पञ्चशत् 1 #
स्वा॒द्वीं त्वा᳚ स्वा॒दुना॑ ती॒व्रां ती॒व्रेणा॒मृता॑म॒मृते॑न सृ॒जामि॒ सꣳ सोमे॑न॒ सोमो᳚ऽस्य॒श्विभ्यां᳚ पच्यस्व॒ सर॑स्वत्यै पच्य॒स्वेन्द्रा॑य सु॒त्रांणे॑ पच्यस्व पु॒नातु॑ ते परि॒स्रुतꣳ॒॒ सोमꣳ॒॒ सूर्य॑स्य दुहि॒ता । वारे॑ण॒ शश्व॑ता॒ तना᳚ ॥ वा॒युः पू॒तः प॒वित्रे॑ण प्र॒त्यङ् सोमो॒ अति॑द्रुतः । इन्द्र॑स्य॒ युज्यः॒ सखा᳚ ॥कु॒विद॒ङ् यव॑मन्तो॒ यवं॑ चि॒द् यथा॒ दान्त्य॑नुपू॒र्वं ॅवि॒यूय॑ । इ॒हेहै॑षां कृणुत॒ भोज॑नानि॒ ( ) ये ब॒र्॒.हिषो॒ नमो॑वृक्तिं॒ न ज॒ग्मुः ॥ आ॒श्वि॒नं धू॒म्रमा ल॑भते सारस्व॒तं मे॒षमै॒न्द्रमृ॑ष॒भ-मै॒न्द्र-मेका॑दशकपालं॒ निर्व॑पति सावि॒त्रं द्वाद॑शकपालं ॅवारु॒णं दश॑कपालꣳ॒॒ सोम॑प्रतीकाः पितरस्तृप्णुत॒ वड॑बा॒ दक्षि॑णा ॥
पदपाठः (Word-by-word)
स्वा॒द्वीम् । त्वा॒ । स्वा॒दुना᳚ । ती॒व्राम् । ती॒व्रेण॑ । अ॒मृता᳚म् । अ॒मृते॑न । सृ॒जामि॑ । समिति॑ । सोमे॑न । सोमः॑ । अ॒सि॒ । अ॒श्विभ्या॒मित्य॒श्वि-भ्या॒म् । प॒च्य॒स्व॒ । सर॑स्वत्यै । प॒च्य॒स्व॒ । इन्द्रा॑य । सु॒त्रांण॒ इति॑ सु - त्रांणे᳚ । प॒च्य॒स्व॒ । पु॒नातु॑ । ते॒ । प॒रि॒स्रुत॒मिति॑ परि - स्रुत᳚म् । सोम᳚म् । सूर्य॑स्य । दु॒हि॒ता ॥ वारे॑ण । शश्व॑ता । तना᳚ ॥ वा॒युः । पू॒तः । प॒वित्रे॑ण । प्र॒त्यङ् । सोमः॑ । अति॑द्रुत॒ इत्यति॑-द्रु॒तः॒ ॥ इन्द्र॑स्य । युज्यः॑ । सखा᳚ ॥ कु॒वित् । अ॒ङ्ग । यव॑मन्त॒ इति॒ यव॑-म॒न्तः॒ । यव᳚म् । चि॒त् । यथा᳚ । दान्ति॑ । अ॒नु॒पू॒र्वमित्य॑नु - पू॒र्वम् । वि॒यूयेति॑ वि - यूय॑ ॥ इ॒हेहेती॒ह - इ॒ह॒ । ए॒षा॒म् । कृ॒णु॒त॒ । भोज॑नानि ( ) । ये । ब॒र्॒.हिषः॑ । नमो॑वृक्ति॒मिति॒ नमः॑ - वृ॒क्ति॒म् । न । ज॒ग्मुः ॥ आ॒श्वि॒नम् । धू॒म्रम् । एति॑ । ल॒भ॒ते॒ । सा॒र॒स्व॒तम् । मे॒षम् । ऐ॒न्द्रम् । ऋ॒ष॒भम् । ऐ॒न्द्रम् । एका॑दशकपाल॒मित्येका॑दश-क॒पा॒ल॒म् । निरिति॑ । व॒प॒ति॒ । सा॒वि॒त्रम् । द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् । वा॒रु॒णम् । दश॑कपाल॒मिति॒ दश॑ - क॒पा॒ल॒म् । सोम॑प्रतीका॒ इति॒ सोम॑ - प्र॒ती॒काः॒ । पि॒त॒रः॒ । तृ॒प्णु॒त॒ । वड॑बा । दक्षि॑णा ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ राजसूयेनेष्ट्वा सौत्रामण्या यजेत, तामधिकृत्योच्यते । वैश्वदेवं काण्डम् । आसरेणावेक्षन् सोमं सम्पादयति - स्वद्वीमिति । इयं गायत्री, एकादशकः पादः, अभितस्सप्तकः ॥ सुराभिप्रायेणाह – स्वाद्वीं स्वादुरसां स्वादुना स्वादुरसेनानेन तीव्रामुत्कृष्टां त्वां तीव्रेनोत्कृष्टेनानेन । यद्वा - उत्कृष्टरसत्वं तीव्रत्वम् । तीव स्थौल्ये, औणाणादिको रप्रत्ययः । अमृतां अमृतत्वहेतुं त्वां अमृतेनामृतत्वहेतुनानेन सोमेन सोमसदृशेन प्रशस्तेन संसृजामि । पादादित्वान्न निहन्यते । 'सोममेवैनां करोति' इत्यादिब्राह्मणम् । यद्वा - सम्यक् सृजामि सोमेन समायुत्य पादयामि । ओदनं करोमि ॥
