पञ्चशत् 1 #
ई॒कां॒राय॒ स्वाहें कृ॑ताय॒ स्वाहा॒ क्रन्द॑ते॒ स्वाहा॑ ऽव॒क्रन्द॑ते॒ स्वाहा॒ प्रोथ॑ते॒ स्वाहा᳚ प्र॒प्रोथ॑ते॒ स्वाहा॑ ग॒न्धाय॒ स्वाहा᳚ घ्रा॒ताय॒ स्वाहा᳚ प्रा॒णाय॒ स्वाहा᳚ व्या॒नाय॒ स्वाहा॑ ऽपा॒नाय॒ स्वाहा॑ सन्दी॒यमा॑नाय॒ स्वाहा॒ सन्दि॑ताय॒ स्वाहा॑ विचृ॒त्यमा॑नाय॒ स्वाहा॒ विचृ॑त्ताय॒ स्वाहा॑ पलायि॒ष्यमा॑णाय॒ स्वाहा॒ पला॑यिताय॒ स्वाहो॑परꣳस्य॒ते स्वाहोप॑रताय॒ स्वाहा॑ निवेक्ष्य॒ते स्वाहा॑ निवि॒शमा॑नाय॒ स्वाहा॒ निवि॑ष्टाय॒ स्वाहा॑ निषथ्स्य॒ते स्वाहा॑ नि॒षीद॑ते॒ स्वाहा॒ निष॑ण्णाय॒ स्वाहा॑ - [ ]
पदपाठः (Word-by-word)
ई॒कां॒रायेती᳚म् - का॒राय॑ । स्वाहा᳚ । ईकृं॑ता॒येती᳚म् - कृ॒ता॒य॒ । स्वाहा᳚ । क्रन्द॑ते । स्वाहा᳚ । अ॒व॒क्रन्द॑त॒ इत्य॑व - क्रन्द॑ते । स्वाहा᳚ । प्रोथ॑ते । स्वाहा᳚ । प्र॒प्रोथ॑त॒ इति॑ प्र - प्रोथ॑ते । स्वाहा᳚ । ग॒न्धाय॑ । स्वाहा᳚ । घ्रा॒ताय॑ । स्वाहा᳚ । प्रा॒णायेति॑ प्र - अ॒नाय॑ । स्वाहा᳚ । व्या॒नायेति॑ वि - अ॒नाय॑ । स्वाहा᳚ । अ॒पा॒नायेत्य॑प - अ॒नाय॑ । स्वाहा᳚ । स॒दीं॒यमा॑ना॒येति॑ सं-दी॒यमा॑नाय । स्वाहा᳚ । संदि॑ता॒येति॒ सं-दि॒ता॒य॒ । स्वाहा᳚ । वि॒चृ॒त्यमा॑ना॒येति॑ वि - चृ॒त्यमा॑नाय । स्वाहा᳚ । विचृ॑त्ता॒येति॒ वि - चृ॒त्ता॒य॒ । स्वाहा᳚ । प॒ला॒यि॒ष्यमा॑णाय । स्वाहा᳚ । पला॑यिताय । स्वाहा᳚ । उ॒प॒रꣳ॒॒स्य॒त इत्यु॑प - रꣳ॒॒स्य॒ते । स्वाहा᳚ । उप॑रता॒येत्युप॑ - र॒ता॒य॒ । स्वाहा᳚ । नि॒वे॒क्ष्य॒त इति॑ नि - वे॒क्ष्य॒ते । स्वाहा᳚ । नि॒वि॒शमा॑ना॒येति॑ नि - वि॒शमा॑नाय । स्वाहा᳚ । निवि॑ष्टा॒येति॒ नि - वि॒ष्टा॒य॒ । स्वाहा᳚ । नि॒ष॒थ्स्य॒त इति॑ नि - स॒थ्स्य॒ते । स्वाहा᳚ । नि॒षीद॑त॒ इति॑ नि - सीद॑ते । स्वाहा᳚ । निष॑ण्णा॒येति॒ नि - स॒न्ना॒य॒ । स्वाहा᳚ ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 -11अथ पुरस्तात्स्विष्टकृतः त्र्यशीतिमश्वचरितान्युपजुहोति - ईंकारायेति ।। ईमित्यनुकरणशब्दस्सन्नाहादौ क्रियते अश्वेन । 'अनुकरणं चानितिपरम्' इतिगतित्वात्थाथादिस्वरः । निवर्तमानावस्थ उच्यते । ईंकृतः स एव निवृत्तावस्थ उच्यते । पूर्ववद्गतित्वात् 'गतिरनन्तरः' इति तस्य प्रकृतिस्वरत्वम् । क्रन्दते उच्चैर्हेषमाणाय । अवक्रन्दते अवाङ्मुखं निभृतं घोषमाणाय । