अनुवाकः 5 TS 7.1.5

(A5)

(अ॒ब्र॒वी॒ - च्च॒ - तद॒न्तरि॑क्षं - ददात्य - च्छावा॒क - श्च॒ देयेति॑ - स॒प्तच॑त्वारिꣳशच्च)

अनुवाकः 5 - Complete Audio

TS 7.1.5 - स्वरानुगामी

0:00 0:00
PS1.1 आपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सी॒त्
PS1.2 तस्मि॑न् प्र॒जाप॑ति-र्वा॒युर्भू॒त्वा ऽच॑र॒थ् स
PS1.3 इ॒माम॑पश्य॒त् तां ॅव॑रा॒हो भू॒त्वाऽह॑र॒त्
PS1.4 तां ॅवि॒श्वक॑र्मा भू॒त्वा व्य॑मा॒ट्र्थ्
PS1.5 साऽप्र॑थत॒ सा पृ॑थि॒व्य॑भव॒त् तत्
PS1.6 पृ॑थि॒व्यै पृ॑थिवि॒त्वं तस्या॑मश्राम्यत् प्र॒जाप॑तिः॒
PS1.7 स दे॒वान॑सृजत॒ वसू᳚न् रु॒द्राना॑दि॒त्यान्
PS1.8 ते दे॒वाः प्र॒जाप॑तिमब्रुव॒न् प्रजा॑यामहा॒
PS1.9 इति॒ सो᳚ऽब्रवी॒द् - [
PS1.10 ]
PS2.1 -यथा॒ऽहं ॅयु॒ष्माꣳस्तप॒सा ऽसृ॑क्ष्ये॒वं तप॑सि
PS2.2 प्र॒जन॑न-मिच्छद्ध्व॒मिति॒ तेभ्यो॒ऽग्निमा॒यत॑नं॒ प्राऽय॑च्छदे॒तेना॒ऽऽ*यत॑नेन श्राम्य॒तेति॒
PS2.3 ते᳚ऽग्निना॒ऽऽ*यत॑नेनाऽ-श्राम्य॒न् ते सं॑ॅवथ्स॒र एकां॒
PS2.4 गाम॑सृजन्त॒ तां ॅवसु॑भ्यो रु॒द्रेभ्य॑
PS2.5 आदि॒त्येभ्यः॒ प्राऽय॑च्छन्ने॒ताꣳ र॑क्षद्ध्व॒मिति॒ तां
PS2.6 ॅवस॑वो रु॒द्रा आ॑दि॒त्या अ॑रक्षन्त॒
PS2.7 सा वसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्यः॒
PS2.8 प्राजा॑यत॒त्रीणि॑ च - [
PS2.9 ]
PS3.1 श॒तानि॒ त्रय॑स्त्रिꣳशतं॒ चाथ॒ सैव
PS3.2 स॑हस्रत॒म्य॑भव॒त् ते दे॒वाः प्र॒जाप॑तिमब्रुवन्थ्
PS3.3 स॒हस्रे॑ण नो याज॒येति॒ सो᳚ऽग्निष्टो॒मेन॒
PS3.4 वसू॑नयाजय॒त् त इ॒मं ॅलो॒कम॑जय॒न्
PS3.5 तच्चा॑ददुः॒ स उ॒क्थ्ये॑न रु॒द्रान॑याजय॒त्
PS3.6 ते᳚ऽन्तरि॑क्षमजय॒न् तच्चा॑ददुः॒ सो॑ऽतिरा॒त्रेणा॑ऽऽ*दि॒त्यान॑याजय॒त् ते॑ऽमुं
PS3.7 ॅलो॒कम॑जय॒न् तच्चा॑ददु॒ -स्तद॒न्तरि॑क्षं॒ -
PS3.8 [ ]
PS4.1 ॅव्यवै᳚र्यत॒ तस्मा᳚द्-रु॒द्रा घातु॑का अनायत॒ना
PS4.2 हि तस्मा॑दाहुः शिथि॒लं ॅवै
PS4.3 म॑द्ध्य॒म-मह॑स्त्रिरा॒त्रस्य॒ वि हि तद॒वैर्य॒तेति॒
PS4.4 त्रैष्टु॑भं मद्ध्य॒मस्याह्न॒ आज्यं॑ भवति
PS4.5 सं॒ॅयाना॑नि सू॒क्तानि॑ शꣳसति षोड॒शिनꣳ॑
PS4.6 शꣳस॒त्यह्नो॒ धृत्या॒ अशि॑थिलंभावाय॒ तस्मा᳚त्
PS4.7 त्रिरा॒त्रस्या᳚ग्निष्टो॒म ए॒व प्र॑थ॒ममहः॑ स्या॒दथो॒क्थ्यो
PS4.8 ऽथा॑ऽतिरा॒त्र ए॒षां ॅलो॒कानां॒ ॅविधृ॑त्यै॒
PS4.9 त्रीणि॑त्रीणि श॒ता-न्य॑नूचीना॒ह-मव्य॑वच्छिन्नानि ददा -
PS4.10 [ ]
PS5.1 -त्ये॒षां ॅलो॒काना॒मनु॒ सन्त॑त्यै द॒शतं॒
PS5.2 न विच्छि॑न्द्याद्-वि॒राजं॒ नेद्वि॑च्छि॒नदा॒नीत्यथ॒ या
PS5.3 स॑हस्रत॒म्यासी॒त् तस्या॒मिन्द्र॑श्च॒ विष्णु॑श्च॒ व्याय॑च्छेताꣳ॒॒
PS5.4 स इन्द्रो॑ऽमन्यता॒नया॒ वा इ॒दं
PS5.5 ॅविष्णुः॑ स॒हस्रं॑ ॅवर्क्ष्यत॒ इति॒
