पञ्चशत् 1 #
आपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सी॒त् तस्मि॑न् प्र॒जाप॑ति-र्वा॒युर्भू॒त्वा ऽच॑र॒थ् स इ॒माम॑पश्य॒त् तां ॅव॑रा॒हो भू॒त्वाऽह॑र॒त् तां ॅवि॒श्वक॑र्मा भू॒त्वा व्य॑मा॒ट्र्थ् साऽप्र॑थत॒ सा पृ॑थि॒व्य॑भव॒त् तत् पृ॑थि॒व्यै पृ॑थिवि॒त्वं तस्या॑मश्राम्यत् प्र॒जाप॑तिः॒ स दे॒वान॑सृजत॒ वसू᳚न् रु॒द्राना॑दि॒त्यान् ते दे॒वाः प्र॒जाप॑तिमब्रुव॒न् प्रजा॑यामहा॒ इति॒ सो᳚ऽब्रवी॒द् - [ ]
पदपाठः (Word-by-word)
आपः॑ । वै । इ॒दम् । अग्रे᳚ । स॒लि॒लम् । आ॒सी॒त् । तस्मिन्न्॑ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । वा॒युः । भू॒त्वा । अ॒च॒र॒त् । सः । इ॒माम् । अ॒प॒श्य॒त् । ताम् । व॒रा॒हः । भू॒त्वा । एति॑ । अ॒ह॒र॒त् । ताम् । वि॒श्वक॒र्मेति॑ वि॒श्व-क॒र्मा॒ । भू॒त्वा । वीति॑ । अ॒मा॒र्ट्॒ । सा । अ॒प्र॒थ॒त॒ । सा । पृ॒थि॒वी । अ॒भ॒व॒त् । तत् । पृ॒थि॒व्यै । पृ॒थि॒वि॒त्वमिति॑ पृ॒थिवि - त्वम् । तस्या᳚म् । अ॒श्रा॒म्य॒त् । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । सः । दे॒वान् । अ॒सृ॒ज॒त॒ । वसून्॑ । रु॒द्रान् । आ॒दि॒त्यान् । ते । दे॒वाः । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । अ॒ब्रु॒व॒न्न् । प्रेति॑ । जा॒या॒म॒है॒ । इति॑ । सः । अ॒ब्र॒वी॒त् ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ त्रिरात्रो विधीयते । गर्गत्रिरात्रः अश्वमेधः बैद त्रिरात्रः छन्दोमनपवमानः पराक इति पञ्च त्रिरात्राः । तत्र प्रथमं गर्गत्रिरात्र आरभ्यते - आपो वा इदमग्रे सलिलमासीदिति ॥ इदं विश्वमग्रे आदौ सलिलमासीत् प्रत्यस्तमितसमस्तविकारं केवलं जलमेवासीदिति प्रतिपादनार्थः । अन्य आहुः - यदिदं सलिलविकारं क्षित्यादि एतत्सर्वमग्रे आप एवासीदिति । तस्मिन्नुदके प्रजापतिस्सिसृक्षुः वायुर्भूत्वाचरत् । स वायुरूपः प्रजापतिः इमां पृथिवीं अन्तर्जलेऽपश्यत् । तां पृथिवीं वायुरूपमुत्सृज्य वराहो भूत्वा जलस्योपर्याहरत् । आहृत्य वराहरूपमुत्सृज्य विश्वकर्मा भूत्वा तां पृथिवीं व्यमार्ट् विस्तारितवान् । मृजेर्लिङि तिपि 'मृजेर्वृद्धिः' इति वृद्धिः । विश्वं कर्मास्येति विश्वकर्मा विश्वनिर्माणकुशलः । 'बहुव्रीहौ विश्वं संज्ञायाम्' इति पूर्वपदान्तोदात्तत्वम् । ततस्सा पृथिवी अप्रथत विस्तीर्णाऽभवत् । तत्तस्याः पृथिवीत्वम् । 'प्रथेष्षिवन्सम्प्रसारणं च' इति षिवन्प्रत्ययः । पृथिवीशब्दो ङीषन्तोन्तोदात्तः ॥
