अनुवाकः 18 TS 7.1.18

(A18)

(आनु॑ष्टुभेन त्वा॒ छन्द॑सा युन॒ज्म्ये - का॒न्न प॑ञ्चा॒शच्च॑)

अनुवाकः 18 - Complete Audio

TS 7.1.18 - स्वरानुगामी

0:00 0:00
PS1.1 भुवो॑ दे॒वानां॒ कर्म॑णा॒ऽपस॒र्तस्य॑ प॒थ्या॑ऽसि॒
PS1.2 वसु॑भि-र्दे॒वेभि॑-र्दे॒वत॑या गाय॒त्रेण॑ त्वा॒ छन्द॑सा
PS1.3 युनज्मि वस॒न्तेन॑ त्व॒र्तुना॑ ह॒विषा॑
PS1.4 दीक्षयामि रु॒द्रेभि॑-र्दे॒वेभि॑-र्दे॒वत॑या॒ त्रैष्टु॑भेन त्वा॒
PS1.5 छन्द॑सा युनज्मि ग्री॒ष्मेण॑ त्व॒र्तुना॑
PS1.6 ह॒विषा॑ दीक्षया-म्यादि॒त्येभि॑-र्दे॒वेभि॑-र्दे॒वत॑या॒ जाग॑तेन त्वा॒
PS1.7 छन्द॑सा युनज्मि व॒र्॒.षाभि॑स्त्व॒र्तुना॑ ह॒विषा॑
PS1.8 दीक्षयामि॒ विश्वे॑भि-र्दे॒वेभि॑-र्दे॒वत॒या ऽऽनु॑ष्टुभेन त्वा॒
PS1.9 छन्द॑सा युनज्मि - [
PS1.10 ]
PS2.1 श॒रदा᳚ त्व॒र्तुना॑ ह॒विषा॑ दीक्षया॒म्यङ्गि॑रोभि-र्दे॒वेभि॑-र्दे॒वत॑या॒
PS2.2 पाङ्क्ते॑न त्वा॒ छन्द॑सा युनज्मि
PS2.3 हेमन्तशिशि॒राभ्यां᳚ त्व॒र्तुना॑ ह॒विषा॑ दीक्षया॒म्याऽहं
PS2.4 दी॒क्षाम॑रुहमृ॒तस्य॒ पत्नीं᳚ गाय॒त्रेण॒ छन्द॑सा॒
PS2.5 ब्रह्म॑णा च॒र्तꣳ स॒त्ये॑ऽधाꣳ स॒त्यमृ॒ते॑ऽधां
PS2.6 म॒ही मू ॒षु सु॒त्रामा॑ण
PS2.7 -मि॒ह धृतिः॒ स्वाहे॒ह विधृ॑तिः॒
PS2.8 स्वाहे॒ह रन्तिः॒ स्वाहे॒ह रम॑तिः॒
PS2.9 स्वाहा᳚

