् । उक्ता पष्ठौही ॥
3 श्वोभूते द्वितीयायां सात्यदूतानां त्रिहविषेष्ट्या यजते, तां विदधाति - अश्विभ्यामित्यादि ॥ अश्विनौ पूषा च सम्भूय देवते । 'अश्विभ्यां पूष्णे जुष्टं निर्वपामि' इति निर्वापः । पूष्ण इत्याद्युदात्तनिवृत्तिस्वरेण चतुर्थ्या उदात्तत्वम् । सरस्वान् सत्यवाङ्नाम देवता । सत्यं वक्ति सत्यवाक् । 'क्विब्वचि' इत्यादिना क्विब्दीर्घौ, कृदुत्तरपदप्रकृतिस्वरत्वम्, 'अन्तोदात्तादुत्तरपदात्' इति विभक्त्युदात्तत्वं नित्यसमासत्वान्न भवति । बहुव्रीहौ त्रिचक्रादित्वादुत्तरपदान्तोदात्तत्वम्, 'अन्यतरस्यां' इति वचनाद्विभक्त्युदात्तत्वाभावः । सवित्रे । 'उदात्तयणः' इति विभक्त्युदात्तत्वम् । सत्यप्रसवाय सत्याभ्यनुज्ञानाय तिसृधन्वं शुष्कदृतिश्च दक्षिणा । तिसृभिरिषुभिर्युक्तं धनुः तिसृधन्वम् । शुष्का केवला दृतिश्शुष्कदृतिः ॥

इत्यष्टमे एकोनविंशोनुवाकः ॥