PS5.6 तस्या॑मकल्पेतां॒ द्विभा॑ग॒ इन्द्र॒स्तृती॑ये॒ विष्णु॒स्तद्वा
PS5.7 ए॒षाऽभ्यनू᳚च्यत उ॒भा जि॑ग्यथु॒रिति॒ तां
PS5.8 ॅवा ए॒ताम॑च्छावा॒क - [
PS5.9 ]
PS6.1 ए॒व शꣳ॑स॒त्यथ॒ या स॑हस्रत॒मी
PS6.2 सा होत्रे॒ देयेति॒ होता॑रं॒
PS6.3 ॅवा अ॒भ्यति॑रिच्यते॒ यद॑ति॒रिच्य॑ते॒ होता
PS6.4 ऽना᳚प्तस्याऽऽ*पयि॒ता ऽथा॑ऽ*हुरुन्ने॒त्रे देयेत्यति॑रिक्ता॒ वा
PS6.5 ए॒षा स॒हस्र॒स्याति॑रिक्त उन्ने॒तर्त्विजा॒मथा॑ऽऽ*हुः॒ सर्वे᳚भ्यः
PS6.6 सद॒स्ये᳚भ्यो॒ देयेत्यथा॑ऽऽहुरुदा॒ कृत्या॒ सा
PS6.7 वशं॑ चरे॒दित्यथा॑ऽऽ*हुर्ब्र॒ह्मणे॑ चा॒ग्नीधे॑ च॒
PS6.8 देयेति॒ - [ ]
PS7.1 द्विभा॑गं ब्र॒ह्मणे॒ तृती॑यम॒ग्नीध॑ ऐ॒न्द्रो
PS7.2 वै ब्र॒ह्मा वै᳚ष्ण॒वो᳚ऽग्नीद्यथै॒व तावक॑ल्पेता॒मित्यथा॑
PS7.3 ऽऽ*हु॒र्या क॑ल्या॒णी ब॑हुरू॒पा सा
PS7.4 देयेत्यथा॑ ऽऽ*हु॒र्या द्वि॑रू॒पोभ॒यत॑एनी॒ सा
PS7.5 देयेति॑ स॒हस्र॑स्य॒ परि॑गृहीत्यै॒ तद्वा
PS7.6 ए॒तथ् स॒हस्र॒स्याऽय॑नꣳ स॒हस्रꣳ॑ स्तो॒त्रीयाः᳚
PS7.7 स॒हस्रं॒ दक्षि॑णाः स॒हस्र॑सम्मितः सुव॒र्गो
PS7.8 लो॒कः सु॑व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.1.5.1 TS 7.1.5.1
आपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सी॒त् तस्मि॑न् प्र॒जाप॑ति-र्वा॒युर्भू॒त्वा ऽच॑र॒थ् स इ॒माम॑पश्य॒त् तां ॅव॑रा॒हो भू॒त्वाऽह॑र॒त् तां ॅवि॒श्वक॑र्मा भू॒त्वा व्य॑मा॒ट्र्थ् साऽप्र॑थत॒ सा पृ॑थि॒व्य॑भव॒त् तत् पृ॑थि॒व्यै पृ॑थिवि॒त्वं तस्या॑मश्राम्यत् प्र॒जाप॑तिः॒ स दे॒वान॑सृजत॒ वसू᳚न् रु॒द्राना॑दि॒त्यान् ते दे॒वाः प्र॒जाप॑तिमब्रुव॒न् प्रजा॑यामहा॒ इति॒ सो᳚ऽब्रवी॒द् - [ ]
पदपाठः (Word-by-word)
आपः॑ । वै । इ॒दम् । अग्रे᳚ । स॒लि॒लम् । आ॒सी॒त् । तस्मिन्न्॑ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । वा॒युः । भू॒त्वा । अ॒च॒र॒त् । सः । इ॒माम् । अ॒प॒श्य॒त् । ताम् । व॒रा॒हः । भू॒त्वा । एति॑ । अ॒ह॒र॒त् । ताम् । वि॒श्वक॒र्मेति॑ वि॒श्व-क॒र्मा॒ । भू॒त्वा । वीति॑ । अ॒मा॒र्ट्॒ । सा । अ॒प्र॒थ॒त॒ । सा । पृ॒थि॒वी । अ॒भ॒व॒त् । तत् । पृ॒थि॒व्यै । पृ॒थि॒वि॒त्वमिति॑ पृ॒थिवि - त्वम् । तस्या᳚म् । अ॒श्रा॒म्य॒त् । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । सः । दे॒वान् । अ॒सृ॒ज॒त॒ । वसून्॑ । रु॒द्रान् । आ॒दि॒त्यान् । ते । दे॒वाः । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । अ॒ब्रु॒व॒न्न् । प्रेति॑ । जा॒या॒म॒है॒ । इति॑ । सः । अ॒ब्र॒वी॒त् ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ त्रिरात्रो विधीयते । गर्गत्रिरात्रः अश्वमेधः बैद त्रिरात्रः छन्दोमनपवमानः पराक इति पञ्च त्रिरात्राः । तत्र प्रथमं गर्गत्रिरात्र आरभ्यते - आपो वा इदमग्रे सलिलमासीदिति ॥ इदं विश्वमग्रे आदौ सलिलमासीत् प्रत्यस्तमितसमस्तविकारं केवलं जलमेवासीदिति प्रतिपादनार्थः । अन्य आहुः - यदिदं सलिलविकारं क्षित्यादि एतत्सर्वमग्रे आप एवासीदिति । तस्मिन्नुदके प्रजापतिस्सिसृक्षुः वायुर्भूत्वाचरत् । स वायुरूपः प्रजापतिः इमां पृथिवीं अन्तर्जलेऽपश्यत् । तां पृथिवीं वायुरूपमुत्सृज्य वराहो भूत्वा जलस्योपर्याहरत् । आहृत्य वराहरूपमुत्सृज्य विश्वकर्मा भूत्वा तां पृथिवीं व्यमार्ट् विस्तारितवान् । मृजेर्लिङि तिपि 'मृजेर्वृद्धिः' इति वृद्धिः । विश्वं कर्मास्येति विश्वकर्मा विश्वनिर्माणकुशलः । 'बहुव्रीहौ विश्वं संज्ञायाम्' इति पूर्वपदान्तोदात्तत्वम् । ततस्सा पृथिवी अप्रथत विस्तीर्णाऽभवत् । तत्तस्याः पृथिवीत्वम् । 'प्रथेष्षिवन्सम्प्रसारणं च' इति षिवन्प्रत्ययः । पृथिवीशब्दो ङीषन्तोन्तोदात्तः ॥
2 ततः प्रजापतिस्तस्यामश्राम्यत्, तपोऽतप्यत । ततस्स देवानसृजत वस्वादीन् । अथ ते देवाः प्रजापतिमब्रुवन् - प्रजायामहै प्रजामुत्पादयामहे इति । सोऽब्रवीत्प्रजापतिः - यथाऽहं युष्मान् तपसाऽसृक्षि सृष्टवान् । 'लिङ्सिचौ' इति कुत्वम् । एवं यूयमपि तपसि वर्तमानाः प्रजननमिच्छध्वमिति । यद्वा - प्रयोजकनिमित्तसप्तमी तपसा निमित्तेनेति । इच्छध्वमिति व्यत्ययेनात्मनेपदम् ॥
3 एवमुक्त्वा तेभ्योऽग्निमायतनस्थानं तपस्स्थानमौपासनाख्यं प्रायच्छत् एतेनायतनेन तपः कुरुतेति । ते च तथाऽकुर्वत । ते संवत्सरान्तेन पाकयज्ञेन एकां गामसृजन्त । तां प्रथमं वसुभ्यो दत्तवन्तः एतां रक्षध्वमिति वयं तप्यामह इति । ते च वसवस्तामरक्षन् । सा च तेभ्यः प्राजायत प्रजा अजनयत् । कियतीः ? त्रीणि च शतानि त्रयस्त्रिंशतं च । त्रयश्च त्रिंशच्च त्रयस्त्रिंशत्, 'संख्या' इति पूर्वपदप्रकृतिस्वरत्वम् । एवं रुद्रेष्वादित्येषु द्रष्टव्यम् । यथा - तां रुद्रेभ्यः प्रायच्छन् एतां रक्षध्वमिति । तां च रुद्रा अरक्षन् । सा च रुद्रेभ्यः प्राजायत त्रीणि च शतानि त्रयस्त्रिंशतं च । तथाऽऽदित्येभ्यः प्रायच्छन् एतां रक्षध्वमिति । ते च तामरक्षन् । सा चादित्येभ्यः प्राजायत त्रीणि च शतानि त्रयस्त्रिंशतं च । एवं समुदायो ददाति अवयवः प्रतिगृह्णाति । वाक्यत्रयमिदं तन्त्रेण निर्दिष्टम् । एवं वसुरुद्रादित्यानां संभूय एकोनसहस्रं गावोऽभवन् । अथ सैव गौः सहस्रतमी सहस्रस्य पूरण्यभवत् । 'नित्यं शतादि' इत्यादिना डट् तमडागमः ॥
4 अथ देवाः प्रजापतिमब्रुवत् अनेन सहस्रेणास्मान्याजयेति । सोऽग्निष्टोमेन वसूनयाजयत् । ते वसव इमं लोकमजयन् । तच्चात्मीयत्रयस्त्रिंशदधिकशतत्रयं गोधनं दत्तवन्तः दक्षिणां कृतवन्तः । अथ प्रजापतिरुक्थ्येन रुद्रानयाजयत् इत्यादि । गतम् ॥