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.1.18.1 TS 7.1.18.1
भुवो॑ दे॒वानां॒ कर्म॑णा॒ऽपस॒र्तस्य॑ प॒थ्या॑ऽसि॒ वसु॑भि-र्दे॒वेभि॑-र्दे॒वत॑या गाय॒त्रेण॑ त्वा॒ छन्द॑सा युनज्मि वस॒न्तेन॑ त्व॒र्तुना॑ ह॒विषा॑ दीक्षयामि रु॒द्रेभि॑-र्दे॒वेभि॑-र्दे॒वत॑या॒ त्रैष्टु॑भेन त्वा॒ छन्द॑सा युनज्मि ग्री॒ष्मेण॑ त्व॒र्तुना॑ ह॒विषा॑ दीक्षया-म्यादि॒त्येभि॑-र्दे॒वेभि॑-र्दे॒वत॑या॒ जाग॑तेन त्वा॒ छन्द॑सा युनज्मि व॒र्॒.षाभि॑स्त्व॒र्तुना॑ ह॒विषा॑ दीक्षयामि॒ विश्वे॑भि-र्दे॒वेभि॑-र्दे॒वत॒या ऽऽनु॑ष्टुभेन त्वा॒ छन्द॑सा युनज्मि - [ ]
पदपाठः (Word-by-word)
भुवः॑ । दे॒वाना᳚म् । कर्म॑णा । अ॒पसा᳚ । ऋ॒तस्य॑ । प॒थ्या᳚ । अ॒सि॒ । वसु॑भि॒रिति॒ वसु॑ - भिः॒ । दे॒वेभिः॑ । दे॒वत॑या । गा॒य॒त्रेण॑ । त्वा॒ । छन्द॑सा । यु॒न॒ज्मि॒ । व॒स॒न्तेन॑ । त्वा॒ । ऋ॒तुना᳚ । ह॒विषा᳚ । दी॒क्ष॒या॒मि॒ । रु॒द्रेभिः॑ । दे॒वेभिः॑ । दे॒वत॑या । त्रैष्टु॑भेन । त्वा॒ । छन्द॑सा । यु॒न॒ज्मि॒ । ग्री॒ष्मेण॑ । त्वा॒ । ऋ॒तुना᳚ । ह॒विषा᳚ । दी॒क्ष॒या॒मि॒ । आ॒दि॒त्येभिः॑ । दे॒वेभिः॑ । दे॒वत॑या । जाग॑तेन । त्वा॒ । छन्द॑सा । यु॒न॒ज्मि॒ । व॒र्॒.षाभिः॑ । त्वा॒ । ऋ॒तुना᳚ । ह॒विषा᳚ । दी॒क्ष॒या॒मि॒ । विश्वे॑भिः । दे॒वेभिः॑ । दे॒वत॑या । आनु॑ष्टुभे॒नेत्यानु॑ - स्तु॒भे॒न॒ । त्वा॒ । छन्द॑सा । यु॒न॒ज्मि॒ ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथोत्तरा ऋतुदीक्षाः - भुवो देवानामिति ।। अत्र 'वसुभिः' इत्यादयः पञ्च पर्यायाः । तत्रादौ 'पथ्याऽसि' इत्यन्तं सर्वेषां तुल्यम् । अन्ते च 'आऽहं दीक्षाम्' इत्यादि 'ऋतेऽधाम्'40 इत्यन्तं सर्वेषां तुल्यमेव । ततोन्ते द्वे ऋचौ त्रिष्टुभौ 'महीमूषु मातरम्' इत्येका, 'सुत्रामाणं पृथिवीम्'41 इति द्वितीया । एते च 'वैश्वानरो न ऊत्या'41 इत्यत्र व्याख्याते, इह तु प्रतीकग्रहणम् । दीक्षे त्वं देवानां कर्मणा देवसंबन्धिना व्यापारेण होमादिना भुवः भव उत्पद्यस्व । भवतेर्लेटि शपो लुक्, 'लेटोऽडाटौ' इत्यडागमः, 'भूसुवोस्तिङि' इति गुणाभावः । ऋतस्य यज्ञस्य अपसा कर्मणा हेतुना भुव इत्येव । पथ्या हिता खल्वसि सर्वस्य लोकस्य । छान्दसमन्तस्वरितत्वम्, डादेशो वा विभक्तेः । तां त्वां देवेभिः वसुभिः देवैः गायत्रेण छन्दसा युनज्मि । त्वां च वसन्तेन ऋतुना वासन्तिकेन हविषा त्वां दीक्षयामि दीक्षां करोमि अविगुणं निर्वर्तयामीति यावत् । 'तत्करोति' इति णिच् । सोहं दीक्षामारुहं आरूढोस्मि । 