पञ्चशत् 1 #
अ॒ग्नये॒ स्वाहा॑ वा॒यवे॒ स्वाहा॒ सूर्या॑य॒ स्वाहा॒-र्तम॑स्यृ॒तस्य॒र्तम॑सि स॒त्यम॑सि स॒त्यस्य॑ स॒त्यम॑स्यृ॒तस्य॒ पन्था॑ असि दे॒वानां᳚ छा॒याऽमृत॑स्य॒ नाम॒ तथ् स॒त्यं ॅयत् त्वं प्र॒जाप॑ति॒रस्यधि॒ यद॑स्मिन् वा॒जिनी॑व॒ शुभः॒ स्पर्द्ध॑न्ते॒ दिवः॒ सूर्ये॑ण॒ विशो॒ऽपो वृ॑णा॒नः प॑वते क॒व्यन् प॒शुं न गो॒पा इर्यः॒ परि॑ज्मा ॥
पदपाठः (Word-by-word)
अ॒ग्नये᳚ । स्वाहा᳚ । वा॒यवे᳚ । स्वाहा᳚ । सूर्या॑य । स्वाहा᳚ । ऋ॒तम् । अ॒सि॒ । ऋ॒तस्य॑ । ऋ॒तम् । अ॒सि॒ । स॒त्यम् । अ॒सि॒ । स॒त्यस्य॑ । स॒त्यम् । अ॒सि॒ । ऋ॒तस्य॑ । पन्थाः᳚ । अ॒सि॒ । दे॒वाना᳚म् । छा॒या । अ॒मृत॑स्य । नाम॑ । तत् । स॒त्यम् । यत् । त्वम् । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । असि॑ । अधीति॑ । यत् । अ॒स्मि॒न्न् । वा॒जिनि॑ । इ॒व॒ । शुभः॑ । स्पद्र्ध॑न्ते । दिवः॑ । सूर्ये॑ण । विशः॑ । अ॒पः । वृ॒णा॒नः । प॒व॒ते॒ । क॒व्यन्न् । प॒शुम् । न । गो॒पा इति॑ गो - पाः । इर्यः॑ । परि॒ज्मेति॒ परि॑ - ज्मा॒ ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 -3अथाश्वस्य सावित्राणि सप्त जुहोति - अग्नय इत्यादि ।। अग्नये वायवे सूर्यायेत्यादित्रीणि, उत्तराणि चत्वारि, 'अधि यदस्मिन्' इत्यादि चतुष्पदा विराट् । 'शुभः, विशः, कव्यम्, परिज्मा'47 इति पादानामन्ताः । अग्नय इत्यादि । गतम् ।।
4 -7ऋतं यज्ञः त्वमेवासि, प्राधान्यात्स्तुतिः । ऋतस्य ऋतमसीति । ऋतस्यापि यज्ञस्यापि त्वं यज्ञोसि त्वया हि यज्ञः इष्टसाधनं भवतीति । किं च - सत्यमवितथं सति साधु सत्यं तदपि त्वमेवासि सत्यस्यापि प्रकृष्टतरं सत्यं त्वमसि । किंच - ऋतस्य यज्ञस्य पन्थाः प्राप्तिमार्गस्त्वमसि त्वया हीष्टे यागफलं प्राप्यते इति । अपि च - त्वं देवानां छायेवासि अनन्यभूतत्वात् । यद्वा - छाया गृहं, गृहमेव त्वं देवानामसि । ब्राह्मणं च भवति - 'अश्वे वै सर्वा देवता अन्वायत्ताः' इति । किंच - अमृतस्य नाम अमरणत्वस्य नमनं त्वमसि । यद्बा - अमृतस्य पर्यायान्तरं त्वमस्यश्व इति । यस्मादेवं त्वमसि तस्मात्तत्सत्यं (कविं) यत्त्वम् । प्रजापतिरसि त्वमेव प्रजापतिः प्रजापतितुल्यो वा त्वमसीति त्वा मन्यामहे । तत्र न काचित्स्तुतिरिति ।।
8 -11किंच - यत् यस्मादीदृशेऽस्मिन् महाभागे वाजिनि अश्वे अधिकमिव वर्तन्ते । के? शुभः योग्यता गुणाः अग्न्यादिदेवताभ्योप्यधिकमस्मिन् अश्वे गुणास्सन्ति, तस्मादसहमानाः अनेनाश्वेन स्पर्धन्ते दिवः दिवौकसः सूर्येण सवित्रा विशः देवविशो मरुदादयश्च । यद्वा - अनेनाश्वेन सूर्येण सावकेन सर्वलोकोत्पत्तिहेतुना सह स्पर्धन्ते देवा इति । किंच - अयमश्वोपो वृणानः उदकमुत्पा- दयितुमिच्छन् कर्माणि वा प्रजानां यथायथं प्रवर्तयितुमिच्छन् पवते पुनाति सर्वम् । पवमानरूपोण वा वृष्टिमुत्पादयितुमिच्छन् सर्वत्र गच्छति । गमनकर्माऽत्र पवतिः । कव्यन् स्तुतिमात्मन इच्छन् । कु शब्दे, 'ऋदोरप्' कवं स्तुतिमात्मन इच्छतीति क्यच्, छान्दसोन्त्यलोपः, ' न छन्दसि' इत्यवर्णस्य क्यचीत्वाभावः, सर्वैस्स्तूयमान इति यावत् । यद्वा - कव्यन् शब्दं महान्तं कुर्वन् । कु शब्दे, छान्दसो यकारो विकरणस्य, ' धातोस्तन्निमित्तस्यैव' इत्यवादेशः । पशुं न पशुमिव वृणानो गोपाः । गाः पातीति पातेर्विच् । इर्यः इरा अन्नं, तत्संयोगनिमित्तभूतः इति स्मत् [तस्मात्]? इरायां वा वायुः परिशुद्धः सर्वतो हन्ता सर्वलोकस्येति हेतुत्वमगमत् तद्द्वारेण सर्वगतत्वात् अस्य वाजिनः । परिज्मा इति निपात्यते । तस्मादीदृशोयं अश्वोस्मदभिमतं साधयतीति । वायुरेवोच्यते सर्वेण - ईदृशो यः परिज्मा वायुः पवते, त्वया सोपि स्पर्धते इति ।।
इति श्रीभट्टभास्करमिश्रविरचिते ज्ञानयज्ञाख्ये यजुर्वेदभाष्ये सप्तमकाण्डे प्रथमप्रपाठके विंशोनुवाकः ॥
प्रपाठकश्च समाप्तः ॥
ओम् ॥
……………………………………………………………………………………………………………
प्रश्नः-2