2 ततः प्रजापतिस्तस्यामश्राम्यत्, तपोऽतप्यत । ततस्स देवानसृजत वस्वादीन् । अथ ते देवाः प्रजापतिमब्रुवन् - प्रजायामहै प्रजामुत्पादयामहे इति । सोऽब्रवीत्प्रजापतिः - यथाऽहं युष्मान् तपसाऽसृक्षि सृष्टवान् । 'लिङ्सिचौ' इति कुत्वम् । एवं यूयमपि तपसि वर्तमानाः प्रजननमिच्छध्वमिति । यद्वा - प्रयोजकनिमित्तसप्तमी तपसा निमित्तेनेति । इच्छध्वमिति व्यत्ययेनात्मनेपदम् ॥
3 एवमुक्त्वा तेभ्योऽग्निमायतनस्थानं तपस्स्थानमौपासनाख्यं प्रायच्छत् एतेनायतनेन तपः कुरुतेति । ते च तथाऽकुर्वत । ते संवत्सरान्तेन पाकयज्ञेन एकां गामसृजन्त । तां प्रथमं वसुभ्यो दत्तवन्तः एतां रक्षध्वमिति वयं तप्यामह इति । ते च वसवस्तामरक्षन् । सा च तेभ्यः प्राजायत प्रजा अजनयत् । कियतीः ? त्रीणि च शतानि त्रयस्त्रिंशतं च । त्रयश्च त्रिंशच्च त्रयस्त्रिंशत्, 'संख्या' इति पूर्वपदप्रकृतिस्वरत्वम् । एवं रुद्रेष्वादित्येषु द्रष्टव्यम् । यथा - तां रुद्रेभ्यः प्रायच्छन् एतां रक्षध्वमिति । तां च रुद्रा अरक्षन् । सा च रुद्रेभ्यः प्राजायत त्रीणि च शतानि त्रयस्त्रिंशतं च । तथाऽऽदित्येभ्यः प्रायच्छन् एतां रक्षध्वमिति । ते च तामरक्षन् । सा चादित्येभ्यः प्राजायत त्रीणि च शतानि त्रयस्त्रिंशतं च । एवं समुदायो ददाति अवयवः प्रतिगृह्णाति । वाक्यत्रयमिदं तन्त्रेण निर्दिष्टम् । एवं वसुरुद्रादित्यानां संभूय एकोनसहस्रं गावोऽभवन् । अथ सैव गौः सहस्रतमी सहस्रस्य पूरण्यभवत् । 'नित्यं शतादि' इत्यादिना डट् तमडागमः ॥
4 अथ देवाः प्रजापतिमब्रुवत् अनेन सहस्रेणास्मान्याजयेति । सोऽग्निष्टोमेन वसूनयाजयत् । ते वसव इमं लोकमजयन् । तच्चात्मीयत्रयस्त्रिंशदधिकशतत्रयं गोधनं दत्तवन्तः दक्षिणां कृतवन्तः । अथ प्रजापतिरुक्थ्येन रुद्रानयाजयत् इत्यादि । गतम् ॥
5 अथ तदन्तरिक्षं व्यवैर्यत विशीर्णमधोऽपतत् । ईर प्रेरणे, कर्मणि लङ्, यकि 'गतिर्गतौ' इति गतेरनुदात्तत्वम्, उदात्तवत्या गत्या आख्यातसमुदायेन समासः । तस्माद्रुद्रा घातुकाः हननशीलाः । 'लषपत' इत्यादिना उकञ् । अनायतना हि विशीर्णस्थानत्वात् । तस्मात्त्रिरात्रस्य मध्यममहः शिथिलमित्याह । हेतुं चाह - वि हि तदवैर्यतेति । तन्मध्यममहः व्यवैर्यत विशीर्णमभवत् । फलस्य विशीर्णत्वात् । 