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः, उत्तरत्र कृदुत्तरपदप्रकृतिस्वरत्वम् । प्रोथते नासापुटाभ्यां शब्दं विस्तारयते । प्रप्रोथते उपर्युपरि तथाकुर्वते । प्रोथृ पर्याप्तौ, स एव स्वरः । गन्धाय गन्धयित्रे गन्धं गृह्णते । गन्ध अर्दने, पचाद्यच् । घ्राताय घ्रातवते । घ्रा गन्धोपादाने, व्यत्ययेन कर्तरि निष्ठा । मत्त्वर्थीयो वा लुप्यते । 'नुदविदोन्दत्राघ्रा' इति निष्ठानत्वाभावः पाक्षिकः । प्राणव्यानापाना व्याख्याताः । पचाद्यजन्ताः । द्वितीयस्य छान्दसं सांहितिकं दीर्घत्वम्, प्रातिशाख्ये चोक्तं - 'व्युत्पूर्व आननुदात्तोनूष्मवति' इति ।।
12 -22सन्दीयमानाय नियम्यमानाय । दो अवखण्डने, संपूर्वो बन्धवनकर्मा, 'घुमास्थागापा' इति सूत्रेणेत्वम् । सन्दिताय बद्धाय । 'द्यतिस्यति' इत्यादिना इत्वं, पूर्ववल्लसार्वधातुकानुदात्तत्वे गतिस्वरौ । विचृत्यमानाय विमुच्यमानाय । विचृत्ताय विमुक्ताय । चृती हिंसादौ, 'श्वीदितोनिष्ठायाम्' इतीट्प्रतिषेधः, पूर्ववत्स्वरौ । पलायिष्यमाणाय हविर्भूत्वा शीध्रं देवसकाशं प्राप्स्यते । अय गतौ, 'उपसर्गस्यायतौ' इति लत्वम् । पलायिताय देवसकाशं प्राप्ताय । तावेव स्वरौ । उपरंस्यते मनुष्यलोकं हित्वा देवसकाशे रन्तुं यास्यते । 'उपाच्च' इति रमतेः परस्मैपदम्, 'शतुरनुमः' इति विभकेरुदात्तत्वम् । उपरताय देवसकाशं गतवते । पूर्ववद्गतिस्वरः । निवेक्ष्यते देवान् प्रवेक्ष्यते । अतः परं त्रिकालवर्तिचरितग्रहणम् । 'शतुरनुमः' इनि विभक्तेरुदात्तत्वम् । निविशमानाय । 'नेर्विशः' इत्यात्मनेपदम् । पूर्ववद्व्यत्ययेन कुतः सतिशिष्टस्वरः । निविष्टाय । कर्तरि निष्ठा । तत्र व्यत्ययेन गतेः प्रकृतिस्वरत्वम् ।।
23 -34निषत्स्यते । निषीदनं आसनाधिकरणावस्थानपरिग्रहः । 'सदिरप्रतेः' इति षत्वम् । निषीदते पाघ्रादिना सीदादेशः । निषण्णाय 'रदाभ्यां' इति निष्ठानत्वम् । सर्वत्रोक्त एव स्वरः । आसिष्यते इत्यादि । गतम् । आसीनाय । अनुदात्तेत्त्वाल्लसार्वधातुकानुदात्तत्वम् । निपत्स्यते निपतनं शयनाधिकरणस्थानपरिग्रहः । व्यत्ययेनैव परस्मैपदम् । निपद्यमानाय । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे श्यनो नित्त्वात् 'ञ्नित्यादिर्नित्यम्' इत्याद्युदात्तत्वम्, उक्तमन्यत् । शयिष्यते । स्वरपरस्मैपदे उक्ते । शयानाय । ङित्वाल्लसार्वधातुकानुदात्तत्वम् ।।