2 तामुपरिस्थितामभिमृशति - सोमोसीति ॥ सोमवत्प्रशस्तोसि । अश्विभ्यामश्व्यर्थं पच्यस्व सुरारूपेण । कर्मवद्भावात् यगात्मनेपदे, स्वयमेव पच्यस्वेति । सरस्वत्यै पच्यस्व । इन्द्राय सुत्रामृणे । सुष्ठु त्रायते शत्रुभ्य इति सुत्रामा । 'आतो मनिन्' इति मनिन् । 'एताभ्यो ह्येषा देवताभ्यः पच्यते' इत्यादि ब्राह्मणम् । यद्वा - सोमोसि सोमसमो वा भव । पावनो भव । सुनोतेःक्रन् सुरा तत एव मन्प्रत्यये सोमः ॥
3 सुरां पुनाति वालेन - पुनात्विति गायत्र्या ॥ हे इन्द्र तव ते तुभ्यं वा परिस्रुतं परिस्रवणजन्मा सुरा परिस्रुक्[त्] तस्मिन्यदा प्रस्रवति सा परिस्रुक्[त्] भवति, तां पुनातु सोमं सोमीभूतां सोमवत्प्रशस्तभावमापन्नां सूर्यस्य दुहीता सूर्यो वरुण उच्यते, तस्य सुता वारुणी प्रसिद्धा सुरा । यद्वा - सूर्येण दोहनीया दुहिता करसंतापविशेषजन्मा सुराविशेषः । यद्वा - श्रद्धा सूर्यस्य दुहिता । उक्तं च शतपथे । सा पुनातु वारेण वालेन । कापीलादित्वाल्लत्वविकल्पः । शश्वता नित्येन तना विस्तीर्णेन । तृतीयायाः 'सुपां सुलुक्' इत्याकारः । यद्वा - शश्वता वारेण । कालेन पुनातु नित्यं पुनात्विति यावत् । तना सूर्यस्य दुहिता । पचाद्यचि पृषोदरादिर्द्रष्टव्यः । यद्वा - तनेति निपातः नित्ये वर्तते शश्वता अविनाशेन वालेन नित्यं पुनात्विति । निपातनादाद्युदात्तत्वम् । यद्वा - शश्वतातना सदातनेनेत्यर्थः । शश्वतेत्याकारान्तो निपातितः । तेनाव्ययलक्षणः ट्युत्प्रत्ययः 'ट्युट्य्लौ तुट्च' इति । प्रकृतिप्रत्यययोश्च पृथक्पदत्वं दृश्यते - यथा 'मा च ते ख्या स्म तीरिषत्' इति ॥
4 सोमातिपवितस्य सोमवामिनो वा पुनाति - वायुरिति गायत्र्या च ॥ पवित्रेणानेन पूतस्सोमः इन्द्रस्य युज्यः सखा । युजि साधुर्युज्यः युक्तस्सखा । ऐन्द्राग्नवायवादिषु सहपानभोजनत्वात्सोमविशेषणमिदम् । स सोमो वायुः वायुसदृशः वायुवत्स्वस्थानचलितः प्रत्यङ्प्रतिकूलो घनः । अतिद्रुतः अधस्ताद्गतः अतिगतो वा । यद्वा - वायुरिति । 