अनुवाकः 4 TS 7.1.4

(A4)

(उत्त॑रेण - रथन्त॒रं पूर्वे - ऽन्वे - क॑विꣳशतिश्च)

अनुवाकः 4 - Complete Audio

TS 7.1.4 - स्वरानुगामी

0:00 0:00
PS1.1 अङ्गि॑रसो॒ वै स॒त्रमा॑सत॒ ते
PS1.2 सु॑व॒र्गं ॅलो॒कमा॑य॒न् तेषाꣳ॑ ह॒विष्माꣳ॑श्च
PS1.3 हवि॒ष्कृच्चा॑ऽहीयेतां॒ ताव॑कामयेताꣳ सुव॒र्गं ॅलो॒कमि॑या॒वेति॒
PS1.4 तावे॒तं द्वि॑रा॒त्रम॑पश्यतां॒ तमाऽह॑रतां॒ तेना॑यजेतां॒
PS1.5 ततो॒ वै तौ सु॑व॒र्गं
PS1.6 ॅलो॒कमै॑तां॒ ॅय ए॒वं ॅवि॒द्वान्
PS1.7 द्वि॑रा॒त्रेण॒ यज॑ते सुव॒र्गमे॒व लो॒कमे॑ति॒
PS1.8 तावैतां॒ पूर्वे॒णाह्ना ऽग॑च्छता॒मुत्त॑रेणा -
PS1.9 [ ]
PS2.1 -भिप्ल॒वः पूर्व॒मह॑र्भवति॒ गति॒रुत्त॑रं॒ ज्योति॑ष्टोमोऽग्निष्टो॒मः
PS2.2 पूर्व॒मह॑र्भवति॒ तेज॒स्तेनाव॑ रुन्धे॒ सर्व॑स्तोमोऽतिरा॒त्र
PS2.3 उत्त॑रꣳ॒॒ सर्व॒स्याऽऽ*प्त्यै॒ सर्व॒स्याऽव॑रुद्ध्यै गाय॒त्रं
PS2.4 पूर्वेऽह॒न्थ्साम॑ भवति॒ तेजो॒ वै
PS2.5 गा॑य॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सं तेज॑
PS2.6 ए॒व ब्र॑ह्मवर्च॒समा॒त्मन् ध॑त्ते॒ त्रैष्टु॑भ॒मुत्त॑र॒
PS2.7 ओजो॒ वै वी॒र्यं॑ त्रि॒ष्टुगोज॑
PS2.8 ए॒व वी॒र्य॑मा॒त्मन् ध॑त्ते रथंत॒रं
PS2.9 पूर्वे॑ - [ ]
PS3.1 ऽह॒न्थ् साम॑ भवती॒यं ॅवै
PS3.2 र॑थन्त॒रम॒स्यामे॒व प्रति॑ तिष्ठति बृ॒हदुत्त॑रे॒ऽसौ
PS3.3 वै बृ॒हद॒मुष्या॑मे॒व प्रति॑ तिष्ठति॒
PS3.4 तदा॑हुः॒ क्व॑ जग॑ती चाऽनु॒ष्टुप्
PS3.5 चेति॑ वैखान॒सं पूर्वेऽह॒न्थ् साम॑
PS3.6 भवति॒ तेन॒ जग॑त्यै॒ नैति॑
PS3.7 षोड॒श्युत्त॑रे॒ तेना॑नु॒ष्टुभोऽथा॑ ऽऽ*हु॒र्यथ् स॑मा॒ने᳚ऽर्द्धमा॒से
PS3.8 स्याता॑-मन्यत॒रस्याह्नो॑ वी॒र्य॑मनु॑ ( )
PS3.9 पद्ये॒तेत्य॑-मावा॒स्या॑यां॒ पूर्व॒मह॑-र्भव॒त्युत्त॑रस्मि॒-न्नुत्त॑रं॒ नानै॒वा ऽर्द्ध॑मा॒सयो᳚र्भवतो॒
PS3.10 नाना॑वीर्ये भवतो ह॒विष्म॑न्निधनं॒ पूर्व॒मह॑र्भवति
PS3.11 हवि॒ष्कृन्नि॑धन॒-मुत्त॑रं॒ प्रति॑ष्ठित्यै

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.1.4.1 TS 7.1.4.1
अङ्गि॑रसो॒ वै स॒त्रमा॑सत॒ ते सु॑व॒र्गं ॅलो॒कमा॑य॒न् तेषाꣳ॑ ह॒विष्माꣳ॑श्च हवि॒ष्कृच्चा॑ऽहीयेतां॒ ताव॑कामयेताꣳ सुव॒र्गं ॅलो॒कमि॑या॒वेति॒ तावे॒तं द्वि॑रा॒त्रम॑पश्यतां॒ तमाऽह॑रतां॒ तेना॑यजेतां॒ ततो॒ वै तौ सु॑व॒र्गं ॅलो॒कमै॑तां॒ ॅय ए॒वं ॅवि॒द्वान् द्वि॑रा॒त्रेण॒ यज॑ते सुव॒र्गमे॒व लो॒कमे॑ति॒ तावैतां॒ पूर्वे॒णाह्ना ऽग॑च्छता॒मुत्त॑रेणा - [ ]
पदपाठः (Word-by-word)