'हि च' इति निघातप्रतिषेधः । 'तिङि चोदात्तवति' इति गतेरनुदात्तत्वम्, समासश्च । तस्मान्मध्यमस्याह्नः आज्यं त्रैष्टुभं भवति । पूर्ववत् होतुराज्यमिति वेदितव्यम् । संयानानि सूक्तानि शंसति तेषां महत्त्वात् । षोडशिनं च शस्त्रं शंसति अह्नो दुर्बलत्वात् । तस्य धृत्यै धारणार्थं, अशिथिलंभावाय । छान्दसः खश् । यस्मादेवमेनान् एतैरयाजयत् तस्मात् त्रिरात्रस्येत्यादि । स्पष्टम् ॥
6 त्रीणित्रीणीत्यादि ॥ अनूचीनाहमव्यवच्छिन्नानि ददाति । उत्तमेऽह्नि चत्वारिंशता । अन्वञ्चतीति 'ऋत्विक्' इत्यादिना क्विप्, 'अनिदिताम्' इति नलोपः, 'विभाषाञ्चेः' इत्यादिना खः, 'चौ' इति दीर्घत्वम्, अनूचीनाहं, समासे 'राजाहस्सखिभ्यष्टच्', एषां लोकानामनुक्रमेण सन्तत्यै सन्तानार्थं तद्भवति ॥
7 दशतमित्यादि ॥ दशानां वर्गो दशत्, 'पञ्चद्दशतौ वर्गे वा' इति निपात्यते । तं न विच्छिन्द्यात् दक्षिणां ददत् दशभ्यो न्यूनं न दद्यात् विराजं नेद्विच्छिनदानीति विराजोऽन्नस्य विच्छित्तिर्मे मा भूदिति यावत् । 'निपातैर्यद्यदिहन्त' इत्यादिना निघाताभावः । पर्वूवद्गतिस्वरसमासौ । अथ यस्मै एकां गां दास्यन् स्यात् द्वे पञ्च वा तत्र कथं भवितव्यम्? अत्रोक्तमाचार्येण - 'यस्मा एकां गां दास्यन् स्यात् दशभ्यस्तेभ्यो दशतमपाकुर्यात् । यस्मै द्वे पञ्चभ्यः यस्मै पञ्च द्वाभ्यामेवमा शतादासहस्रात्' इति ॥
8 अथ या सहस्रतमी गौरासीत् तस्यां तन्निमित्तं इन्द्रो विष्णुश्च व्यायच्छेतां ममेयं ममेयमिति विप्रतिपन्नावभवताम् । 'गतिर्गतौ' इति गतेरनुदात्तत्वम्, समासश्च पूर्ववत् । अथेन्द्रोऽमन्यत यदीमां विष्णुर्लभेत ततोऽनया सहस्रमपि वर्क्ष्यते वशीकरोति । वृजिरावर्जनकर्मा, लृट् स्यः । तस्मादधिकभाजा मया भवितव्यमिति तस्यां तावकल्पेतां व्यवस्थां कृतवन्तौ भागयोः ॥
9 द्विभाग इत्यादि ॥ द्वयोर्भागयोरिन्द्रो व्यवस्थितः । 'द्विगौ प्रमाणे' इति पूर्वपदप्रकृतिस्वरत्वम् ॥ द्वयोर्भागयोस्समाहारो द्विभागः । तृतीयो भागस्त्रिभागः । तत्र विष्णुर्व्यवस्थितः 'पूरणाद्भागे तीयादन्' इत्यन्प्रत्ययः । तदेतदर्थरूपमभिलक्ष्य एषा वक्ष्यमाणा ऋगुच्यते 'उभा जिग्यथुः' इति । व्याख्याता चेयं 'प्र सो अग्ने' इत्यत्र, उत्तरत्र चानुवाके व्यक्तार्था भविष्यति । तामेतामच्छावाक एव शंसति । अथ सहस्रतमी होतुर्भागे देया । हेतुमाह - यद्यज्ञेऽतिरिच्यते तस्योत्तरमभिलक्ष्यातिरिच्यते तस्मादतिरिक्तस्स्याद्धोता । पूर्ववत् 'गतिर्गतौ' इति गतेरनुदात्तत्वम्, उत्तरत्र 'तिङि चोदात्तवति' इति, उभयत्र समासः पूर्ववत् । किंच - अनाप्तस्य प्रापयिता होता यद्यज्ञस्योन्नतस्य पूरयिता समीकर्ता होता तां गामर्हतीति ॥
