पञ्चशत् 1 #
आ॒ग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पति॒ हिर॑ण्यं॒ दक्षि॑णा सारस्व॒तं च॒रुं ॅव॑थ्सत॒री दक्षि॑णा सावि॒त्रं द्वाद॑शकपाल-मुपद्ध्व॒स्तो दक्षि॑णा पौ॒ष्णं च॒रुꣳ श्या॒मो दक्षि॑णा बार्.हस्प॒त्यं च॒रुꣳ शि॑तिपृ॒ष्ठो दक्षि॑णै॒न्द्र-मेका॑दशकपाल-मृष॒भो दक्षि॑णा वारु॒णं दश॑कपालं म॒हानि॑रष्टो॒ दक्षि॑णा सौ॒म्यं च॒रुं ब॒भ्रुर् दक्षि॑णा त्वा॒ष्ट्रम॒ष्टाक॑पालꣳ शु॒ण्ठो दक्षि॑णा वैष्ण॒वं त्रि॑कपा॒लं वा॑म॒नो दक्षि॑णा ॥
पदपाठः (Word-by-word)
आ॒ग्ने॒यम् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा-क॒पा॒ल॒म् । निरिति॑ । व॒प॒ति॒ । हिर॑ण्यम् । दक्षि॑णा । सा॒र॒स्व॒तम् । च॒रुम् । व॒थ्स॒त॒री । दक्षि॑णा । सा॒वि॒त्रम् । द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् । उ॒प॒द्ध्व॒स्त इत्यु॑प - ध्व॒स्तः । दक्षि॑णा । पौ॒ष्णम् । च॒रुम् । श्या॒मः । दक्षि॑णा । बा॒र्.॒ह॒स्प॒त्यम् । च॒रुम् । शि॒ति॒पृ॒ष्ठ इति॑ शिति - पृ॒ष्ठः । दक्षि॑णा । ऐ॒न्द्रम् । एका॑दशकपाल॒मित्येका॑दश-क॒पा॒ल॒म् । ऋ॒ष॒भः । दक्षि॑णा । वा॒रु॒णम् । दश॑कपाल॒मिति॒ दश॑ - क॒पा॒ल॒म् । म॒हानि॑रष्ट॒ इति॑ म॒हा-नि॒र॒ष्टः॒ । दक्षि॑णा । सौ॒म्यम् । च॒रुम् । ब॒भ्रुः । दक्षि॑णा । त्वा॒ष्ट्रम् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । शु॒ण्ठः । दक्षि॑णा । वै॒ष्ण॒वम् । त्रि॒क॒पा॒लमिति॑ त्रि - क॒पा॒ल॒म् । वा॒म॒नः । दक्षि॑णा ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 एवमभिषेचनीये पञ्चम्यां संस्थिते दशपेयस्यागामिनो देवयननस्य पश्चात् संसृपां हविर्भिर्यजेत, तानि विदधाति - आग्नेयमष्टाकपालमिति ॥ षष्ठ्यामुपक्रमः । तत्र पूर्वंपूर्वं देवयजनमध्यवस्यति । यत्र पूर्वस्या आहवनीयः तत्र उत्तरस्या गार्हपत्यः । दशपेयस्य सङ्कल्पात्प्रागेवाष्टाकपालमाग्नेयं निर्वपति । हिरण्यं दक्षिणा । 'वरुणस्य सुषुवाणस्य दशधेन्द्रियं वीर्यं परापतत्' इत्यादि ब्राह्मणम् ॥
2 श्वोभूते सारस्वतं चरुं निर्वपति ॥ आग्नेयस्याहवनीयायतने सारस्वतस्य गार्हपत्यायतनम् । एवमुत्तरत्र द्रष्टव्यम् । अत्र वत्सतरी द्वितीयं वयः प्राप्नुवन्ती गौर्दक्षिणा । 'वत्सोक्षा' इति ष्टरच् ॥
3 श्वोभूते सावित्रं द्वादशकपालं निर्वपति ॥ तत्रोपध्वस्तो गौर्दक्षिणा अन्येन वर्णेन परिभूतो नि[ . . .भूतनि]जवर्ण इत्यर्थः ॥
4 श्वोभूते पौष्णं चरुं निर्वपति ॥ तत्र श्यामो गौर्दकिष्णा ॥
5 श्वोभूते बार्हस्पत्यं चरुं निर्वपति ॥ तत्र शितिपृष्ठश्शुक्लपृष्ठो गौर्दक्षिणा ॥
6 श्वोभूते ऐन्द्रमेकादशकपालं निर्वपति ॥ तत्र ऋषभो दक्षिणा ॥
7 श्वोभूते वारुणं दशकपालं निर्वपति ॥ तत्र महानिरष्टः पीडितवृषणो गौर्दकिष्णा ॥
8 अथ दशपेये प्रक्रान्ते आतिथ्यया प्रचर्य उपसदां पुरस्तात्सौम्यं चरुं निर्वपति द्वादश्याम् ॥ तत्र बभ्रुश्श्वेतलोहितो गौर्दकिष्णा ॥
9 श्वोभूते त्रयोदश्यां प्रवर्ग्योपसद्भ्यां प्रचर्य सुब्रह्मण्यान्ते त्वाष्ट्रमष्टाकपालं निर्वपति ॥ तत्र शुण्ठः अल्पकायो गौर्दक्षिणा ॥
10 श्वोभूते प्रवर्ग्योद्वासनात्प्राग्वैष्णवं त्रिकपालं निर्वपति ॥ तत्र वामनो ह्रस्वो गौर्दक्षिणा ॥
इत्यष्टमे सप्तदशोनुवाकः ॥