5 अथ तदन्तरिक्षं व्यवैर्यत विशीर्णमधोऽपतत् । ईर प्रेरणे, कर्मणि लङ्, यकि 'गतिर्गतौ' इति गतेरनुदात्तत्वम्, उदात्तवत्या गत्या आख्यातसमुदायेन समासः । तस्माद्रुद्रा घातुकाः हननशीलाः । 'लषपत' इत्यादिना उकञ् । अनायतना हि विशीर्णस्थानत्वात् । तस्मात्त्रिरात्रस्य मध्यममहः शिथिलमित्याह । हेतुं चाह - वि हि तदवैर्यतेति । तन्मध्यममहः व्यवैर्यत विशीर्णमभवत् । फलस्य विशीर्णत्वात् । 'हि च' इति निघातप्रतिषेधः । 'तिङि चोदात्तवति' इति गतेरनुदात्तत्वम्, समासश्च । तस्मान्मध्यमस्याह्नः आज्यं त्रैष्टुभं भवति । पूर्ववत् होतुराज्यमिति वेदितव्यम् । संयानानि सूक्तानि शंसति तेषां महत्त्वात् । षोडशिनं च शस्त्रं शंसति अह्नो दुर्बलत्वात् । तस्य धृत्यै धारणार्थं, अशिथिलंभावाय । छान्दसः खश् । यस्मादेवमेनान् एतैरयाजयत् तस्मात् त्रिरात्रस्येत्यादि । स्पष्टम् ॥
6 त्रीणित्रीणीत्यादि ॥ अनूचीनाहमव्यवच्छिन्नानि ददाति । उत्तमेऽह्नि चत्वारिंशता । अन्वञ्चतीति 'ऋत्विक्' इत्यादिना क्विप्, 'अनिदिताम्' इति नलोपः, 'विभाषाञ्चेः' इत्यादिना खः, 'चौ' इति दीर्घत्वम्, अनूचीनाहं, समासे 'राजाहस्सखिभ्यष्टच्', एषां लोकानामनुक्रमेण सन्तत्यै सन्तानार्थं तद्भवति ॥
7 दशतमित्यादि ॥ दशानां वर्गो दशत्, 'पञ्चद्दशतौ वर्गे वा' इति निपात्यते । तं न विच्छिन्द्यात् दक्षिणां ददत् दशभ्यो न्यूनं न दद्यात् विराजं नेद्विच्छिनदानीति विराजोऽन्नस्य विच्छित्तिर्मे मा भूदिति यावत् । 'निपातैर्यद्यदिहन्त' इत्यादिना निघाताभावः । पर्वूवद्गतिस्वरसमासौ । अथ यस्मै एकां गां दास्यन् स्यात् द्वे पञ्च वा तत्र कथं भवितव्यम्? अत्रोक्तमाचार्येण - 'यस्मा एकां गां दास्यन् स्यात् दशभ्यस्तेभ्यो दशतमपाकुर्यात् । यस्मै द्वे पञ्चभ्यः यस्मै पञ्च द्वाभ्यामेवमा शतादासहस्रात्' इति ॥
8 अथ या सहस्रतमी गौरासीत् तस्यां तन्निमित्तं इन्द्रो विष्णुश्च व्यायच्छेतां ममेयं ममेयमिति विप्रतिपन्नावभवताम् । 'गतिर्गतौ' इति गतेरनुदात्तत्वम्, समासश्च पूर्ववत् । अथेन्द्रोऽमन्यत यदीमां विष्णुर्लभेत ततोऽनया सहस्रमपि वर्क्ष्यते वशीकरोति । वृजिरावर्जनकर्मा, लृट् स्यः । तस्मादधिकभाजा मया भवितव्यमिति तस्यां तावकल्पेतां व्यवस्थां कृतवन्तौ भागयोः ॥
9 द्विभाग इत्यादि ॥ द्वयोर्भागयोरिन्द्रो व्यवस्थितः । 'द्विगौ प्रमाणे' इति पूर्वपदप्रकृतिस्वरत्वम् ॥ द्वयोर्भागयोस्समाहारो द्विभागः । तृतीयो भागस्त्रिभागः । तत्र विष्णुर्व्यवस्थितः 'पूरणाद्भागे तीयादन्' इत्यन्प्रत्ययः । तदेतदर्थरूपमभिलक्ष्य एषा वक्ष्यमाणा ऋगुच्यते 'उभा जिग्यथुः' इति । व्याख्याता चेयं 'प्र सो अग्ने' इत्यत्र, उत्तरत्र चानुवाके व्यक्तार्था भविष्यति । तामेतामच्छावाक एव शंसति । अथ सहस्रतमी होतुर्भागे देया । हेतुमाह - यद्यज्ञेऽतिरिच्यते तस्योत्तरमभिलक्ष्यातिरिच्यते तस्मादतिरिक्तस्स्याद्धोता । पूर्ववत् 'गतिर्गतौ' इति गतेरनुदात्तत्वम्, उत्तरत्र 'तिङि चोदात्तवति' इति, उभयत्र समासः पूर्ववत् । किंच - अनाप्तस्य प्रापयिता होता यद्यज्ञस्योन्नतस्य पूरयिता समीकर्ता होता तां गामर्हतीति ॥
10 अथाहुः अन्ये उन्नेत्रे देयेति ॥ हेतुं चाहुः - अतिरिक्ता खल्वेषा सवीर्या सहस्रस्य । उन्नेता च ऋत्विजां हारियोजनस्य धारयिता । अथान्ये वदन्ति - सर्वेभ्य इति । गतम् । अथाहुरपरे - उदाकृत्या सा वशं चरेदिति । उदाकरणमुत्सर्जनं, तदर्हा असंज्ञायामपि 'क्यप्च' इति अर्हार्थे क्यप्, तुगागमः । सा वशं चरेदिति यथेष्ठं स्वतन्त्रा गच्छेदित्यर्थः । न तु कश्चिदपि स्वामितया विशेषेण सहस्रतमीं नियन्तुमर्हतीति ॥
11 अथापरे ब्रुवते - ब्रह्मण इत्यादि ॥ गतम् । यथैवेति । यथैव इन्द्रविष्णुभ्यां कल्पितं तथैव तदीययोः ब्रह्माग्नीध्रयोः युक्तं भवितुमर्हतीति ॥
12 अथान्ये आचक्षते - या कल्याणी गुणवती बहुरूपा अनेकरूपा च तादृशी अन्या देयेति ॥ 'बहोर्नञ्वत्, इति नञ्वद्भावात् 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । अपरे चाहुः - या द्विरूपा उभयतएनी उभयपार्श्वशुक्ला सा तादृशी देयेति । तत्सहस्रस्य परिगृहीत्यै सहस्रस्य परिग्रहार्थं भवति । अन्यासां गवाम् । 'वर्णादनुदात्तात्' इति ङीप्, एनीशब्दस्य नत्वम्, 'तत्पुरुषे' अव्ययपूर्वपदप्रकृतिस्वरत्वम् 'नञ्कुनिपातानामेव' इति चेत् व्यत्ययेन भविष्यति । द्विरूपशब्दः निरुदकादिषु द्रष्टव्यः ॥
13 तद्वा इत्यादि ॥ तदेतत्त्रिरात्राख्यं कर्म सहस्रस्यायनं लाभहेतुः । सहस्रमस्य स्तोत्रीया भवन्ति, नवत्यधिकशतमग्निष्टोमस्य, त्रिपञ्चाशदधिकं शतद्वयमुक्थ्यस्य । द्विचत्वारिंशदधिकानि चत्वारि शतान्यतिरात्रस्य । शेषं वैकृतं पञ्चदशाधिकं शतं च द्विरात्रे दर्शितम् । सर्वस्तोमे स्तोत्रे भवाः स्तोत्रीयाः । गर्गादित्वाच्छः । अथास्य सहस्रं दक्षिणा भवन्ति । यस्मादेवं तस्मात् सहस्रसम्मितस्य महत्त्वात् सहस्रतुल्यस्य स्वर्गस्य लोकस्य विजयाय भवति । 'तादौ च .. ' इति गतेः प्रकृतिस्वरत्वम् । सहस्रेण सम्मितं तुल्यमिति । 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । उपमानपूर्वपदप्रकृतिस्वरत्वं वा ॥
इति सप्तमे प्रथमे पञ्चमोनुवाकः ॥
पञ्चशत् 2 #
TS 7.1.5.2 TS 7.1.5.2