10 अथाहुः अन्ये उन्नेत्रे देयेति ॥ हेतुं चाहुः - अतिरिक्ता खल्वेषा सवीर्या सहस्रस्य । उन्नेता च ऋत्विजां हारियोजनस्य धारयिता । अथान्ये वदन्ति - सर्वेभ्य इति । गतम् । अथाहुरपरे - उदाकृत्या सा वशं चरेदिति । उदाकरणमुत्सर्जनं, तदर्हा असंज्ञायामपि 'क्यप्च' इति अर्हार्थे क्यप्, तुगागमः । सा वशं चरेदिति यथेष्ठं स्वतन्त्रा गच्छेदित्यर्थः । न तु कश्चिदपि स्वामितया विशेषेण सहस्रतमीं नियन्तुमर्हतीति ॥
11 अथापरे ब्रुवते - ब्रह्मण इत्यादि ॥ गतम् । यथैवेति । यथैव इन्द्रविष्णुभ्यां कल्पितं तथैव तदीययोः ब्रह्माग्नीध्रयोः युक्तं भवितुमर्हतीति ॥
12 अथान्ये आचक्षते - या कल्याणी गुणवती बहुरूपा अनेकरूपा च तादृशी अन्या देयेति ॥ 'बहोर्नञ्वत्, इति नञ्वद्भावात् 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । अपरे चाहुः - या द्विरूपा उभयतएनी उभयपार्श्वशुक्ला सा तादृशी देयेति । तत्सहस्रस्य परिगृहीत्यै सहस्रस्य परिग्रहार्थं भवति । अन्यासां गवाम् । 'वर्णादनुदात्तात्' इति ङीप्, एनीशब्दस्य नत्वम्, 'तत्पुरुषे' अव्ययपूर्वपदप्रकृतिस्वरत्वम् 'नञ्कुनिपातानामेव' इति चेत् व्यत्ययेन भविष्यति । द्विरूपशब्दः निरुदकादिषु द्रष्टव्यः ॥
13 तद्वा इत्यादि ॥ तदेतत्त्रिरात्राख्यं कर्म सहस्रस्यायनं लाभहेतुः । सहस्रमस्य स्तोत्रीया भवन्ति, नवत्यधिकशतमग्निष्टोमस्य, त्रिपञ्चाशदधिकं शतद्वयमुक्थ्यस्य । द्विचत्वारिंशदधिकानि चत्वारि शतान्यतिरात्रस्य । शेषं वैकृतं पञ्चदशाधिकं शतं च द्विरात्रे दर्शितम् । सर्वस्तोमे स्तोत्रे भवाः स्तोत्रीयाः । गर्गादित्वाच्छः । अथास्य सहस्रं दक्षिणा भवन्ति । यस्मादेवं तस्मात् सहस्रसम्मितस्य महत्त्वात् सहस्रतुल्यस्य स्वर्गस्य लोकस्य विजयाय भवति । 'तादौ च .. ' इति गतेः प्रकृतिस्वरत्वम् । सहस्रेण सम्मितं तुल्यमिति । 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । उपमानपूर्वपदप्रकृतिस्वरत्वं वा ॥
इति सप्तमे प्रथमे पञ्चमोनुवाकः ॥