पञ्चशत् 1 #
मि॒त्रो॑ऽसि॒ वरु॑णोऽसि॒ सम॒हं ॅवि॒श्वै᳚र् दे॒वैः क्ष॒त्रस्य॒ नाभि॑रसि क्ष॒त्रस्य॒ योनि॑रसि स्यो॒नामा सी॑द सु॒षदा॒मा सी॑द॒ मा त्वा॑ हिꣳसी॒न्मा मा॑ हिꣳसी॒न्नि ष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्या᳚स्वा साम्रा᳚ज्याय सु॒क्रतु॒र् ब्रह्मा(3)न् त्वꣳ रा॑जन् ब्र॒ह्माऽसि॑ सवि॒ताऽसि॑ स॒त्यस॑वो॒ ब्रह्मा(3)न् त्वꣳ रा॑जन् ब्र॒ह्माऽसीन्द्रो॑ऽसि स॒त्यौजा॒ - [ ]
पदपाठः (Word-by-word)
मि॒त्रः । अ॒सि॒ । वरु॑णः । अ॒सि॒ । समिति॑ । अ॒हम् । विश्वैः᳚ । दे॒वैः । क्ष॒त्रस्य॑ । नाभिः॑ । अ॒सि॒ । क्ष॒त्रस्य॑ । योनिः॑ । अ॒सि॒ । स्यो॒नाम् । एति॑ । सी॒द॒ । सु॒षदा॒मिति॑ सु - सदा᳚म् । एति॑ । सी॒द॒ । मा । त्वा॒ । हिꣳ॒॒सी॒त् । मा । मा॒ । हिꣳ॒॒सी॒त् । नीति॑ । स॒सा॒द॒ । धृ॒तव्र॑त॒ इति॑ धृ॒त - व्र॒तः॒ । वरु॑णः । प॒स्त्या॑सु । एति॑ । साम्रा᳚ज्या॒येति॒ सां-रा॒ज्या॒य॒ । सु॒क्रतु॒रिति॑ सु- क्रतुः॑ । ब्रह्मा(3)न् । त्वम् । रा॒ज॒न्न् । ब्र॒ह्मा । अ॒सि॒ । स॒वि॒ता । अ॒सि॒ । स॒त्यस॑व॒ इति॑ स॒त्य - स॒वः॒ । ब्रह्मा(3)न् । त्वम् । रा॒ज॒न्न् । ब्र॒ह्मा । अ॒सि॒ । इन्द्रः॑ । अ॒सि॒ । स॒त्यौजा॒ इति॑ स॒त्य - ओ॒जाः॒ ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 वैश्वदेव्यामिक्षायां यजमानो दक्षिणं बाहुमुपावहरते - मित्रोसीति ॥ मित्रो देवस्त्वमसि वैश्वदेवत्वादन्यतररूपत्वेन भेदेन स्तुतिः । यद्वा - हिंसायास्त्रासकस्तुतिस्त्वमसि ॥
2 सव्यमुपावहरति - वरुणोसीति ॥ वरुणो देवस्त्वमसि । पूर्ववत् स्तुतिः । वारको वा शत्रूणामसि ॥
3 तामभिमृशति - समहमिति ॥ समित्युपसर्गस्ससाधनां क्रियामाह । संहतोहं विश्वैर्देवैः । यद्वा - विश्वैर्देवैर्युक्तां त्वामहं संस्पृशामि ॥
4 आसन्दीं मिनोति - क्षत्रस्येति ॥ क्षत्रस्य बलस्य नाभिस्सन्नहनं त्वमसि । 'नहो भश्च इति इञ्प्रत्ययः ॥
5 तस्त्यामधिवासं स्तृणाति - क्षत्रस्य योनिरसीति ॥ योनिः कारणं क्षत्रस्यासि, अतो ह्ययं जायते । 'अधीवासमास्तृणाति सयोनित्वाय' ॥
6 तत्रासीनं तमभिमन्त्रयते - स्योनामासीदेति ॥ स्योनां सुखामासीद आस्थायास्व । सुषदां सुखेनासादनीयमासीद । खलि कृदुत्तरपदप्रकृतिस्वरत्वम् । सिवेरौणादिके नप्रत्यये ऊठि गुणे च स्योनेति भवति । मा त्वा हिंसीदियमासन्दी । तां च त्वं मा हिंसीः ॥
7 अनुमन्त्रयमाणमासन्नमभिमन्त्रयते - निषसादेति गायत्र्या त्रिपदया ॥ 'वरुणः पस्त्यास्त्वा' इति द्वितीयः पादः । इयादिपूरणेनाक्षरसङ्ख्या सम्पद्यते । निषसाद निषण्णवान् । धृतव्रतः धृतकर्मा वरुण एव स्वयमिहास्ति । यद्वा - वरुणो वारयितारीणां यजमानोयं सिंहासन इवात्र निषसाद धृतव्रतः स्थितव्रतः पस्त्यासु गृहेषु । आकारस्समुच्चये । गृहेषु च निषसाद शत्रूणां सर्वमनेन जितमिदानीम् । (यं) यदा साम्राज्याय शोभनराज्याय सुक्रतुश्शोभनकर्मा शोभनसङ्कल्पो वाऽयमत्र निषसाद पस्त्यासु च तथैव निषसादेति । यद्वा - आकार उपर्यर्थे । पस्त्याग्रहणं चोपलक्षणम् । गृहनगरजनपदादिषु यत्तद्विषयसाम्राज्यं तदर्थं निषसाद शोभनकर्माऽयमिति । 'क्रत्वादयश्च' इत्युत्तरपदाद्युत्तत्वम् ॥