-यथा॒ऽहं ॅयु॒ष्माꣳस्तप॒सा ऽसृ॑क्ष्ये॒वं तप॑सि प्र॒जन॑न-मिच्छद्ध्व॒मिति॒ तेभ्यो॒ऽग्निमा॒यत॑नं॒ प्राऽय॑च्छदे॒तेना॒ऽऽ*यत॑नेन श्राम्य॒तेति॒ ते᳚ऽग्निना॒ऽऽ*यत॑नेनाऽ-श्राम्य॒न् ते सं॑ॅवथ्स॒र एकां॒ गाम॑सृजन्त॒ तां ॅवसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्यः॒ प्राऽय॑च्छन्ने॒ताꣳ र॑क्षद्ध्व॒मिति॒ तां ॅवस॑वो रु॒द्रा आ॑दि॒त्या अ॑रक्षन्त॒ सा वसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्यः॒ प्राजा॑यत॒त्रीणि॑ च - [ ]
पदपाठः (Word-by-word)
यथा᳚ । अ॒हम् । यु॒ष्मान् । तप॑सा । असृ॑क्षि । ए॒वम् । तप॑सि । प्र॒जन॑न॒मिति॑ प्र - जन॑नम् । इ॒च्छ॒द्ध्व॒म् । इति॑ । तेभ्यः॑ । अ॒ग्निम् । आ॒यत॑न॒मित्या᳚ - यत॑नम् । प्रेति॑ । अ॒य॒च्छ॒त् । ए॒तेन॑ । आ॒यत॑ने॒नेत्या᳚ - यत॑नेन । श्रा॒म्य॒त॒ । इति॑ । ते । अ॒ग्निना᳚ । आ॒यत॑ने॒नेत्या᳚ - यत॑नेन । अ॒श्रा॒म्य॒न्न् । ते । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रे । एका᳚म् । गाम् । अ॒सृ॒ज॒न्त॒ । ताम् । वसु॑भ्य॒ इति॒ वसु॑ - भ्यः॒ । रु॒द्रेभ्यः॑ । आ॒दि॒त्येभ्यः॑ । प्रेति॑ । अ॒य॒च्छ॒न्न् । ए॒ताम् । र॒क्ष॒द्ध्व॒म् । इति॑ । ताम् । वस॑वः । रु॒द्राः । आ॒दि॒त्याः । अ॒र॒क्ष॒न्त॒ । सा । वसु॑भ्य॒ इति॒ वसु॑ - भ्यः॒ । रु॒द्रेभ्यः॑ । आ॒दि॒त्येभ्यः॑ । प्रेति॑ । अ॒जा॒य॒त॒ । त्रीणि॑ । च॒ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 7.1.5.3 TS 7.1.5.3
श॒तानि॒ त्रय॑स्त्रिꣳशतं॒ चाथ॒ सैव स॑हस्रत॒म्य॑भव॒त् ते दे॒वाः प्र॒जाप॑तिमब्रुवन्थ् स॒हस्रे॑ण नो याज॒येति॒ सो᳚ऽग्निष्टो॒मेन॒ वसू॑नयाजय॒त् त इ॒मं ॅलो॒कम॑जय॒न् तच्चा॑ददुः॒ स उ॒क्थ्ये॑न रु॒द्रान॑याजय॒त् ते᳚ऽन्तरि॑क्षमजय॒न् तच्चा॑ददुः॒ सो॑ऽतिरा॒त्रेणा॑ऽऽ*दि॒त्यान॑याजय॒त् ते॑ऽमुं ॅलो॒कम॑जय॒न् तच्चा॑ददु॒ -स्तद॒न्तरि॑क्षं॒ - [ ]
पदपाठः (Word-by-word)
श॒तानि॑ । त्रय॑स्त्रिꣳशत॒मिति॒ त्रयः॑ - त्रिꣳ॒॒श॒त॒म् । च॒ । अथ॑ । सा । ए॒व । स॒ह॒स्र॒त॒मीति॑ सहस्र - त॒मी । अ॒भ॒व॒त् । ते । दे॒वाः । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । अ॒ब्रु॒व॒न्न् । स॒हस्रे॑ण । नः॒ । या॒ज॒य॒ । इति॑ । सः । अ॒ग्नि॒ष्टो॒मेनेत्य॑ग्नि-स्तो॒मेन॑ । वसून्॑ । अ॒या॒ज॒य॒त् । ते । इ॒मम् । लो॒कम् । अ॒ज॒य॒न्न् । तत् । च॒ । अ॒द॒दुः॒ । सः । उ॒क्थ्ये॑न । रु॒द्रान् । अ॒या॒ज॒य॒त् । ते । अ॒न्तरि॑क्षम् । अ॒ज॒य॒न्न् । तत् । च॒ । अ॒द॒दुः॒ । सः । अ॒ति॒रा॒त्रेणेत्य॑ति - रा॒त्रेण॑ । आ॒दि॒त्यान् । अ॒या॒ज॒य॒त् । ते । अ॒मुम् । लो॒कम् । अ॒ज॒य॒न्न् । तत् । च॒ । अ॒द॒दुः॒ । तत् । अ॒न्तरि॑क्षम् ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 7.1.5.4 TS 7.1.5.4
