अनुवाकः 11 TS 1.8.11

(A11)

(अत्ये-का॑दश च)

अनुवाकः 11 - Complete Audio

TS 1.8.11 - स्वरानुगामी

0:00 0:00
PS1.1 अ॒र्थेतः॑ स्था॒ऽपां पति॑रसि॒ वृषा᳚ऽस्यू॒र्मिर्
PS1.2 वृ॑षसे॒नो॑ऽसि व्रज॒क्षितः॑ स्थ म॒रुता॒मोजः॑
PS1.3 स्थ॒ सूर्य॑वर्चसः स्थ॒ सूर्य॑त्वचसः
PS1.4 स्थ॒ मान्दाः᳚ स्थ॒ वाशाः᳚
PS1.5 स्थ॒ शक्व॑रीः स्थ विश्व॒भृतः॑
PS1.6 स्थ जन॒भृतः॑ स्था॒ऽग्नेस्ते॑ज॒स्याः᳚ स्था॒ऽपामोष॑धीनाꣳ॒॒
PS1.7 रसः॑ स्था॒ऽपो दे॒वीर् मधु॑मतीरगृह्ण॒न्नूर्ज॑स्वती
PS1.8 राज॒सूया॑य॒ चिता॑नाः
PS1.9 याभि॑र् मि॒त्रावरु॑णाव॒-भ्यषि॑ञ्च॒न्॒. याभि॒-रिन्द्र॒मन॑य॒न्नत्य (
PS1.10 ) रा॑तीः
PS1.11 रा॒ष्ट्र॒दाः स्थ॑ रा॒ष्ट्रं द॑त्त॒
PS1.12 स्वाहा॑ राष्ट्र॒दाः स्थ॑ रा॒ष्ट्रम॒मुष्मै॑
PS1.13 दत्त

