पञ्चशत् 1 #
सं॒ॅव॒थ्स॒रो वा इ॒दमेक॑ आसी॒थ् सो॑ऽकामयत॒र्तून्थ् सृ॑जे॒येति॒ स ए॒तं प॑ञ्चरा॒त्रम॑पश्य॒त् तमाऽह॑र॒त् तेना॑यजत॒ ततो॒ वै स ऋ॒तून॑सृजत॒ य ए॒वं ॅवि॒द्वान् प॑ञ्चरा॒त्रेण॒ यज॑ते॒ प्रैव जा॑यते॒ त ऋ॒तवः॑ सृ॒ष्टा न व्याव॑र्तन्त॒ त ए॒तं प॑ञ्चरा॒त्रम॑पश्य॒न् तमाऽह॑र॒न् तेना॑यजन्त॒ ततो॒ वै ते व्याव॑र्तन्त॒-[ ]
पदपाठः (Word-by-word)
सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । वै । इ॒दम् । एकः॑ । आ॒सी॒त् । सः । अ॒का॒म॒य॒त॒ । ऋ॒तून् । सृ॒जे॒य॒ । इति॑ । सः । ए॒तम् । प॒ञ्च॒रा॒त्रमिति॑ पञ्च - रा॒त्रम् । अ॒प॒श्य॒त् । तम् । एति॑ । अ॒ह॒र॒त् । तेन॑ । अ॒य॒ज॒त॒ । ततः॑ । वै । सः । ऋ॒तून् । अ॒सृ॒ज॒त॒ । यः । ए॒वम् । वि॒द्वान् । प॒ञ्च॒रा॒त्रेणेति॑ पञ्च - रा॒त्रेण॑ । यज॑ते । प्रेति॑ । ए॒व । जा॒य॒ते॒ । ते । ऋ॒तवः॑ । सृ॒ष्टाः । न । व्याव॑र्त॒न्तेति॑ वि - आव॑र्तन्त । ते । ए॒तम् । प॒ञ्च॒रा॒त्रमिति॑ पञ्च - रा॒त्रम् । अ॒प॒श्य॒न्न् । तम् । एति॑ । अ॒ह॒र॒न्न् । तेन॑ । अ॒य॒ज॒न्त॒ । ततः॑ । वै । ते । व्याव॑र्त॒न्तेति॑ वि - आव॑र्तन्त ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ पञ्च पञ्चरात्रा भवन्ति - संवत्सराख्यः प्रथमः' अभ्यासंग्यो द्वितीयः, उपशारद स्तृतीयः, अन्तर्महाव्रतश्चतुर्थः, पुरुषमेधः पञ्चमः । तत्र प्रथमो विधीयते - संवत्सरो वा इत्यादि ।। इतरे त्वभ्यासंग्यादयः पञ्चरात्राश्शाखान्तरे द्रष्टव्याः । यदिदं दृश्यमानं ऋतुमासनक्षत्रादि, एतदात्माऽयं संवत्सरः पूर्वमेकरूपः ऋत्वादिविभागरहितः आसीत् । सोकमायत ऋत्वादीन् सृजेयेति । यद्वा - ऋतूंस्तावत्सृजेय ततश्च स्वयमेव मासादयो भविष्यन्तीति । स एतमित्यादि । गतम् । एवं विद्वान् प्रजायते प्रजावान्भवतीति ।।
2 त क्रतव इत्यादि ।। न व्यावर्तन्त विभक्तस्वभावभाजो नाभवन् एकरूपा एव सर्वेऽप्यृतवोभवन् । उक्तौ निघातसमासौ । त एतमित्यादि । गतम् । एवं विद्वान् पाप्मना भ्रातृव्येण च व्यावर्तते तद्रहित एव भवति ।।
3 सार्वसेनिरित्यादि ।। सर्वसेनः पिता तस्यापत्यं सार्वसेनिः । 'अत इञ्' । शुचिर्माता तस्या अपत्यम्, 'इतश्चानिञः' इति ढक् । पशुमान्स्यामित्यकामयत । गतमन्यत् ।।
4 बबर इत्यादि ।। प्रावाहाणिः प्रवाहणस्यापत्यं बबरो नामाकामयत । वाचः कृत्स्नायाः श्रुतिस्मृतिरूपायाः प्रवदिता प्रवक्ता व्याख्याता स्यामिति । यद्वा - वाचः प्रकर्षेण वक्ता स्यामिति । अथो इति । अपि चैनं वाचस्पतिरित्याहुः वाचः प्रभवितेत्याहुः वाचः प्रभुत्वेन लोके ख्यातिं गच्छति । उक्तौ स्वरसमासौ ।।
5 अनाप्त इत्यादि ।। अत्रैव वक्ष्यते 'पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञः' इति । तेनाभिप्रायेणेदमुच्यते । तत्पाङ्क्तं यज्ञस्वरूपं, अनाप्तः चतूरात्रः ऊनत्वादप्राप्तः । षड्रात्रस्तु पाङ्क्तस्वरूपमतिरिक्तः अतिक्रम्य वर्तते अधिकत्वात् । अथेदानीमेव पञ्चरात्रः संप्रति यज्ञः, अन्यूनानतिरिक्तपाङ्क्तस्वरूपवान्यज्ञः । प्रतिप्रत्या संगतं संप्रति, तिष्ठद्गुप्रभृतित्वादव्ययीभावः, निरुदकादिर्द्रष्टव्यः । संप्रत्येवेति । अन्यूनानतिरिक्तयज्ञस्वरूपवतेत्यर्थः । पञ्च वा ऋतव इति । हेमन्तशिशिरयोरेकत्वाभिप्रायमिदम् । ऋत्वात्मनि संवत्सरे प्रतिष्ठितो भवति पञ्चसंख्यान्वयात् । अथो अपि च पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञः पङ्क्तिप्रभवत्वाद्धानादिपञ्चकप्रभवत्वाद्वा । उत्सादित्वादञ् ।।
6 त्रिवृदित्यादि ।। त्रिवृदग्निष्टोमः प्रथममहर्भवति तेजोवरुद्ध्यै तद्भवति त्रिवृता सहोत्पन्नत्वात् । पञ्चदशो द्वितीयमहः उक्थ्यः इन्द्रियस्यावरुद्ध्यै, इन्द्रियेण सहोत्पन्नत्वात् । सप्तदशस्तृतीयमहः अन्नाद्यस्यावरुद्ध्यै, अनयोरन्नस्थाने उत्पन्नत्वात् । अथो अपि च तेन सप्तदशेनाह्ना प्रजायते तस्य प्रजाहेतुत्वात् । पञ्चविंशोग्नि- ष्टोमः चतुर्थमहः प्रजापतेराप्त्यै प्रजापतेः पञ्चविंशतित्वात् । महाव्रतवानयं भवति अह्नोसंभवात् । महाव्रतधर्मवान् तदीयस्तोत्रवानित्यन्ये । अन्नाद्यस्यावरुद्धयै, तस्यान्नहेतुत्वात् । यथोक्तं महाव्रते 'तदन्नं पञ्चविंशमभवत्' इति । विश्वजित् सर्वपृष्ठोतिरात्र पञ्चममहः । विश्वजित् सहस्रदक्षिणत्वादिधर्मः सर्वपृष्ठः रथन्तरबृहद्वैरूपवैराजशाक्वररैवतपृष्ठः सर्वस्याभिजयार्थं भवति । सर्वपृष्ठः 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । त्रिवृदादयो निरुक्ताः ।।
इति सप्तमे प्रथमे दशमोनुवाकः ॥