ॅव्यवै᳚र्यत॒ तस्मा᳚द्-रु॒द्रा घातु॑का अनायत॒ना हि तस्मा॑दाहुः शिथि॒लं ॅवै म॑द्ध्य॒म-मह॑स्त्रिरा॒त्रस्य॒ वि हि तद॒वैर्य॒तेति॒ त्रैष्टु॑भं मद्ध्य॒मस्याह्न॒ आज्यं॑ भवति सं॒ॅयाना॑नि सू॒क्तानि॑ शꣳसति षोड॒शिनꣳ॑ शꣳस॒त्यह्नो॒ धृत्या॒ अशि॑थिलंभावाय॒ तस्मा᳚त् त्रिरा॒त्रस्या᳚ग्निष्टो॒म ए॒व प्र॑थ॒ममहः॑ स्या॒दथो॒क्थ्यो ऽथा॑ऽतिरा॒त्र ए॒षां ॅलो॒कानां॒ ॅविधृ॑त्यै॒ त्रीणि॑त्रीणि श॒ता-न्य॑नूचीना॒ह-मव्य॑वच्छिन्नानि ददा - [ ]
पदपाठः (Word-by-word)
व्यवै᳚र्य॒तेति॑ वि - अवै᳚र्यत । तस्मा᳚त् । रु॒द्राः । घातु॑काः । अ॒ना॒य॒त॒ना इत्य॑ना - य॒त॒नाः । हि । तस्मा᳚त् । आ॒हुः॒ । शि॒थि॒लम् । वै । म॒द्ध्य॒मम् । अहः॑ । त्रि॒रा॒त्रस्येति॑ त्रि - रा॒त्रस्य॑ । वीति॑ । हि । तत् । अ॒वैर्य॒तेत्य॑व - ऐर्य॑त । इति॑ । त्रैष्टु॑भम् । म॒द्ध्य॒मस्य॑ । अह्नः॑ । आज्य᳚म् । भ॒व॒ति॒ । सं॒ॅयाना॒निति॑ सम् - याना॑नि । सू॒क्तानीति॑ सु - उ॒क्तानि॑ । शꣳ॒॒स॒ति॒ । षो॒ड॒शिन᳚म् । शꣳ॒॒स॒ति॒ । अह्नः॑ । धृत्यै᳚ । अशि॑थिलम्भावा॒येत्यशि॑थिलं - भा॒वा॒य॒ । तस्मा᳚त् । त्रि॒रा॒त्रस्येति॑ त्रि - रा॒त्रस्य॑ । अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि - स्तो॒मः । ए॒व । प्र॒थ॒मम् । अहः॑ । स्या॒त् । अथ॑ । उ॒क्थ्यः॑ । अथ॑ । अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः । ए॒षाम् । लो॒काना᳚म् । विधृ॑त्या॒ इति॒ वि - धृ॒त्यै॒ । त्रीणि॑त्री॒णीति॒ त्रीणि॑ - त्री॒णि॒ । श॒तानि॑ । अ॒नू॒ची॒ना॒हमित्य॑नूचीन - अ॒हम् । अव्य॑वच्छिन्ना॒नीत्यवि॑ - अ॒व॒च्छि॒न्ना॒नि॒ । द॒दा॒ति॒ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 7.1.5.5 TS 7.1.5.5
-त्ये॒षां ॅलो॒काना॒मनु॒ सन्त॑त्यै द॒शतं॒ न विच्छि॑न्द्याद्-वि॒राजं॒ नेद्वि॑च्छि॒नदा॒नीत्यथ॒ या स॑हस्रत॒म्यासी॒त् तस्या॒मिन्द्र॑श्च॒ विष्णु॑श्च॒ व्याय॑च्छेताꣳ॒॒ स इन्द्रो॑ऽमन्यता॒नया॒ वा इ॒दं ॅविष्णुः॑ स॒हस्रं॑ ॅवर्क्ष्यत॒ इति॒ तस्या॑मकल्पेतां॒ द्विभा॑ग॒ इन्द्र॒स्तृती॑ये॒ विष्णु॒स्तद्वा ए॒षाऽभ्यनू᳚च्यत उ॒भा जि॑ग्यथु॒रिति॒ तां ॅवा ए॒ताम॑च्छावा॒क - [ ]
पदपाठः (Word-by-word)
ए॒षाम् । लो॒काना᳚म् । अन्विति॑ । सन्त॑त्या॒ इति॒ सं - त॒त्यै॒ । द॒शत᳚म् । न । वीति॑ । छि॒न्द्या॒त् । वि॒राज॒मिति॑ वि - राज᳚म् । न । इत् । वि॒च्छि॒नदा॒नीति॑ वि - छि॒नदा॑नि । इति॑ । अथ॑ । या । स॒ह॒स्र॒त॒मीति॑ सहस्र - त॒मी । आसी᳚त् । तस्या᳚म् । इन्द्रः॑ । च॒ । विष्णुः॑ । च॒ । व्याय॑च्छेता॒मिति॑ वि - आय॑च्छेताम् । सः । इन्द्रः॑ । अ॒म॒न्य॒त॒ । अ॒नया᳚ । वै । इ॒दम् । विष्णुः॑ । स॒हस्र᳚म् । व॒र्क्ष्य॒ते॒ । इति॑ । तस्या᳚म् । अ॒क॒ल्पे॒ता॒म् । द्विभा॑ग॒ इति॒ द्वि - भा॒गे॒ । इन्द्रः॑ । तृती॑ये । विष्णुः॑ । तत् । वै । ए॒षा । अ॒भ्यनू᳚च्यत॒ इत्य॑भि-अनू᳚च्यते । उ॒भा । जि॒ग्य॒थुः॒ । इति॑ । ताम् । वै । ए॒ताम् । अ॒च्छा॒वा॒कः ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 7.1.5.6 TS 7.1.5.6
