पञ्चशत् 1 #
सोम॑स्य॒ त्विषि॑रसि॒ तवे॑व मे॒ त्विषि॑र् भूयाद॒मृत॑मसि मृ॒त्योर् मा॑ पाहि दि॒द्योन्मा॑ पा॒ह्यवे᳚ष्टा दन्द॒शूका॒ निर॑स्तं॒ नमु॑चेः॒ शिरः॑ ॥ सोमो॒ राजा॒ वरु॑णो दे॒वा ध॑र्म॒सुव॑श्च॒ ये । ते ते॒ वाचꣳ॑ सुवन्तां॒ ते ते᳚ प्रा॒णꣳ सु॑वन्तां॒ ते ते॒ चक्षुः॑ सुवन्तां॒ ते ते॒ श्रोत्रꣳ॑ सुवन्ताꣳ॒॒ सोम॑स्य त्वा द्यु॒म्नेना॒भि षि॑ञ्चाम्य॒ग्ने - [ ]
पदपाठः (Word-by-word)
सोम॑स्य । त्विषिः॑ । अ॒सि॒ । तव॑ । इ॒व॒ । मे॒ । त्विषिः॑ । भू॒या॒त् । अ॒मृत᳚म् । अ॒सि॒ । मृ॒त्योः । मा॒ । पा॒हि॒ । दि॒द्योत् । मा॒ । पा॒हि॒ । अवे᳚ष्टा॒ इत्यव॑-इ॒ष्टाः॒ । द॒न्द॒शूकाः᳚ । निर॑स्त॒मिति॒ निः-अ॒स्त॒म् । नमु॑चेः । शिरः॑ ॥ सोमः॑ । राजा᳚ । वरु॑णः । दे॒वाः । ध॒र्म॒सुव॒ इति॑ धर्म -सुवः॑ । च॒ । ये ॥ ते । ते॒ । वाच᳚म् । सु॒व॒न्ता॒म् । ते । ते॒ । प्रा॒णमिति॑ प्र-अ॒नम् । सु॒व॒न्ता॒म् । ते । ते॒ । चक्षुः॑ । सु॒व॒न्ता॒म् । ते । ते॒ । श्रोत्र᳚म् । सु॒व॒न्ता॒म् । सोम॑स्य । त्वा॒ । द्यु॒म्नेन॑ । अ॒भीति॑ । सि॒ञ्चा॒मि॒ । अ॒ग्नेः ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 यजमानायतने शार्दूलचर्मोपस्तृणाति - सोमस्य त्विषिरसीति ॥ सोमस्य या त्विषिर्दीप्तिः सैव त्वमसि दीप्तत्वात् व्यापित्वाच्छान्तत्वाच्च । तवेव मे ममापि त्वीषिर्भूयात् दीप्ता व्यापिनी शान्ता चेत्याशास्ते ॥
2 चर्मणोधस्ताद्रजतमुपास्यति - अमृतमिति ॥ अमृतममरणहेतुरसीति । मृत्योर्मा पाहिति । 'मृत्योर्वा एष वर्णः । यच्छार्दूलः' इति शार्दूलचर्मणोधस्तादन्तर्धानकरणेन मृत्योरन्तर्धानकरणमाशास्ते ॥
3 उपरिष्टात्सुवर्णमधिनिदधाति - दिद्योदिति ॥ दिद्युत् आयुधमुच्यते । द्युतेः क्विपि द्विर्वचनं, 'द्युतिस्वाप्योस्सम्प्रसारणम्' अत्रापि भवति । ततो मां पाहि । 'सुपां सुलुक्' इति पञ्चम्या लुक्, वर्णव्यत्ययेन उकारस्योकारः । यद्वा - द्युतेर्विचि द्विर्वचने गुणे दिद्योदिति । शब्दान्तरं दितेर्दिद्युत् अवखण्डनकृदिति केचित् । सुवर्णविशेषणं वा । हे सुवर्ण दिद्योत् द्योतमान मा पाहीति ॥
4 क्लीबं सीसेन विद्ध्यति - अवेष्टा इति ॥ अवेष्टाः विनाशिताः । अवपूर्वो यजिर्विनाशने । दन्दशूकाः दशनशीलास्सर्पादयः । 'यजजपदशां यङः' इत्यूकप्रत्ययः ॥
5 लोहितायसं पादेन निरस्यति - निरस्तमिति गायत्र्यैकपदया ॥ निरस्तं निष्कृष्यास्तं नमुचेश्शिरः न मुञ्चति पुरुषमिति नमुचिः अधर्मः । न मुञ्चत्यधर्ममिति वा नमुचिरसुरः बाधकः, तस्य शिरो निरस्तमनेन लोहितायसेन ॥
6 अभिषेकानवेक्षते - सोम इति षट्पदया त्रिष्टुभा ॥ सोमो राजा वरुणश्च देवाश्चान्ये ये धर्मसुवः धर्मस्यानुज्ञातार उत्पादयितारो वा । तेते वाचं सुवन्तां प्रेरयन्तु । तेते प्राणं सुवन्तामित्यादि स्पष्टम् ॥
7 अध्वर्युरभिषिञ्चति - सोमस्येति ॥ सोमस्य द्युम्नेन दीप्त्या सह यशसा वा त्वामभिसषिञ्चामि अस्योपरि क्षारयामि त्वाम् । अग्नेस्तेजसाभिषिञ्चामि त्वामित्येव । एवं मरुतामोजसेत्यादि निगदसिद्धम् । क्षत्राणां बलानां सर्वेषामपि क्षत्रपतिरसि त्वं, न पुन रेकस्य पतित्वादित्यसमासेन प्रतिपाद्यते । 'गवामसि गोपतिः' इति यथा । स त्वं दिवः द्युमतस्सर्वान्सोमादीन् द्युलोकवासिनो वा सोमादीनतिक्रम्य एनं यजमानं पाहि । यद्वा - यजमान एवोच्यते, हे यजमान त्वामभिषिञ्चामीति । क्षत्राणां क्षत्रपतिरसि त्वं दीप्तिमतोतिक्रम्य लोकान् पाहि, दिवो वा उपरि पाहि । 'पातौ च बहुळम्' इति सत्वम् । कस्कादिर्वा द्रष्टव्यः ॥
