पञ्चशत् 1 #
आय॑नाय॒ स्वाहा॒ प्राय॑णाय॒ स्वाहो᳚द्द्रा॒वाय॒ स्वाहोद्द्रु॑ताय॒ स्वाहा॑ शूका॒राय॒ स्वाहा॒ शूकृ॑ताय॒ स्वाहा॒ पला॑यिताय॒ स्वाहा॒ ऽऽपला॑यिताय॒ स्वाहा॒ ऽऽवल्ग॑ते॒ स्वाहा॑ परा॒वल्ग॑ते॒ स्वाहा॑ ऽऽय॒ते स्वाहा᳚ प्रय॒ते स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
आय॑ना॒येत्या᳚ - अय॑नाय । स्वाहा᳚ । प्राय॑णा॒येति॑ प्र - अय॑नाय । स्वाहा᳚ । उ॒द्द्रा॒वायेत्यु॑त् - द्रा॒वाय॑ । स्वाहा᳚ । उद्द्रु॑ता॒येत्युत्-द्रु॒ता॒य॒ । स्वाहा᳚ । शू॒का॒रायेति॑ शू-का॒राय॑ । स्वाहा᳚ । शूकृ॑ता॒येति॒ शू-कृ॒ता॒य॒ । स्वाहा᳚ । पला॑यिताय । स्वाहा᳚ । आ॒पला॑यिता॒येत्या᳚ - पला॑यिताय । स्वाहा᳚ । आ॒वल्ग॑त॒ इत्या᳚ - वल्ग॑ते । स्वाहा᳚ । प॒रा॒वल्ग॑त॒ इति॑ परा - वल्ग॑ते । स्वाहा᳚ । आ॒य॒त इत्या᳚ - य॒ते । स्वाहा᳚ । प्र॒य॒त इति॑ प्र - य॒ते । स्वाहा᳚ । सर्व॑स्मै । स्वाहा᳚ ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ त्रयोदश ध्रुवा जुहोति - आयनाय स्वाहेत्यादि ।। आयनमागमनम्, प्रायणं प्रकृष्टगमनम्, गमनारम्भो वा । उभयत्रापि कृदुऽत्तरपदप्रकृतिस्वरत्वम् । उद्द्रावः - उत्प्लुत्य गमनम् । 'उदि श्रयति यौति' इत्यादिना करणे घञ् । द्रवणहेतुः शक्तिविशेषः उद्द्रावः । थाथादिनोत्तरपदान्तोदात्तत्वम् । उद्द्रुतमुत्प्लुत्य गतिः । 'गतिरन्तरः' इत्यकर्मण्यपि व्यत्ययेन गतेः प्रकृतिस्वरत्वम् । कर्मणोभिधानं वा । शूकारः उद्द्रवणहेतुरनुकरणशब्दः सादिना साधारणकाले यः क्रियते । कशाघातेन सहितश्शूत्कारः। तत्करणं शूकृतं 'अनुकरणं चानिति परं' इति गतित्वात्पूर्वत्र थाथादिस्वरः, उत्तरत्र गतिस्वरः । पलायितं शीघ्रगमनम् । 'उपसर्गस्यायतौ' इति लत्वम् । विकारत्वादनवग्रहः, पूर्ववद्गतिस्वरः । आपलायितं शीघ्रगमनम् । अनन्तरस्य गतेः प्रकतिस्वरत्वम् । आवल्गते आवल्गनं गतिविशेषः विक्रमणपर्यायः, तेन गतिविशेषेणागच्छते । परावल्गनेनापि गतिविशेषेणागच्छते । उभयत्रापि कृदुत्तरपदप्रकृतिस्वरत्वम् । जायते आयनकुशलाय । वर्तमानविवक्षायामेतेर्लट्, शत्रादेशः । 'इणो यण्' । प्रयते प्रयाणकुशलाय प्रकृष्टगमनकुशलाय । उभयत्रापि 'शतुरनुमः' इति चतुर्थ्या उदात्तत्वम् । सर्वस्मै अन्योपि यो गमनमकारोस्य दुर्निरूपः तस्मै सर्वस्मै स्वाहा । पूर्णाहुतिरियम् । 'सर्वस्य सुपि' इत्याद्युदात्तत्वम् ।।
इति सप्तमे प्रथमे त्रयोदशोनुवाकः ॥