ए॒व शꣳ॑स॒त्यथ॒ या स॑हस्रत॒मी सा होत्रे॒ देयेति॒ होता॑रं॒ ॅवा अ॒भ्यति॑रिच्यते॒ यद॑ति॒रिच्य॑ते॒ होता ऽना᳚प्तस्याऽऽ*पयि॒ता ऽथा॑ऽ*हुरुन्ने॒त्रे देयेत्यति॑रिक्ता॒ वा ए॒षा स॒हस्र॒स्याति॑रिक्त उन्ने॒तर्त्विजा॒मथा॑ऽऽ*हुः॒ सर्वे᳚भ्यः सद॒स्ये᳚भ्यो॒ देयेत्यथा॑ऽऽहुरुदा॒ कृत्या॒ सा वशं॑ चरे॒दित्यथा॑ऽऽ*हुर्ब्र॒ह्मणे॑ चा॒ग्नीधे॑ च॒ देयेति॒ - [ ]
पदपाठः (Word-by-word)
ए॒व । शꣳ॒॒स॒ति॒ । अथ॑ । या । स॒ह॒स्र॒त॒मीति॑ सहस्र - त॒मी । सा । होत्रे᳚ । देया᳚ । इति॑ । होता॑रम् । वै । अ॒भ्यति॑रिच्यत॒ इत्य॑भि-अति॑रिच्यते । यत् । अ॒ति॒रिच्य॑त॒ इत्य॑ति - रिच्य॑ते । होता᳚ । अना᳚प्तस्य । आ॒प॒यि॒ता । अथ॑ । आ॒हुः॒ । उ॒न्ने॒त्र इत्यु॑त् - ने॒त्रे । देया᳚ । इति॑ । अति॑रि॒क्तेत्यति॑ - रि॒क्ता॒ । वै । ए॒षा । स॒हस्र॑स्य । अति॑रिक्त॒ इत्यति॑ - रि॒क्तः॒ । उ॒न्ने॒तेत्यु॑त् - ने॒ता । ऋ॒त्विजा᳚म् । अथ॑ । आ॒हुः॒ । सर्वे᳚भ्यः । स॒द॒स्ये᳚भ्यः । देया᳚ । इति॑ । अथ॑ । आ॒हुः॒ । उ॒दा॒कृत्येत्यु॑त् - आ॒कृत्या᳚ । सा । वश᳚म् । च॒रे॒त् । इति॑ । अथ॑ । आ॒हुः॒ । ब्र॒ह्मणे᳚ । च॒ । अ॒ग्नीध॒ इत्य॑ग्नि - इधे᳚ । च॒ । देया᳚ । इति॑ ।
पदसंख्या: 50
पञ्चशत् 7 #
TS 7.1.5.7 TS 7.1.5.7
द्विभा॑गं ब्र॒ह्मणे॒ तृती॑यम॒ग्नीध॑ ऐ॒न्द्रो वै ब्र॒ह्मा वै᳚ष्ण॒वो᳚ऽग्नीद्यथै॒व तावक॑ल्पेता॒मित्यथा॑ ऽऽ*हु॒र्या क॑ल्या॒णी ब॑हुरू॒पा सा देयेत्यथा॑ ऽऽ*हु॒र्या द्वि॑रू॒पोभ॒यत॑एनी॒ सा देयेति॑ स॒हस्र॑स्य॒ परि॑गृहीत्यै॒ तद्वा ए॒तथ् स॒हस्र॒स्याऽय॑नꣳ स॒हस्रꣳ॑ स्तो॒त्रीयाः᳚ स॒हस्रं॒ दक्षि॑णाः स॒हस्र॑सम्मितः सुव॒र्गो लो॒कः सु॑व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ॥
पदपाठः (Word-by-word)
द्विभा॑ग॒मिति॒ द्वि - भा॒ग॒म् । ब्र॒ह्मणे᳚ । तृती॑यम् । अ॒ग्नीध॒ इत्य॑ग्नि- इधे᳚ । ऐ॒न्द्रः । वै । ब्र॒ह्मा । वै॒ष्ण॒वः । अ॒ग्नीदित्य॑ग्नि-इत् । यथा᳚ । ए॒व । तौ । अक॑ल्पेताम् । इति॑ । अथ॑ । आ॒हुः॒ । या । क॒ल्या॒णी । ब॒हु॒रू॒पेति॑ बहु - रू॒पा । सा । देया᳚ । इति॑ । अथ॑ । आ॒हुः॒ । या । द्वि॒रू॒पेति॑ द्वि - रू॒पा । उ॒भ॒यत॑ए॒नीत्य॑भ॒यतः॑ - ए॒नी॒ । सा । देया᳚ । इति॑ । स॒हस्र॑स्य । परि॑गृहीत्या॒ इति॒ परि॑-गृ॒ही॒त्यै॒ । तत् । वै । ए॒तत् । स॒हस्र॑स्य । अय॑नम् । स॒हस्र᳚म् । स्तो॒त्रीयाः᳚ । स॒हस्र᳚म् । दक्षि॑णाः । स॒हस्र॑संमित॒ इति॑ स॒हस्र॑ - स॒मिं॒तः॒ । सु॒व॒र्ग इति॑ सुवः - गः । लो॒कः । सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । लो॒कस्य॑ । अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ ॥
पदसंख्या: 47