अनुवाकः 11 TS 7.1.11

(A11)

(ध॒रुणः॒ - पञ्च॑विꣳशतिश्च)

अनुवाकः 11 - Complete Audio

TS 7.1.11 - स्वरानुगामी

0:00 0:00
PS1.1 दे॒वस्य॑त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र्बा॒हुभ्यां᳚ पू॒ष्णो
PS1.2 हस्ता᳚भ्या॒मा द॑द इ॒माम॑गृभ्णन् रश॒नामृ॒तस्य॒
PS1.3 पूर्व॒ आयु॑षि वि॒दथे॑षु क॒व्या
PS1.4 तया॑ दे॒वाः सु॒तमा ब॑भूवुर्
PS1.5 ऋ॒तस्य॒ सामन्थ᳚-स॒रमा॒रप॑न्ती
PS1.6 अ॒भि॒धा अ॑सि॒ भुव॑नमसि य॒न्ताऽसि॑
PS1.7 ध॒र्ताऽसि॒ सो᳚ऽग्निं ॅवै᳚श्वान॒रꣳ सप्र॑थसं
PS1.8 गच्छ॒ स्वाहा॑कृतः पृथि॒व्यां ॅय॒न्ता
PS1.9 राड् य॒न्ताऽसि॒ यम॑नो ध॒र्ताऽसि॑
PS1.10 ध॒रुणः॑ ( ) कृ॒ष्यै
PS1.11 त्वा॒ क्षेमा॑य त्वा र॒य्यै
PS1.12 त्वा॒ पोषा॑य त्वा पृथि॒व्यै
PS1.13 त्वा॒ ऽन्तरि॑क्षाय त्वा दि॒वे
PS1.14 त्वा॑ स॒ते त्वाऽस॑ते त्वा॒द्भ्यस्त्वौ-ष॑धीभ्यस्त्वा॒
PS1.15 विश्वे᳚भ्यस्त्वा भू॒तेभ्यः॑

