अनुवाकः 13 TS 7.1.13

(A13)

(आय॑ना॒योत्त॑रमा॒पला॑यिताय॒ षड्विꣳ॑शतिः)

अनुवाकः 13 - Complete Audio

TS 7.1.13 - स्वरानुगामी

0:00 0:00
PS1.1 आय॑नाय॒ स्वाहा॒ प्राय॑णाय॒ स्वाहो᳚द्द्रा॒वाय॒
PS1.2 स्वाहोद्द्रु॑ताय॒ स्वाहा॑ शूका॒राय॒ स्वाहा॒
PS1.3 शूकृ॑ताय॒ स्वाहा॒ पला॑यिताय॒ स्वाहा॒
PS1.4 ऽऽपला॑यिताय॒ स्वाहा॒ ऽऽवल्ग॑ते॒ स्वाहा॑
PS1.5 परा॒वल्ग॑ते॒ स्वाहा॑ ऽऽय॒ते स्वाहा᳚
PS1.6 प्रय॒ते स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.1.13.1 TS 7.1.13.1
आय॑नाय॒ स्वाहा॒ प्राय॑णाय॒ स्वाहो᳚द्द्रा॒वाय॒ स्वाहोद्द्रु॑ताय॒ स्वाहा॑ शूका॒राय॒ स्वाहा॒ शूकृ॑ताय॒ स्वाहा॒ पला॑यिताय॒ स्वाहा॒ ऽऽपला॑यिताय॒ स्वाहा॒ ऽऽवल्ग॑ते॒ स्वाहा॑ परा॒वल्ग॑ते॒ स्वाहा॑ ऽऽय॒ते स्वाहा᳚ प्रय॒ते स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
आय॑ना॒येत्या᳚ - अय॑नाय । स्वाहा᳚ । प्राय॑णा॒येति॑ प्र - अय॑नाय । स्वाहा᳚ । उ॒द्द्रा॒वायेत्यु॑त् - द्रा॒वाय॑ । स्वाहा᳚ । उद्द्रु॑ता॒येत्युत्-द्रु॒ता॒य॒ । स्वाहा᳚ । शू॒का॒रायेति॑ शू-का॒राय॑ । स्वाहा᳚ । शूकृ॑ता॒येति॒ शू-कृ॒ता॒य॒ । स्वाहा᳚ । पला॑यिताय । स्वाहा᳚ । आ॒पला॑यिता॒येत्या᳚ - पला॑यिताय । स्वाहा᳚ । आ॒वल्ग॑त॒ इत्या᳚ - वल्ग॑ते । स्वाहा᳚ । प॒रा॒वल्ग॑त॒ इति॑ परा - वल्ग॑ते । स्वाहा᳚ । आ॒य॒त इत्या᳚ - य॒ते । स्वाहा᳚ । प्र॒य॒त इति॑ प्र - य॒ते । स्वाहा᳚ । सर्व॑स्मै । स्वाहा᳚ ॥
पदसंख्या: 26
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ त्रयोदश ध्रुवा जुहोति - आयनाय स्वाहेत्यादि ।। आयनमागमनम्, प्रायणं प्रकृष्टगमनम्, गमनारम्भो वा । उभयत्रापि कृदुऽत्तरपदप्रकृतिस्वरत्वम् । उद्द्रावः - उत्प्लुत्य गमनम् । 'उदि श्रयति यौति' इत्यादिना करणे घञ् । द्रवणहेतुः शक्तिविशेषः उद्द्रावः । थाथादिनोत्तरपदान्तोदात्तत्वम् । उद्द्रुतमुत्प्लुत्य गतिः । 'गतिरन्तरः' इत्यकर्मण्यपि व्यत्ययेन गतेः प्रकृतिस्वरत्वम् । कर्मणोभिधानं वा । शूकारः उद्द्रवणहेतुरनुकरणशब्दः सादिना साधारणकाले यः क्रियते । कशाघातेन सहितश्शूत्कारः। तत्करणं शूकृतं 'अनुकरणं चानिति परं' इति गतित्वात्पूर्वत्र थाथादिस्वरः, उत्तरत्र गतिस्वरः । पलायितं शीघ्रगमनम् । 'उपसर्गस्यायतौ' इति लत्वम् । विकारत्वादनवग्रहः, पूर्ववद्गतिस्वरः । आपलायितं शीघ्रगमनम् । अनन्तरस्य गतेः प्रकतिस्वरत्वम् । आवल्गते आवल्गनं गतिविशेषः विक्रमणपर्यायः, तेन गतिविशेषेणागच्छते । परावल्गनेनापि गतिविशेषेणागच्छते । उभयत्रापि कृदुत्तरपदप्रकृतिस्वरत्वम् । जायते आयनकुशलाय । वर्तमानविवक्षायामेतेर्लट्, शत्रादेशः । 'इणो यण्' । प्रयते प्रयाणकुशलाय प्रकृष्टगमनकुशलाय । उभयत्रापि 'शतुरनुमः' इति चतुर्थ्या उदात्तत्वम् । सर्वस्मै अन्योपि यो गमनमकारोस्य दुर्निरूपः तस्मै सर्वस्मै स्वाहा । पूर्णाहुतिरियम् । 'सर्वस्य सुपि' इत्याद्युदात्तत्वम् ।।
इति सप्तमे प्रथमे त्रयोदशोनुवाकः ॥