8 ऊर्ध्वं धारास्समुन्मार्ष्टि - समाववृत्रन्निति त्रिष्टुभा ॥ एकीभूत्वा समन्ताद्वर्तन्ताम् । अधराक् अधस्तात् गताः । उदीचीः ऊर्ध्वगाः उपलक्षणं चैतत् ; सर्वं देहं व्याप्य वर्तन्तामनेनोन्मार्जनेन । वृतेर्लुङि व्यत्ययेन च्लेश्चङ्, 'द्युद्भ्यो लुङि' इति परस्मैपदं, 'बहुलं छन्दसि' इति रुट् । अहिं स्थिराणि स्थानानि बुध्नियं सुषिराणि चानुसञ्चरन्तीरनुक्रमेण सञ्चरन्त्यः । अहिं बुध्नियं वानुप्राप्य सञ्चरन्तीस्ताः । पर्वतस्य पर्ववतः । 'पर्वमरुद्भ्यस्तः' इति मत्वर्थीयस्तः । वृषभस्य प्रधानस्य वर्षितुर्वा यजमानस्य पृष्ठे देहस्योपरि नावः नाव्या इवापश्चरन्ति प्रभूताः प्रवर्तन्ते स्वसिचः स्वयमेव सर्वमङ्गं सिञ्चन्त्यः इयानाः सर्वमङ्गं व्याप्नुवन्त्यः । लिटः कानजादेशः । यद्वा - समाववृत्रन् संहत्य समन्तात् वर्तन्ताम् । अधरागुपरिष्टाच्च सर्वास्वपि दिक्षु अहिं मेघं बुध्नियमन्तरिक्षं चानुसञ्चरन्त्यः मेघमनुप्राप्यान्तरिक्षे वर्तमानाः । वर्षकाले पर्वतस्य पर्ववतो वृषभस्य वर्षितुर्मेघस्य पृष्ठे नाव्या आप इव प्रभूतास्सञ्चरन्ति ओषधिनिष्पत्तये । स्वसिचस्स्वयमेव विश्वं सिञ्चन्त्यः इयाना दिगन्तं व्याप्नुवन्त्यः इति । नौभिः कार्याभिः कारणभूता आपो लक्ष्यन्ते ॥
9 आग्नीध्रे प्ररेकं जुहोति - रुद्र यत्त इति ॥ हे रुद्र यत्ते तव रुद्रेत्यादिकं नामधेयं परमुत्कृष्टं क्रयि क्रीणात्यात्मसात्करोति विश्वमिति क्रयि । छान्दस इप्रत्ययः, छान्दसं सांहितिकं दीर्घत्वम् । करोत्यर्थे वा क्रीणातिः । अन्य आह - करोतेः कर्मणि छान्दसः केन्प्रत्ययः । क्रे इति कर्मनाम ; सप्तम्येकवचने अयादेशः, 'सावेकाचः' व्यत्ययेन न प्रवर्तते । क्रयि कर्मणिकर्मणि यदुपादीयते शिवो रुद्रः त्र्यम्बकः कृत्तिवासा विरूपाक्ष इत्यादि तव नाम परं प्रशस्तं तस्मै इदं हुतं तदिदमिति त्वमेवासि । यमेष्टं यद्यमेनापीष्टं पूजितं तच्छ्रुत्वा मृत्युरपि बिभेति, तेन च मनसा तत्पूजितमिति भावः । तदिदं त्वमेवासि । यजतेर्निष्ठा, 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । तस्मात्तव नाम्ने इदमुदकाख्यं हविर्जुहोमीति शेषः । यद्वा - लिङर्थे आशिषि लोट्, पुरुषव्यत्ययः । तस्मादिदं हुतमसि हुतं भूयादित्यर्थः यमेष्टं चास्त्विति ॥
10 युवराजस्य प्रतिहितस्य गृहे जुहोति - प्रजापत इति त्रिष्टुभा ॥ हे प्रजापते त्वत्तोन्यः कश्चिदपि तान्येतानि विश्वा विश्वानि जातानि जन्मवन्ति वस्तूनि परिबभूव परिभवति वाप्नोति परिगृह्णाति वा । यद्वा - त्वदेतानि त्वत्तो जातानि विश्वानि वस्तूनि कश्चिदन्यः पीरबभूव न त्वमेव परिभवसि, तस्मादेवं तावन्महानुभावस्त्वम् । न च मया किञ्चिदज्ञातमस्ति ; अतो यत्कामा यत्फलं कामयमानाः ते जुहुमस्तन्नोस्माकमस्तु त्वत्प्रसादात् स कामोस्माकं सम्पद्यताम् । 'शीलिकामिभिक्षाचरिभ्यः' इति णः, पूर्वपदप्रकृतिस्वरत्वं च । इदं तु विशेषेणेत्याह - वयं रयीणां धनानां पतयः सर्वदा स्यामेत्याशास्ते ॥
इत्यष्टमे चतुर्दशोनुवाकः ॥