पञ्चशत् 1 #
अङ्गि॑रसो॒ वै स॒त्रमा॑सत॒ ते सु॑व॒र्गं ॅलो॒कमा॑य॒न् तेषाꣳ॑ ह॒विष्माꣳ॑श्च हवि॒ष्कृच्चा॑ऽहीयेतां॒ ताव॑कामयेताꣳ सुव॒र्गं ॅलो॒कमि॑या॒वेति॒ तावे॒तं द्वि॑रा॒त्रम॑पश्यतां॒ तमाऽह॑रतां॒ तेना॑यजेतां॒ ततो॒ वै तौ सु॑व॒र्गं ॅलो॒कमै॑तां॒ ॅय ए॒वं ॅवि॒द्वान् द्वि॑रा॒त्रेण॒ यज॑ते सुव॒र्गमे॒व लो॒कमे॑ति॒ तावैतां॒ पूर्वे॒णाह्ना ऽग॑च्छता॒मुत्त॑रेणा - [ ]
पदपाठः (Word-by-word)
अङ्गि॑रसः । वै । स॒त्रम् । आ॒स॒त॒ । ते । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । आ॒य॒न्न् । तेषा᳚म् । ह॒विष्मान्॑ । च॒ । ह॒वि॒ष्कृदिति॑ हविः - कृत् । च॒ । अ॒ही॒ये॒ता॒म् । तौ । अ॒का॒म॒ये॒ता॒म् । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । इ॒या॒व॒ । इति॑ । तौ । ए॒तम् । द्वि॒रा॒त्रमिति॑ द्वि - रा॒त्रम् । अ॒प॒श्य॒ता॒म् । तम् । एति॑ । अ॒ह॒र॒ता॒म् । तेन॑ । अ॒य॒जे॒ता॒म् । ततः॑ । वै । तौ । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । ऐ॒ता॒म् । यः । ए॒वम् । वि॒द्वान् । द्वि॒रा॒त्रेणेति॑ द्वि - रा॒त्रेण॑ । यज॑ते । सु॒व॒र्गमिति॑ सुवः - गम् । ए॒व । लो॒कम् । ए॒ति॒ । तौ । ऐता᳚म् । पूर्वे॑ण । अह्ना᳚ । अग॑च्छताम् । उत्त॑रे॒णेत्युत् - त॒रे॒ण॒ ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 एवं सर्वेऽप्येकाहा विहिताः । द्विरात्रादयोप्यहीनाः क्रमेण विधीयन्ते । सर्वे चाहीनाः अन्यतरतोतिरात्रा भवन्ति । यदि चैवाहीनो यदि च सत्रं, उभयथैवोभयतोतिरात्रो द्वादशाहो भवति आदेशात् । 'अन्यथाऽहीनोपि उभयतोतिरात्रो भवति । सर्वमुत्तरत्र वक्ष्यते । अङ्गिरस इत्यादि ।। आसिरयमकर्मकः, सोस्मिन्विषये आस्थानकर्मेत्येके । यथा सत्रं भवति तथाऽऽसतेत्यन्ये । सत्रासनं सहासनं क्रतुविशेषस्याख्या, तदकुर्वतेत्यपरे ।। यथा 'प्रति प्रातिष्ठदध्वरे' इत्यादि । तेषां मध्ये हविष्मद्धविष्कृन्नामानौ अहीयेतां तस्मात्स्थानात्प्रच्युतौ । तावकामयेतामिति । चत्वारो द्विरात्राः व्युष्टिद्विरात्राङ्गिरसकपिवन चेत्ररथनामानः । तत्रैतमित्याङ्गिरसं निर्दिशति इतरनिवृत्त्यर्थम् । तमाहरतां इष्टसाधन त्वेन गृहीतवन्तौ, तेनायजेतां इष्टं साधितवन्तौ । यद्वा - तमाहरतां तमारभेतां तेन अयजेतां देवान् पूजितवन्तौ ततस्स्वर्गं गतौ । ऐतां स्वर्गार्थं प्रस्थितौ, अगच्छतां स्वर्गं प्राप्तवन्तौ । अभिप्लवः षडहस्याद्यमहः अस्य पूर्वमहर्भवति । गतिरुत्तरमिति । अष्टमोतिरात्रविशेषः उत्तरमहर्भवति ।।
2 तयोः स्तोमविधानार्थमाह - ज्योतिष्टोमः त्रिवृदादिस्तोमचतुष्टयवानग्निष्टोमः अग्निष्टोमसामान्तं पूर्वमहर्भवति । सर्वस्तोमः सर्वसंस्थासंबन्धिस्तोमवानतिरात्रो द्वितीयमहर्भवति । यथोक्तं - 'चतुर्विंशाः पवमानाः पञ्चदशानि त्रीण्याज्यानि, सप्तदशमच्छावाकस्य एकविंशानि त्रीणि पृष्ठानि, त्रिणव मच्छावाकस्य त्रयस्त्रिंशोग्निष्टोमसामानि एकविंशान्युक्थ्यानि सषोडशिकानि पञ्चदशी रात्रिः त्रिवृत्सन्धिः' इति ।।
3 गायत्रं गायत्रीप्रभवं पूर्वेऽह्नि साम भवति, त्रैष्टुभमुत्तरस्मिन्नह्नि । आज्ये त्रैष्टुभस्य साम्नोभावात् होतुराज्ये विधानम् । यथोक्तमाचार्येण - 'होतुराज्यं संपादयेत्' इति ।।
4 रथन्तरं बृहच्च पृष्ठेषु नियम्यते । तदाहुरिति । तत्र चोदयन्तीत्यर्थः । एते गायत्रीत्रिष्टुभौ दृष्टे । क्वेदानीं जगत्यनुष्टुभौ द्रष्टव्ये इति ।।
5 परिहरति - वैखानसमिति ।। पृष्ठेपु बार्हतं साम वैखानसं भवति बृहतीचतुरभ्यासात् षट्त्रिंशदक्षरा । तत्र चतस्रो जगत्यो भवन्ति । तेन जगत्यै जगत्या नैति न हीयते यज्ञः । षोडशीसाम गौरिवीतमुत्तरस्मिन्नह्नि भवति उक्थ्येभ्यः पुरस्तात् भवति । द्वे चानुष्टुभौ । तेनानुष्टुभो नैतीत्येव ।।
6 अथाहुः - यदि समाने एकस्मिन्नर्धमासे स्यातां द्वे अप्यहनी अन्यतरस्याह्नः वीर्यं फलसाधनसामर्थ्यं अनुपद्येत प्रसज्येत, एकमेवाहस्स्यादिति यावत् । तस्मादमावास्या यां पूर्वमहर्भवति । उत्तरस्मिन्यजनीयेऽह्नि द्वितीयमहर्भवति । एवं क्रियमाणे नानाभूतयोः पृथग्भूतयोरर्धमासयोः कृतौ भवतः । हविष्मन्निधनमिति । हविष्मच्छब्दवत् हविष्मत् निधनं स्तोमो यस्य तद्धविष्मन्निधनं पूर्वमहः । एवं हविष्कृन्निधनमुत्तरमहः । तत्प्रतिष्ठित्यै भवति द्रष्टृभ्यां संबन्धेन अह्नोस्स्थिरत्वं भवति । एतेनाङ्गिरसेन सर्वे द्विरात्रा व्याख्याताः ।।
इति सप्तमे प्रथमे चतुर्थोनुवाकः ॥