35 -46सम्मीलिष्यते इत्यादि ।। गतम् । स्वप्स्यते बाह्यकरणोपरमः स्वापः । गतमन्यत् । प्रभोत्स्यते । 'एकाचः' इति भष्भावः । प्रबुद्ध्यमानाय जागरिष्यते । गतम् । जाग्रते । 'जक्षि' इत्यादिना अभ्यस्तसंज्ञत्वात् 'अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । जागरिताय । 'जाग्रोऽविचिण्णल्ङित्सु' इति गुणः ।।
47 -58शुश्रूषमाणाय जागरित्वा शब्दं श्रोतुमिच्छते । पूर्ववदाद्युदात्तत्वम् । 'ज्ञाश्रुस्मृदृशाम्' इत्यात्मनेपदम् । उत्तरे गते । वीक्षिष्यते इत्यादि । गतम् । संहास्यत इत्यादि । गतम् । संहासनं बाह्येन्द्रियाणां स्वैस्स्वैर्विषयैस्संयोगः । ओहाङ् गतौ । संजिहानाय । 'भृञामित्' इतीत्वम् । उज्जिहानाय कार्येषूद्योगं कुर्वते । उक्ते स्वरपरस्मैपदे । विवर्त्स्यते । विवर्तनं शयनस्थानत्यागः । ' वृद्भ्यस्स्यसनोः' इति परस्मैपदम् । 'न वृद्ब्यश्चतुर्भ्यः' इतीडभावः । उक्तमन्यत् । विवृत्ताय । 'उदितो वा' इति विभाषितेट् 'यस्य विभाषा' इतीट्प्रतिषेधः ।।
59 -70उत्थास्यते । 'उदस्स्थास्तम्भ्वोः' इति पूर्वरूपता । विधविष्यते । विधवनं देहस्य कम्पनम् । विधून्वानाय । धूञ् कम्पने, क्रैयादिकः, व्यत्ययेन श्नुः, कृदुत्तरपदप्रकतिस्वरत्वे शानच्स्वरः सतिशिष्टोपि विकरणस्वरः लसार्वधातुकस्वरेण बाध्यते । उत्क्रंस्यते । उत्क्रमणं शिरःकम्पनम्, व्यत्ययेनेडभावः । गतमन्यत् । चङ्क्रमिष्यते । चङ्क्रमणं पुनःपुनः क्रमणं सातत्येन गमनम् । यङन्ताल्ल्युटि 'यस्य हलः' इति यलोपः ।।
70 -80कण्डूयिष्यते । दर्पनिमित्ता कण्डूया । कण्ड्वादिभ्यो यक् । निकषिष्यते । निकषणं काष्ठादिषु शरीरस्य । कष हिंसायाम् । निकषमाणाय । व्यत्ययेनात्मनेपदम् । गतमन्यत् । यदत्ति येन सामर्थ्येन अदनं करोति तस्मै स्वाहा । तस्मा एव वा अदनाय । एवं पानादिषु द्रष्टव्यम् ।।
81 -84रेतसे रेतस्सेचनकर्मणे । प्रजाभ्यः प्रजोत्पादनसामथ्यार्य । प्रजननाय प्रजननेन्द्रियाय । सर्वस्मै अनुक्तमन्यदपि चरितमश्वस्य हासरोदनादि तस्मै सर्वस्मै स्वाहा ।।
इति सप्तमे प्रथमे एकोनविंशोनुवाकः ॥