अनुवाकः 16 TS 7.1.16

(A16)

(अ॒ग्नये॑ सवि॒त्रे पू॒ष्णे॑ऽपां मोदा॑य वा॒यवे॒ त्रयो॑विꣳशतिः)

अनुवाकः 16 - Complete Audio

TS 7.1.16 - स्वरानुगामी

0:00 0:00
PS1.1 अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॑
PS1.2 सवि॒त्रे स्वाहा॒ सर॑स्वत्यै॒ स्वाहा॑
PS1.3 पू॒ष्णे स्वाहा॒ बृह॒स्पत॑ये॒ स्वाहा॒
PS1.4 ऽपां मोदा॑य॒ स्वाहा॑ वा॒यवे॒
PS1.5 स्वाहा॑ मि॒त्राय॒ स्वाहा॒ वरु॑णाय॒
PS1.6 स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.1.16.1 TS 7.1.16.1
अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॑ सवि॒त्रे स्वाहा॒ सर॑स्वत्यै॒ स्वाहा॑ पू॒ष्णे स्वाहा॒ बृह॒स्पत॑ये॒ स्वाहा॒ ऽपां मोदा॑य॒ स्वाहा॑ वा॒यवे॒ स्वाहा॑ मि॒त्राय॒ स्वाहा॒ वरु॑णाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
अ॒ग्नये᳚ । स्वाहा᳚ । सोमा॑य । स्वाहा᳚ । स॒वि॒त्रे । स्वाहा᳚ । सर॑स्वत्यै । स्वाहा᳚ । पू॒ष्णे । स्वाहा᳚ । बृह॒स्पत॑ये । स्वाहा᳚ । अ॒पाम् । मोदा॑य । स्वाहा᳚ । वा॒यवे᳚ । स्वाहा᳚ । मि॒त्राय॑ । स्वाहा᳚ । वरु॑णाय । स्वाहा᳚ । सर्व॑स्मै । स्वाहा᳚ ॥
पदसंख्या: 23
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथोत्तरस्तोत्रीयाः - अग्नये स्वाहेति ।। स्पष्टाः । अत्र विशेषः - वाय्वपांमोदशब्दौ बृहस्पतिमित्रयोर्मध्ये द्रष्टव्यौ विपर्यस्तौ । इन्द्रस्य स्थाने पूषा भवति । पूर्वस्तोत्रियैः समानमन्यत् । उदात्तनिवृत्तिस्वरेण पूष्णो विभक्तेरुदात्तत्वम् । सर्वस्मै प्रजापत्यादये च ।।
इति सप्तमे प्रथमे षोडशोनुवाकः ॥