पञ्चशत् 1 #
प्रा॒त॒स्स॒व॒ने वै गा॑य॒त्रेण॒ छन्द॑सा त्रि॒वृते॒ स्तोमा॑य॒ ज्योति॒र्दध॑देति त्रि॒वृता᳚ ब्रह्मवर्च॒सेन॑ पञ्चद॒शाय॒ ज्योति॒र्दध॑देति पञ्चद॒शेनौज॑सा वी॒र्ये॑ण सप्तद॒शाय॒ ज्योति॒र्दध॑देति सप्तद॒शेन॑ प्राजाप॒त्येन॑ प्र॒जन॑नेनैकविꣳ॒॒शाय॒ ज्योति॒र्दध॑देति॒ स्तोम॑ ए॒व तथ् स्तोमा॑य॒ ज्योति॒र्दध॑दे॒त्यथो॒ स्तोम॑ ए॒व स्तोम॑म॒भि प्र ण॑यति॒ याव॑न्तो॒ वै स्तोमा॒स्ताव॑न्तः॒ कामा॒स्ताव॑न्तो लो॒का ( ) -स्ताव॑न्ति॒ ज्योतीꣳ॑ष्ये॒ताव॑त ए॒व स्तोमा॑ने॒ताव॑तः॒ कामा॑ने॒ताव॑तो लो॒काने॒ताव॑न्ति॒ ज्योतीꣳ॒॒ष्यव॑ रुन्धे ॥
पदपाठः (Word-by-word)
प्रा॒त॒स्स॒व॒न इति॑ प्रातः - स॒व॒ने । वै । गा॒य॒त्रेण॑ । छन्द॑सा । त्रि॒वृत॒ इति॑ त्रि - वृते᳚ । स्तोमा॑य । ज्योतिः॑ । दध॑त् । ए॒ति॒ । त्रि॒वृतेति॑ त्रि - वृता᳚ । ब्र॒ह्म॒व॒र्च॒सेनेति॑ ब्रह्म - व॒र्च॒सेन॑ । प॒ञ्च॒द॒शायेति॑ पञ्च - द॒शाय॑ । ज्योतिः॑ । दध॑त् । ए॒ति॒ । प॒ञ्च॒द॒शेनेति॑ पञ्च-द॒शेन॑ । ओज॑सा । वी॒र्ये॑ण । स॒प्त॒द॒शायेति॑ सप्त - द॒शाय॑ । ज्योतिः॑ । दध॑त् । ए॒ति॒ । स॒प्त॒द॒शेनेति॑ सप्त - द॒शेन॑ । प्रा॒जा॒प॒त्येनेति॑ प्राजा - प॒त्येन॑ । प्र॒जन॑ने॒नेति॑ प्र - जन॑नेन । ए॒क॒विꣳ॒॒शायेत्ये॑क - विꣳ॒॒शाय॑ । ज्योतिः॑ । दध॑त् । ए॒ति॒ । स्तोमः॑ । ए॒व । तत् । स्तोमा॑य । ज्योतिः॑ । दध॑त् । ए॒ति॒ । अथो॒ इति॑ । स्तोमे᳚ । ए॒व । स्तोम᳚म् । अ॒भि । प्रेति॑ । न॒य॒ति॒ । याव॑न्तः । वै । स्तोमाः᳚ । ताव॑न्तः । कामाः᳚ । ताव॑न्तः । लो॒काः ( ) । ताव॑न्ति । ज्योतीꣳ॑षि । ए॒ताव॑तः । ए॒व । स्तोमान्॑ । ए॒ताव॑तः । कामान्॑ । ए॒ताव॑तः । लो॒कान् । ए॒ताव॑न्ति । ज्योतीꣳ॑षि । अवेति॑ । रु॒न्धे॒ ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 इदानीं पुरुषमिव प्राणाः त्रिवृदादयो यज्ञाङ्गसाहित्येन भवन्तीति प्रतिपादयितुमाह - प्रातस्सवन इत्यादि ।। अयं यज्ञः प्रातस्सवने गायत्रोग छन्दसा त्रिवृत्सम्बन्धिना ज्योतिर्दीप्तिं दधत् त्रिवृते स्तोमाय गच्छति त्रिवृत्सकाशं गच्छति गायत्रत्वात्प्रातस्सवनस्य । गायत्र्येव गायत्रम् । 'छन्दसः प्रत्ययविधाने नपुंसके स्वार्थ उपसंख्यानम्' इत्ययम् । छन्दोग्रहणं सामनिवृत्त्यर्थम् । 'क्रियाग्रहणं कर्तव्यम्' इति कर्मणस्सम्प्रदानत्वम् । यावत्त्रिवृद्गायत्र्यन्वयाज्ज्योतिष्मान् भवति यज्ञः ततस्त्रिवृता ब्रह्मवर्चसनिमित्तेन ज्योतिर्दधत् पञ्चदशाय स्तोमायैति । ओजोवीर्यहेतुना पञ्चदशेन ज्योतिर्दधत् सप्तदशायैति । ततः प्रजननहेतुना प्राजापत्येन सप्तदशेन ज्योतिर्दधत् एकविंशायैति । तस्मात्स्तोम एव भूत्वा ज्योतिर्दधदयं यज्ञः स्तोमायोत्तरस्मै एति । अथो अपि च अयमेव यज्ञः स्तोमे पञ्चदशादिके स्तोमं त्रिवृदादिकमभि प्रणयति आभिमुख्येन नयति अतस्स्तोमाधनिमस्य सर्वफलसाधनत्वामिति ।।
2 तदेवाह - यावन्त इत्यादि ।। यावन्तो यावत्परिमाणास्स्तोमाः तावन्ति कामलोकज्योतींषि तत्रैव समाप्तानि । कामाः धनपुत्रादयः । लोकाः स्वर्गादयः । ज्योतींषि तेजांसि ब्रह्मवर्चसादीनि । एतावत इत्यादि । एतावत्परिमाणान्यभिमतस्तोमादिनाऽरुन्धे लभते । एतत्स्तोमसाध्यानि सर्वाण्यपि एवमादीन्यवरुन्धे । तदेवाह - एतावत इत्यादि । एतत्स्तोमसाध्यानि सर्वाण्यपि कामलोकज्योतींषि अवरुन्धे इत्यर्थः । कः? पूर्वानुवाकशेषत्वात् 'योग्निष्टोमेन यजते' इति गम्यते ।।
इति सप्तमे प्रथमे द्वितीयोनुवाकः ॥