8 अथ ऋत्विक्षु च सर्वतः पर्युपविष्टेषु अध्वर्युं राजाभिमन्त्रयते - ब्रह्मा3न् इति ॥ हे ब्रह्मन् इति । 'दूराद्धूते च' इति वाक्यस्य टेरुदात्तः प्लुतश्च, 'पूर्वत्रासिद्धम्' इति तस्यासिद्धत्वात् 'आमन्त्रितस्य' इति षाष्ठिकमामन्त्रिताद्युदात्तत्वं प्रवर्तते 'अनुदात्तं पदमेकवर्नम्' इति च न प्रवर्तते ॥
9 अध्वर्युः प्रत्याह - त्वमिति ॥ हे राजन् त्वमेव ब्रह्मासि नाहम् । हेतुमाह - यतस्सविता सर्वस्य प्रेरकः अनुज्ञाता वा त्वमसि त्वदाज्ञया हि सर्वं प्रवर्तते । सत्यसवः सत्यानुज्ञः अमोघशासनः, अतस्त्वमेव ब्रह्मासि ॥
10 अथ ब्रह्माणमामन्त्रयते - ब्रह्मा3न् इति ॥ व्याख्यरतम् ॥
11 ब्रह्मा प्रत्याह - त्वमिति ॥ हे राजन् त्वमेव ब्रह्मासि यतस्त्वमिन्द्रोसि सर्वस्येश्वरोसि । सत्यौजाः अवितथबलः ॥
12 होतारमामन्त्रयते - ब्रह्मा3न् इति ॥
13 स प्रत्याह - त्वमिति ॥ हे राजन् त्वमेव ब्रह्मासि, यतो मित्रोसि शर्वस्य हिंसाभ्यस्त्रातासि । सुशेवस्सुसुखः । 'आद्युदात्तं द्व्यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् ॥
14 उद्गातारमामन्त्रयते - ब्रह्मा3न् इति ॥
15 स प्रत्याह - त्वमिति ॥ हे राजन् त्वमेव ब्रह्मासि, यतस्त्वं वरुणोसि वारयिता शत्रूणां पापचोरव्याघ्रादीनां वारयितासि । सत्यधर्मा सत्यस्वभावः । 'धर्मादनिच्केवलात्' ॥
16 ब्रह्मा स्फ्यं राज्ञे प्रयच्छति - इन्द्रस्येति ॥ व्याख्यातम् । तस्मात्तेन वज्रेण हेतुना मम दस्यून् रध्य नाशय । यद्वा - साधयाभिमतानीति । रध हिसासिद्ध्योः, दैवादिकः ॥
17 पञ्चाक्षान्राज्ञे प्रयछति - दिश इति ॥ अयं राजा सर्वा दिशः अभ्यभूत् अभिभवतु सर्वा दिशोधिष्ठाय स्वयमेव राजा भवत्वित्यर्थः । यद्वा - 'अभिरभागे' इति लक्षणे अभेः कर्मप्रवचनीयत्वम् । दिशोभि सर्वासु दिक्षु अयं राजा भवति सर्वदा ॥
18 मङ्गळ्यनाम्नो राजाह्वयति - सुश्लोकेति ॥ सङ्ग्रहीता भागदुघः क्षत्ता चेत्येते मङ्गळ्यनामानः, एषामेतानि सुश्लोकादीनि नामानि, एतैरेत आमन्त्र्यन्ते । सुश्लोकः शोभनकीर्तिः ; धनेन राज्ञश्शोभनकीर्तिहेतुत्वात् । अहं सदा सुश्लोकस्स्यामित्याह्वातुरभिप्रायः । सुमङ्गलश्शोभनमङ्गलहेतुः । निरुपसृष्टाभिप्रेतार्थसिद्धिहेतुर्मङ्गलम् । सत्यराज्ञस्सत्यो रजा येन । राज्ञस्सत्यत्वहेतुः । 'आशिषमेवैतामाशास्ते' इत्यादिब्राह्मणम् । पूर्ववद्द्वौ उदात्तौ । 'अणोप्रगृह्यस्यानुनासिकः' इति प्रथमद्वितीययोरन्त्य(रूप)स्यानुनासिकः ॥
19 अथावभृथेन प्रचर्यापामन्ते जुहोति - अपां नप्त्र इति ॥ अपां चतुर्थायाग्नये स्वाहा । अद्भ्य ओषधयः, ओषधीभ्योन्नं, अन्नादग्निरिति । 'ऊडिदम्' इति षष्ठ्युदात्ता ॥
20 विषुवति दर्भस्तम्बे जुहोति - ऊर्जो नप्त्र इति ॥ ऊर्गन्नं तस्य नप्त्रे चतुर्थाय स्वाहा । 'अन्नाद्बलं' बलान्मथनवेगः, ततोग्निरिति । 'सावेकचः' इत्यूर्जष्षष्ठ्युदात्ता ॥
21 पुनरेत्य गार्हपत्ये जुहोति - अग्नये गृहपतये स्वाहेति । गतम् ॥
अष्टमे षोडशोनुवाकः ॥