अङ्गि॑रसः । वै । स॒त्रम् । आ॒स॒त॒ । ते । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । आ॒य॒न्न् । तेषा᳚म् । ह॒विष्मान्॑ । च॒ । ह॒वि॒ष्कृदिति॑ हविः - कृत् । च॒ । अ॒ही॒ये॒ता॒म् । तौ । अ॒का॒म॒ये॒ता॒म् । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । इ॒या॒व॒ । इति॑ । तौ । ए॒तम् । द्वि॒रा॒त्रमिति॑ द्वि - रा॒त्रम् । अ॒प॒श्य॒ता॒म् । तम् । एति॑ । अ॒ह॒र॒ता॒म् । तेन॑ । अ॒य॒जे॒ता॒म् । ततः॑ । वै । तौ । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । ऐ॒ता॒म् । यः । ए॒वम् । वि॒द्वान् । द्वि॒रा॒त्रेणेति॑ द्वि - रा॒त्रेण॑ । यज॑ते । सु॒व॒र्गमिति॑ सुवः - गम् । ए॒व । लो॒कम् । ए॒ति॒ । तौ । ऐता᳚म् । पूर्वे॑ण । अह्ना᳚ । अग॑च्छताम् । उत्त॑रे॒णेत्युत् - त॒रे॒ण॒ ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 एवं सर्वेऽप्येकाहा विहिताः । द्विरात्रादयोप्यहीनाः क्रमेण विधीयन्ते । सर्वे चाहीनाः अन्यतरतोतिरात्रा भवन्ति । यदि चैवाहीनो यदि च सत्रं, उभयथैवोभयतोतिरात्रो द्वादशाहो भवति आदेशात् । 'अन्यथाऽहीनोपि उभयतोतिरात्रो भवति । सर्वमुत्तरत्र वक्ष्यते । अङ्गिरस इत्यादि ।। आसिरयमकर्मकः, सोस्मिन्विषये आस्थानकर्मेत्येके । यथा सत्रं भवति तथाऽऽसतेत्यन्ये । सत्रासनं सहासनं क्रतुविशेषस्याख्या, तदकुर्वतेत्यपरे ।। यथा 'प्रति प्रातिष्ठदध्वरे' इत्यादि । तेषां मध्ये हविष्मद्धविष्कृन्नामानौ अहीयेतां तस्मात्स्थानात्प्रच्युतौ । तावकामयेतामिति । चत्वारो द्विरात्राः व्युष्टिद्विरात्राङ्गिरसकपिवन चेत्ररथनामानः । तत्रैतमित्याङ्गिरसं निर्दिशति इतरनिवृत्त्यर्थम् । तमाहरतां इष्टसाधन त्वेन गृहीतवन्तौ, तेनायजेतां इष्टं साधितवन्तौ । यद्वा - तमाहरतां तमारभेतां तेन अयजेतां देवान् पूजितवन्तौ ततस्स्वर्गं गतौ । ऐतां स्वर्गार्थं प्रस्थितौ, अगच्छतां स्वर्गं प्राप्तवन्तौ । अभिप्लवः षडहस्याद्यमहः अस्य पूर्वमहर्भवति । गतिरुत्तरमिति । अष्टमोतिरात्रविशेषः उत्तरमहर्भवति ।।
2 तयोः स्तोमविधानार्थमाह - ज्योतिष्टोमः त्रिवृदादिस्तोमचतुष्टयवानग्निष्टोमः अग्निष्टोमसामान्तं पूर्वमहर्भवति । सर्वस्तोमः सर्वसंस्थासंबन्धिस्तोमवानतिरात्रो द्वितीयमहर्भवति । यथोक्तं - 'चतुर्विंशाः पवमानाः पञ्चदशानि त्रीण्याज्यानि, सप्तदशमच्छावाकस्य एकविंशानि त्रीणि पृष्ठानि, त्रिणव मच्छावाकस्य त्रयस्त्रिंशोग्निष्टोमसामानि एकविंशान्युक्थ्यानि सषोडशिकानि पञ्चदशी रात्रिः त्रिवृत्सन्धिः' इति ।।