'सुपां सुलुक्' इति तृतीयायास्स्वादेशः । वायुना प्रत्यङ्प्रतिद्रुतः अतीतः तमेतेन पवनेन स्वस्थानस्थं करोमीति शेषः । एवमनेन कर्मणा स्वस्थानस्थित एव भवतीति । अपरा योजना - वायुश्शरीरस्थः प्राणः पवित्रेण पावनेन सोमेन पीतेन पूतः प्रथमं शोधितः इन्द्रस्य युज्यस्सखा स प्रत्यङ् प्रतीपमतिद्रुतः स्वस्थानत्पीडितोतिक्रम्य निर्गतः सोमश्च सोतिद्रुतः । यद्वा - पूर्ववत्तृतीयायास्स्वादेशः । अनेन सोमेन स वायुरतिद्रुतः । यद्वा - सोमश्च वायुश्चेति तदुभयमनेन कर्मणा स्वस्थानस्थं भवति ॥
5 सुराग्रहान्गृह्णाति - कुविदङ्गेति त्रिष्टुप् ॥ कुविदिति बहुप्रसिद्धानुवादे । अङ्गेत्यप्रातिलोम्ये बहुप्रसिद्धमेतत् सर्वानुकूलमिति द्योतयतः । किम्पुनस्तत् ? आह - यवमन्तः बहुयवाः । यवग्रहणेन यवितव्या यवमुद्गव्रीहिगोधूमादयो धान्यविशेषा गृह्यन्ते । भूम्नि मतुप् । 'यथा चित्' इति द्वे अप्युपमानार्थे, एकानेकोपमेयत्वादुपमायाः । यवमिति जातावेकवचनम् । अयमर्थः - यथा यवादिबहुधान्यवन्तो यवादीन् सहोत्पद्यमानाननुपूर्वं परिपाट्या वियूय पृथक्कृत्य दान्ति पृथक्त्वेन स्थापयन्ति, परस्परं काण्डपलालादिभ्यो वा । दा प्लवने, आदादिकः । यवमन्तो यवं यथा तुषकणादिभ्यः पृथक्कृत्य तानि शोधयन्ति । दैप् शोधने, भौवादिकः, 'बहुलं छन्दसि' इति शपो लुक् । तथा यूयमपि इहेह एषां भोजनानि कृणुत अस्वादुभूतं तुषादिकं पृथक्कृत्य भोजनानि भोक्तव्यानि स्वादूनि कृणुत उत्पाद्य धारयत । इहेहेति वीप्सा । सर्वत्र स्थानेस्थाने गृहेगृहे लोकेलोके वा । 'अनुदात्तं च' इति द्वितीयस्य निघातः । वियूयेति यौतेर्ल्यपि छान्दसो दीर्घः । उक्तमेषां भोजनानि कृणुतेति, केषामित्याह - ये बर्हिषो यज्ञस्य नमोवृक्तिं नमस्कारनाशनं सान्नस्य[साङ्गस्य]नाशनं न जमुर्न गताः ये यज्ञस्य नमस्कारादिकं न नाशयन्ति अस्माकमुपकारिणः तेषां कृणुत । ये पुनर्नाशयन्ति ते त्वनेन विनाश्यन्ताम् । यथोक्तं 'नमोवृक्तिमेवैषां वृङ्क्ते' इति । नमश्शब्दे ऊर्यादिगतित्वात् 'तादौ च निति' इति प्रकृतिस्वरत्वम् ॥
6 अथ त्रीन् पशून् विदधाति - आश्विनमिति ॥ आश्विनं धूम्रललाममालभते । सारस्वतं सरस्वत्यै मेषम् । ऐन्द्रमृषभम् । सुराग्रहाश्च त्रयो भवन्ति आश्विनसारस्वतैन्द्राः ॥
7 अथ त्रीन् पुरोडाशान्विदधाति - ऐन्द्रमेकादशकपालमिति ॥ ऐन्द्रसावित्रवारुणाः ॥
8 अथ शतातृण्णायां स्थाल्यां सुराशेषमवनयति - सोमप्रतीका इति ॥ सोमप्रतीकाः सोमः प्रतीकः उपक्रमो येषां ते । हे सोमप्रभृतयः पितरस्तृप्णुत अनेन सुराशेषेण तृप्यत । व्यत्ययेन श्नुः । अस्मिन् कर्मणि वडबा अश्वा दक्षिणा । 'उत वा एषाश्वं सूते' इति ब्राह्मणम् ॥ सौत्रामणी समाप्ता ॥
इत्यष्टमे एकविंशोनुवाकः ॥