'कृमृदृरुहिभ्यः' इति च्लेरङ् । ऋतस्य यज्ञस्य पत्नीं पालयित्रीम् । 'पत्युर्नः' इति ङीप्नकारौ । गायत्रोण छन्दसा ब्रह्मणा च ऋतं सत्ये अधां दधामि स्थापयामि । छान्दसो लुङ् । मानसं सत्यमृतं, वाचिकं सत्यम् । 'छन्दसः प्रत्ययविधाने नपुंसके स्वार्थ उपसंख्यानम्' इति गायत्र्यादिषु स्वार्थिकोण् । त्रिष्टुऽबादिभ्य उत्सादित्वादञ् ।।
2 -5एवं रुद्रादिपर्यायेष्वपि द्रष्टव्यम् ।।
6 महीमूष्वित्यादि ।। सुव्रतानां शोभनकर्मणां मातरं मातृवत्पालयित्रीं महीं देवीमेव ऋतस्य यज्ञस्य पत्नीं पालयत्रीं अवसे रक्षणार्थं सुहुवेम सुष्ठु आह्वयामः तुविक्षत्रां प्रवृद्धबलामेनां अजरन्तीं अनुपक्षयां उरूचीमुरुगमनां सुशर्माणं सुसुखां अदितिं अखण्डनीयां सुप्रणीतिं शोभनप्रणयनाम् । हति ।।
7 अथ द्वितीया - सुत्रामाणं सुष्ठु त्रायर्न्ती पृथिवीं द्यां दीपितवतीं अनेहसं अपापाम् । सुशर्माणमित्यादि । गतम् । दैवीं नावं स्वरित्रां अनागसं अनवद्यां अस्रवन्तीं अच्छिद्रामारुहेम स्वस्तये अविनाशायेति ।।
8 उत्सृष्टे चतुर्षु पत्सु चतस्र आहुतीर्जुहोति - इह धृतिरित्यादि ।। व्याख्यातम् ।।
इति सप्तमे प्रथमे अष्टादशोनुवाकः ॥
पञ्चशत् 2 #
TS 7.1.18.2 TS 7.1.18.2
श॒रदा᳚ त्व॒र्तुना॑ ह॒विषा॑ दीक्षया॒म्यङ्गि॑रोभि-र्दे॒वेभि॑-र्दे॒वत॑या॒ पाङ्क्ते॑न त्वा॒ छन्द॑सा युनज्मि हेमन्तशिशि॒राभ्यां᳚ त्व॒र्तुना॑ ह॒विषा॑ दीक्षया॒म्याऽहं दी॒क्षाम॑रुहमृ॒तस्य॒ पत्नीं᳚ गाय॒त्रेण॒ छन्द॑सा॒ ब्रह्म॑णा च॒र्तꣳ स॒त्ये॑ऽधाꣳ स॒त्यमृ॒ते॑ऽधां ॥म॒ही मू ॒षु सु॒त्रामा॑ण -मि॒ह धृतिः॒ स्वाहे॒ह विधृ॑तिः॒ स्वाहे॒ह रन्तिः॒ स्वाहे॒ह रम॑तिः॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
श॒रदा᳚ । त्वा॒ । ऋ॒तुना᳚ । ह॒विषा᳚ । दी॒क्ष॒या॒मि॒ । अङ्गि॑रोभि॒रित्यङ्गि॑रः- भिः॒ । दे॒वेभिः॑ । दे॒वत॑या । पाङ्क्ते॑न । त्वा॒ । छन्द॑सा । यु॒न॒ज्मि॒ । हे॒म॒न्त॒शि॒शि॒राभ्या॒मिति॑ हेमन्त - शि॒शि॒राभ्या᳚म् । त्वा॒ । ऋ॒तुना᳚ । ह॒विषा᳚ । दी॒क्ष॒या॒मि॒ । एति॑ । अ॒हम् । दी॒क्षाम् । अ॒रु॒ह॒म् । ऋ॒तस्य॑ । पत्नी᳚म् । गा॒य॒त्रेण॑ । छन्द॑सा । ब्रह्म॑णा । च॒ । ऋ॒तम् । स॒त्ये । अ॒धा॒म् । स॒त्यम् । ऋ॒ते । अ॒धा॒म् ॥ म॒हीम् । उ॒ । स्विति॑ । सु॒त्रामा॑ण॒मिति॑ सु - त्रामा॑णम् । इ॒ह । धृतिः॑ । स्वाहा᳚ । इ॒ह । विधृ॑ति॒रिति॒ वि - धृ॒तिः॒ । स्वाहा᳚ । इ॒ह । रन्तिः॑ । स्वाहा᳚ । इ॒ह । रम॑तिः । स्वाहा᳚ ॥
पदसंख्या: 49