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.1.11.1 TS 7.1.11.1
दे॒वस्य॑त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र्बा॒हुभ्यां᳚ पू॒ष्णो हस्ता᳚भ्या॒मा द॑द इ॒माम॑गृभ्णन् रश॒नामृ॒तस्य॒ पूर्व॒ आयु॑षि वि॒दथे॑षु क॒व्या । तया॑ दे॒वाः सु॒तमा ब॑भूवुर् ऋ॒तस्य॒ सामन्थ᳚-स॒रमा॒रप॑न्ती ॥अ॒भि॒धा अ॑सि॒ भुव॑नमसि य॒न्ताऽसि॑ ध॒र्ताऽसि॒ सो᳚ऽग्निं ॅवै᳚श्वान॒रꣳ सप्र॑थसं गच्छ॒ स्वाहा॑कृतः पृथि॒व्यां ॅय॒न्ता राड् य॒न्ताऽसि॒ यम॑नो ध॒र्ताऽसि॑ ध॒रुणः॑ ( ) कृ॒ष्यै त्वा॒ क्षेमा॑य त्वा र॒य्यै त्वा॒ पोषा॑य त्वा पृथि॒व्यै त्वा॒ ऽन्तरि॑क्षाय त्वा दि॒वे त्वा॑ स॒ते त्वाऽस॑ते त्वा॒द्भ्यस्त्वौ-ष॑धीभ्यस्त्वा॒ विश्वे᳚भ्यस्त्वा भू॒तेभ्यः॑ ॥
पदपाठः (Word-by-word)
दे॒वस्य॑ । त्वा॒ । स॒वि॒तुः । प्र॒स॒व इति॑ प्र - स॒वे । अ॒श्विनोः᳚ । बा॒हुभ्या॒मिति॑ बा॒हु - भ्या॒म् । पू॒ष्णः । हस्ता᳚भ्याम् । एति॑ । द॒दे॒ । इ॒माम् । अ॒गृ॒भ्ण॒न्न् । र॒श॒नाम् । ऋ॒तस्य॑ । पूर्वे᳚ । आयु॑षि । वि॒दथे॑षु । क॒व्या ॥ तया᳚ । दे॒वाः । सु॒तम् । एति॑ । ब॒भू॒वुः॒ । ऋ॒तस्य॑ । सामन्न्॑ । स॒रम् । आ॒रप॒न्तीत्या᳚ - रप॑न्ती ॥ अ॒भि॒धा इत्य॑भि - धाः । अ॒सि॒ । भुव॑नम् । अ॒सि॒ । य॒न्ता । अ॒सि॒ । ध॒र्ता । अ॒सि॒ । सः । अ॒ग्निम् । वै॒श्वा॒न॒रम् । सप्र॑थस॒मिति॒ स - प्र॒थ॒स॒म् । ग॒च्छ॒ । स्वाहा॑कृत॒ इति॒ स्वाहा᳚ - कृ॒तः॒ । पृ॒थि॒व्याम् । य॒न्ता । राट् । य॒न्ता । अ॒सि॒ । यम॑नः । ध॒र्ता । अ॒सि॒ । ध॒रुणः॑ ( ) । कृ॒ष्यै । त्वा॒ । क्षेमा॑य । त्वा॒ । र॒य्यै । त्वा॒ । पोषा॑य । त्वा॒ । पृ॒थि॒व्यै । त्वा॒ । अ॒न्तरि॑क्षाय । त्वा॒ । दि॒वे । त्वा॒ । स॒ते । त्वा॒ । अस॑ते । त्वा॒ । अ॒द्भ्य इत्य॑त् - भ्यः । त्वा॒ । ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ । त्वा॒ । विश्वे᳚भ्यः । त्वा॒ । भू॒तेभ्यः॑ ॥
पदसंख्या: 75
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 इत ऊर्ध्वमश्वमेधमन्त्राः । तत्र रशनामादत्ते - देवस्य त्वेति ।। व्याख्यातं दर्शपूर्णमासयोः । देवस्य सवितुराज्ञां लब्ध्वा अश्विनोरेव बाहुभ्यां नात्मीयाभ्यां पूष्णा एव हस्ताभ्यां त्वामाददे ।।
2 आदायाभिमन्त्रयते - इमामिति त्रिष्टुभा ।। इयमपि अग्निकाण्डे व्याख्याता । ऋतस्य यज्ञस्य रशानां बन्धनीयां पूर्वे कव्याः कवयः । यद्वा - कवनीयेषु स्तोतव्येषु विदथेषु यज्ञेषु आयुरर्थमगृह्णन् गृहीतवन्तः । या ऋतस्य यज्ञस्य सामन् साम्नि समाप्तौ सरं सरणं आरपन्ती अभिवदन्ती भवति । रपतिश्शब्दकर्मा । शीघ्रं मया यज्ञं संपादयतेति । तया हि देवास्सुतं सोममाबभूवुः आभिमुख्येन प्राप्नुवन् । तादृशीमिमां गृह्णामीति ।।
3 तया अश्वमभिदधाति - अभिधा असीति ।। अभिपूर्वो दधातिः बन्धने वर्तते, कर्मणि क्विप्, । बन्धनीयस्त्वमसि । अत एव सर्वं भुवनं सर्वं भूतजातं च त्वमसि । यज्ञसाधनत्वेन सर्वेषां धारकत्वात् । यन्ता यमयिता चासि सर्वस्य । अत एव धर्ता धारयिता चासि लोकस्य । स त्वं वैश्वानरं विश्वेषां नराणां स्वामित्वेन संबन्धिनं सप्रथसं प्रथसा विस्तरेण सहितं विश्वव्यापिनं अग्निं गच्छ । 'इयं वा अग्निर्वैश्वानरः' । स्वाहाकृतः स्वाहाकारेण संस्कृतः स्वाहाकारोच्चारणेन संस्कृतः । ब्राह्मणं च 'स्वाहाकृत इत्याह । होम एवास्यैषः ।' इति । स्वाहाशब्दस्योर्यादित्वेन गतित्वात् 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । निपाता आद्युदात्ताः । किञ्च - त्वमेव हि यन्ता नियन्ता मनुष्यादीनाम् । राट् दीप्यमानश्च पृथिव्यां अस्यामसि । अथ द्वितीयस्यामपि पृथिव्यां अन्तरिक्षे यन्ता नियन्ता ग्रहनक्षत्रादीनां च त्वमेवासि । यमनः यमसाधनभूतश्चासि । अथ तृतीयस्यामपि पृथिव्यां दिवि धर्ता धारयिता देवानां त्वमेवासि । धरुणो धारणशीलश्च त्वमेवासि । औणादिक उनप्रत्ययः । पृथिवीशब्दस्त्रिष्वपि लोकेषु वर्तते यथा - 'यो द्वितीयस्यां तृतीयस्यां पृथिव्याम्' इति ।।
4 अथैनमभिप्रोक्षणेन प्रोक्षति - कृष्यै त्वेत्यादि ।। कृष्याद्यर्थं त्वां प्रोक्षामीति । 'उदात्तयणः' इति विभक्तेरुदात्तत्वम्, 'ऊडिदम्' इति दिवः, अद्भ्यश्च । 'शतुरनुमः' इति सतः । 'ओषधेश्च विभक्तावप्रथमायाम्' इति ओषधिशब्दस्य संहितायां दीर्घत्वम् ।।
इति सप्तमे प्रथमे एकादशोनुवाकः ॥