3 गायत्रं गायत्रीप्रभवं पूर्वेऽह्नि साम भवति, त्रैष्टुभमुत्तरस्मिन्नह्नि । आज्ये त्रैष्टुभस्य साम्नोभावात् होतुराज्ये विधानम् । यथोक्तमाचार्येण - 'होतुराज्यं संपादयेत्' इति ।।
4 रथन्तरं बृहच्च पृष्ठेषु नियम्यते । तदाहुरिति । तत्र चोदयन्तीत्यर्थः । एते गायत्रीत्रिष्टुभौ दृष्टे । क्वेदानीं जगत्यनुष्टुभौ द्रष्टव्ये इति ।।
5 परिहरति - वैखानसमिति ।। पृष्ठेपु बार्हतं साम वैखानसं भवति बृहतीचतुरभ्यासात् षट्त्रिंशदक्षरा । तत्र चतस्रो जगत्यो भवन्ति । तेन जगत्यै जगत्या नैति न हीयते यज्ञः । षोडशीसाम गौरिवीतमुत्तरस्मिन्नह्नि भवति उक्थ्येभ्यः पुरस्तात् भवति । द्वे चानुष्टुभौ । तेनानुष्टुभो नैतीत्येव ।।
6 अथाहुः - यदि समाने एकस्मिन्नर्धमासे स्यातां द्वे अप्यहनी अन्यतरस्याह्नः वीर्यं फलसाधनसामर्थ्यं अनुपद्येत प्रसज्येत, एकमेवाहस्स्यादिति यावत् । तस्मादमावास्या यां पूर्वमहर्भवति । उत्तरस्मिन्यजनीयेऽह्नि द्वितीयमहर्भवति । एवं क्रियमाणे नानाभूतयोः पृथग्भूतयोरर्धमासयोः कृतौ भवतः । हविष्मन्निधनमिति । हविष्मच्छब्दवत् हविष्मत् निधनं स्तोमो यस्य तद्धविष्मन्निधनं पूर्वमहः । एवं हविष्कृन्निधनमुत्तरमहः । तत्प्रतिष्ठित्यै भवति द्रष्टृभ्यां संबन्धेन अह्नोस्स्थिरत्वं भवति । एतेनाङ्गिरसेन सर्वे द्विरात्रा व्याख्याताः ।।
इति सप्तमे प्रथमे चतुर्थोनुवाकः ॥
पञ्चशत् 2 #
TS 7.1.4.2 TS 7.1.4.2
-भिप्ल॒वः पूर्व॒मह॑र्भवति॒ गति॒रुत्त॑रं॒ ज्योति॑ष्टोमोऽग्निष्टो॒मः पूर्व॒मह॑र्भवति॒ तेज॒स्तेनाव॑ रुन्धे॒ सर्व॑स्तोमोऽतिरा॒त्र उत्त॑रꣳ॒॒ सर्व॒स्याऽऽ*प्त्यै॒ सर्व॒स्याऽव॑रुद्ध्यै गाय॒त्रं पूर्वेऽह॒न्थ्साम॑ भवति॒ तेजो॒ वै गा॑य॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सं तेज॑ ए॒व ब्र॑ह्मवर्च॒समा॒त्मन् ध॑त्ते॒ त्रैष्टु॑भ॒मुत्त॑र॒ ओजो॒ वै वी॒र्यं॑ त्रि॒ष्टुगोज॑ ए॒व वी॒र्य॑मा॒त्मन् ध॑त्ते रथंत॒रं पूर्वे॑ - [ ]
पदपाठः (Word-by-word)
अ॒भि॒प्ल॒व इत्य॑भि - प्ल॒वः । पूर्व᳚म् । अहः॑ । भ॒व॒ति॒ । गतिः॑ । उत्त॑र॒मित्युत् - त॒र॒म् । ज्योति॑ष्टोम॒ इति॒ ज्योति॑ - स्तो॒मः॒ । अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि-स्तो॒मः । पूर्व᳚म् । अहः॑ । भ॒व॒ति॒ । तेजः॑ । तेन॑ । अवेति॑ । रु॒न्धे॒ । सर्व॑स्तोम॒ इति॒ सर्व॑-स्तो॒मः॒ । अ॒ति॒रा॒त्र इत्य॑ति-रा॒त्रः । उत्त॑र॒मित्युत् - त॒र॒म् । सर्व॑स्य । आप्त्यै᳚ । सर्व॑स्य । अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । गा॒य॒त्रम् । पूर्वे᳚ । अहन्न्॑ । साम॑ । भ॒व॒ति॒ । तेजः॑ । वै । गा॒य॒त्री । गा॒य॒त्री । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । तेजः॑ । ए॒व । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । आ॒त्मन्न् । ध॒त्ते॒ । त्रैष्टु॑भम् । उत्त॑र॒ इत्युत् - त॒रे॒ । ओजः॑ । वै । वी॒र्य᳚म् । त्रि॒ष्टुक् । ओजः॑ । ए॒व । वी॒र्य᳚म् । आ॒त्मन्न् । ध॒त्ते॒ । र॒थ॒न्त॒रमिति॑ रथं - त॒रम् । पूर्वे᳚ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 7.1.4.3 TS 7.1.4.3
ऽह॒न्थ् साम॑ भवती॒यं ॅवै र॑थन्त॒रम॒स्यामे॒व प्रति॑ तिष्ठति बृ॒हदुत्त॑रे॒ऽसौ वै बृ॒हद॒मुष्या॑मे॒व प्रति॑ तिष्ठति॒ तदा॑हुः॒ क्व॑ जग॑ती चाऽनु॒ष्टुप् चेति॑ वैखान॒सं पूर्वेऽह॒न्थ् साम॑ भवति॒ तेन॒ जग॑त्यै॒ नैति॑ षोड॒श्युत्त॑रे॒ तेना॑नु॒ष्टुभोऽथा॑ ऽऽ*हु॒र्यथ् स॑मा॒ने᳚ऽर्द्धमा॒से स्याता॑-मन्यत॒रस्याह्नो॑ वी॒र्य॑मनु॑ ( ) पद्ये॒तेत्य॑-मावा॒स्या॑यां॒ पूर्व॒मह॑-र्भव॒त्युत्त॑रस्मि॒-न्नुत्त॑रं॒ नानै॒वा ऽर्द्ध॑मा॒सयो᳚र्भवतो॒ नाना॑वीर्ये भवतो ह॒विष्म॑न्निधनं॒ पूर्व॒मह॑र्भवति हवि॒ष्कृन्नि॑धन॒-मुत्त॑रं॒ प्रति॑ष्ठित्यै ॥
पदपाठः (Word-by-word)
अहन्न्॑ । साम॑ । भ॒व॒ति॒ । इ॒यम् । वै । र॒थ॒न्त॒रमिति॑ रथं - त॒रम् । अ॒स्याम् । ए॒व । प्रतीति॑ । ति॒ष्ठ॒ति॒ । बृ॒हत् । उत्त॑र॒ इत्युत् - त॒रे॒ । अ॒सौ । वै । बृ॒हत् । अ॒मुष्या᳚म् । ए॒व । प्रतीति॑ । ति॒ष्ठ॒ति॒ । तत् । आ॒हुः॒ । क्व॑ । जग॑ती । च॒ । अ॒नु॒ष्टुबित्य॑नु - स्तुप् । च॒ । इति॑ । वै॒खा॒न॒सम् । पूर्वे᳚ । अहन्न्॑ । साम॑ । भ॒व॒ति॒ । तेन॑ । जग॑त्यै । न । ए॒ति॒ । षो॒ड॒शि । उत्त॑र॒ इत्युत् - त॒रे॒ । तेन॑ । अ॒नु॒ष्टुभ॒ इत्य॑नु - स्तुभः॑ । अथ॑ । आ॒हुः॒ । यत् । स॒मा॒ने । अ॒द्‌र्ध॒मा॒स इत्य॑द्‌र्ध - मा॒से । स्याता᳚म् । अ॒न्य॒त॒रस्य॑ । अह्नः॑ । वी॒र्य᳚म् । अन्विति॑ ( ) । प॒द्ये॒त॒ । इति॑ । अ॒मा॒वा॒स्या॑या॒मित्य॑मा - वा॒स्या॑याम् । पूर्व᳚म् । अहः॑ । भ॒व॒ति॒ । उत्त॑रस्मि॒न्नित्युत् - त॒र॒स्मि॒न्न् । उत्त॑र॒मित्युत् - त॒र॒म् । नाना᳚ । ए॒व । अ॒द्‌र्ध॒मा॒सयो॒रित्य॑द्‌र्ध - मा॒सयोः᳚ । भ॒व॒तः॒ । नाना॑वीर्ये॒ इति॒ नाना᳚ - वी॒र्ये॒ । भ॒व॒तः॒ । ह॒विष्म॑न्निधन॒मिति॑ ह॒विष्म॑त् - नि॒ध॒न॒म् । पूर्व᳚म् । अहः॑ । भ॒व॒ति॒ । ह॒वि॒ष्कृन्नि॑धन॒मिति॑ हवि॒ष्कृत् - नि॒ध॒न॒म् । उत्त॑र॒मित्युत् - त॒र॒म् । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ॥
पदसंख्या: 71