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.8.11.1 TS 1.8.11.1
अ॒र्थेतः॑ स्था॒ऽपां पति॑रसि॒ वृषा᳚ऽस्यू॒र्मिर् वृ॑षसे॒नो॑ऽसि व्रज॒क्षितः॑ स्थ म॒रुता॒मोजः॑ स्थ॒ सूर्य॑वर्चसः स्थ॒ सूर्य॑त्वचसः स्थ॒ मान्दाः᳚ स्थ॒ वाशाः᳚ स्थ॒ शक्व॑रीः स्थ विश्व॒भृतः॑ स्थ जन॒भृतः॑ स्था॒ऽग्नेस्ते॑ज॒स्याः᳚ स्था॒ऽपामोष॑धीनाꣳ॒॒ रसः॑ स्था॒ऽपो दे॒वीर् मधु॑मतीरगृह्ण॒न्नूर्ज॑स्वती राज॒सूया॑य॒ चिता॑नाः ॥ याभि॑र् मि॒त्रावरु॑णाव॒-भ्यषि॑ञ्च॒न्॒. याभि॒-रिन्द्र॒मन॑य॒न्नत्य ( ) रा॑तीः ॥ रा॒ष्ट्र॒दाः स्थ॑ रा॒ष्ट्रं द॑त्त॒ स्वाहा॑ राष्ट्र॒दाः स्थ॑ रा॒ष्ट्रम॒मुष्मै॑ दत्त ॥
पदपाठः (Word-by-word)
अ॒र्थेत॒ इत्य॑र्थ-इतः॑ । स्थ॒ । अ॒पाम् । पतिः॑ । अ॒सि॒ । वृषा᳚ । अ॒सि॒ । ऊ॒र्मिः । वृ॒ष॒से॒न इति॑ वृष-से॒नः । अ॒सि॒ । व्र॒ज॒क्षित॒ इति॑ व्रज-क्षितः॑ । स्थ॒ । म॒रुता᳚म् । ओजः॑ । स्थ॒ । सूर्य॑वर्चस॒ इति॒ सूर्य॑ - व॒र्च॒सः॒ । स्थ॒ । सूर्य॑त्वचस॒ इति॒ सूर्य॑ - त्व॒च॒सः॒ । स्थ॒ । मान्दाः᳚ । स्थ॒ । वाशाः᳚ । स्थ॒ । शक्व॑रीः । स्थ॒ । वि॒श्व॒भृत॒ इति॑ विश्व - भृतः॑ । स्थ॒ । ज॒न॒भृत॒ इति॑ जन- भृतः॑ । स्थ॒ । अ॒ग्नेः । ते॒ज॒स्याः᳚ । स्थ॒ । अ॒पाम् । ओष॑धीनाम् । रसः॑ । स्थ॒ । अ॒पः । दे॒वीः । मधु॑मती॒रिति॒ मधु॑ - म॒तीः॒ । अ॒गृ॒ह्ण॒न्न् । ऊर्ज॑स्वतीः । रा॒ज॒सूया॒येति॑ राज - सूया॑य । चिता॑नाः ॥ याभिः॑ । मि॒त्रावरु॑णा॒विति॑ मि॒त्रा-वरु॑णौ । अ॒भ्यषि॑ञ्च॒न्नित्य॑भि-असि॑ञ्चन्न् । याभिः॑ । इन्द्र᳚म् । अन॑यन्न् । अतीति॑ ( ) । अरा॑तीः ॥ रा॒ष्ट्र॒दा इति॑ राष्ट्र-दाः । स्थ॒ । रा॒ष्ट्रम् । द॒त्त॒ । स्वाहा᳚ । रा॒ष्ट्र॒दा इति॑ राष्ट्र - दाः । स्थ॒ । रा॒ष्ट्रम् । अ॒मुष्मै᳚ । द॒त्त॒ ॥
पदसंख्या: 61
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अभिषेकार्थं षोडश सप्तदश वा वायव्यैर्गृह्णाति - अर्थेतस्थेत्येतैर्मन्त्रैः ॥ एतास्वप्सु प्रथममाज्येन हुत्वा ग्रहान् गृह्णाति । यस्मिन्नेव जुहोति, तस्मिन्नेव जले तेनैव मन्त्रेण ग्रहं गृह्णाति । तत्र 'आपो देवीः' इत्यादिका त्रिष्टुप् सर्वत्रानुषज्यते । 'राष्ट्रदास्स्थ राष्ट्रं दत्त स्वाहा' इत्यन्तेन होमः, 'राष्ट्रदास्स्थ राष्ट्रममुष्मै दत्त' इत्यन्तेन ग्रहणम् । अमुष्मा इत्यत्र चतुर्थ्यन्तं विशेषवाचिपदमुपादीयते, यथा राजसींहवर्मणे दत्तेति । 'अपां ग्रहान् गृह्णात्येतद्वाव राजसूयम्' इत्यग्निकाण्डे ब्राह्मणं भवति । तत्रायं प्रयोगक्रमः - 'अर्थेतस्थापो देवीर्मधुमतीरगृह्णन्' इत्यारभ्य 'राष्ट्रं दत्त स्वाहा' इति सारस्वतीष्वप्सु प्रागेवानीतासु वहन्तीनां वा जले आज्येन जुहोति, पुनश्च 'अर्थेतस्स्थापो देवीः' इत्यारभ्य, 'राष्ट्रं राजेन्द्रवर्मणे दत्त' इति तस्मिन्नेव जले वायव्यैः पर्णमयेन गृह्णाति । पर्णमयेन स्रुवेणेति केचित् । एवमुत्तरत्रापि होमग्रहणे सर्वत्र समानमन्त्रे कर्तव्ये । मन्त्रार्थस्तु - अर्थेतस्स्थ हे आपः अर्थमरणीयं स्थानान्तरं यन्ति गच्छन्तीति अर्थेतः । एतेः क्विप् । तादृशीर्व आपः व्यापनस्वभावाः देवीः दीप्तिमतीः मधुमतीः मधुरसवतीः अगृह्णन्देवाः, ऋत्वीजो वा । ऊर्जस्वतीः बलवतीः राजसूयाय राजसूयार्थं राजसूये अभिषेकार्थमगृह्णन् चितानाः चिन्तयन्तीः राजसूयाभिनिष्पत्त्युपायचिन्ताव्यापृताः । यद्वा - राजसूयाय चिताना देवा अगृह्णन् । राजेह सूयते राजा वानेन सूयते इति राजसूयः क्रतुः, 'राजसूयसूर्य' इति क्यपि निपात्यते । चिती सञ्चेतने, चुरादिरनुदात्तेत्, 'बहुलमन्यत्रापि' इति णिलुक्, 'बहुलं छन्दसि' इति शपो लुक्, लसार्वधातुकानुदात्तत्वे धातुस्वरः । याभिर्युष्माभिर्मित्रावरुणौ कर्मस्वभ्यषिञ्चन्देवाः, याभिश्च युष्माभिरिन्द्रमभ्यषिञ्चन् देवाः, अरातींश्चात्यनयन् इन्द्रं सर्वान् शत्रूनतीत्योपरीन्द्रं स्थापितवन्तः ; ता यूयं राष्ट्रदास्स्थ राष्ट्रस्य दात्र्यस्स्थ, अद्भिर्हि राष्ट्रं भवति । ता यूयमस्मै राष्ट्रं दत्त, स्वाहा स्वाहुतमिदमाज्यमस्तु इति होमे । ग्रहणे तु यस्माद्राष्ट्रदास्स्थ, तस्मादमुष्मै राजेन्द्रवर्मणे राष्ट्रं दत्त ; ता वो गृह्णामीति ॥
2 पुन्नदस्य शोणादेर्वा जलं - अपाम्पतिरसीति ॥ अपाम्पतिस्समुद्रः तदीया आप उच्यन्ते ; विकारे प्रकृतिशब्दात् । समुदायशब्दादेकवचनम् । शोणादीनां पुंस्त्वेन अपांपतित्वम् । 'ऊडिदम्' इति षष्ठ्या उदात्तत्वम् ॥
3 अथ नद्यां पुरुषे पशौ वा तिष्ठति प्रतीपमन्य ऊर्मिर्युद्ध्यति, अन्वीपमन्यः ; तयोः प्रतिस्रोता य ऊर्मिर्भवति तज्जलं गृह्णाति - वृषास्यूर्मीरिति ॥ वृषा वर्षिता वृष्टिहेतुत्वात् । प्रधाने[धानं]वा ; सङ्घातरूपत्वात् । ऊर्मिस्सङ्घातार्था अरणशीला वा ॥
4 अथानुस्रोता य ऊर्मिस्तज्जलं गृह्णाति - वृषसेनोसीति ॥ सेक्त्री सेना यस्य संघातत्वेन महत्त्वात् सेकसामर्थ्याच्च । छान्दसमन्तोदात्तत्वम् । केचित्तु - वृषास्यूर्मिरित्येतावता ऊर्मिजलं गृह्णाति, वृषसेनोसीति पल्वल्यमिति ॥
5 अथ कूप्या गृह्णाति - व्रजक्षितस्स्थ इति ॥ व्रजे वेष्टितेवकाशे क्षियन्ति निवसन्तीति व्रजक्षितः । क्षि निवासगत्योः ॥
6 प्रतीपोदकमावर्तजलं गृह्णाति - मरुतामोजस्स्थेति ॥ मरुतां वायूनामोजः बलं स्थ ; तेन निर्वृत्तत्वात् ॥
7 आदित्ये दृश्यमाने यदा वर्षति तज्जलं गृह्णाति - सुर्यवर्चसस्स्थेति ॥ सूर्यं वर्चयन्ति भृशं दीपयन्ति । 'गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वञ्च' इत्यसुन् । सातपेहि वर्षे भृशमादित्यो दीप्यते । बहुव्रीहिर्वा सूर्यस्येव वर्चो येषामिति । सूर्यरश्मिसंयोगेन वर्चस्वित्वात् ॥
8 यत्र कुत्र चित्प्रसन्नं जलं गृह्णाति - सूर्यत्वचसस्स्थेति ॥ त्वच संवरणे, सुर्यं त्वचन्ति संवृण्वन्ति । पूर्ववदसुन् । यासु खलु निर्मलास्वप्सु रूपाणि परिदृश्यन्ते ताः खलु सूर्यरूपप्रकाशनं सूर्यमपि स्वमहिम्ना संवृण्वन्ति ॥
9 स्थावराणां गृह्नाति, ह्रादीर्वा - मान्दास्स्थेति ॥ मन्दस्वभावाः । मां दत्तदेवेभ्य इति ह्रादं कुर्वाणाः, अशोष्या इत्यन्ये ॥
10 अवश्यायोदकं गृह्णाति - [वाशास्थेति ॥ वाशा वश्याः नीहारो हि नदीप्रवाहवन्मनुष्यगतिं न प्रतिबध्नाति ; ततो वश्यत्वम् ॥
11 गोरुल्ब्याः गोर्गर्भवेष्टनगता आपो गृह्णाति - ] शक्वरीस्स्थेति ॥ गर्भसंरक्षणे शक्ताश्शक्वर्यः । 'वा छन्दसि' इति पूर्वसवार्णदीर्घत्वम् ॥
12 पयो गृह्णाति - विश्वभृतस्स्थेति ॥ विश्वं बिभ्रति धारयन्ति वा पोषयन्ति वा विश्वभृतः, तद्रूपेण विवक्षितत्वात् बहुवचनं स्त्रीत्वं च ॥
13 दधि गृह्नाति - जनभृतस्स्थेति ॥ जनं बिभ्रर्तीति जनभृतः ॥
14 घृतं गृह्णाति - अग्नेस्तेजस्यास्स्थेति ॥ अग्नेस्तेजसा सहितास्तेजस्याः गवादिर्द्रष्टव्यः । तेजसो वा निमित्तभूतास्तेजस्याः । 'गोद्व्यचः' इति यत् । तेजसि वा भवाः ; तदर्थं व्यापृतत्वात् ॥
15 -16मधु गृह्णाति - अपामोषधीनां रसस्थेति ॥ अद्भ्य ओषधीभ्यश्च निष्पत्तेः ॥

इत्यष्टमे एकादशोनुवाकः ॥