अनुवाकः 14 TS 7.1.14

(A14)

(अ॒ग्नये॑ वा॒यवे॒ऽपां मोदा॒येन्द्रा॑य॒ त्रयो॑विꣳशतिः)

अनुवाकः 14 - Complete Audio

TS 7.1.14 - स्वरानुगामी

0:00 0:00
PS1.1 अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॑
PS1.2 वा॒यवे॒ स्वाहा॒ ऽपां मोदा॑य॒
PS1.3 स्वाहा॑ सवि॒त्रे स्वाहा॒ सर॑स्वत्यै॒
PS1.4 स्वाहे-न्द्रा॑य॒ स्वाहा॒ बृह॒स्पत॑ये॒ स्वाहा॑
PS1.5 मि॒त्राय॒ स्वाहा॒ वरु॑णाय॒ स्वाहा॒
PS1.6 सर्व॑स्मै॒ स्वाहा᳚

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.1.14.1 TS 7.1.14.1
अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॑ वा॒यवे॒ स्वाहा॒ ऽपां मोदा॑य॒ स्वाहा॑ सवि॒त्रे स्वाहा॒ सर॑स्वत्यै॒ स्वाहे-न्द्रा॑य॒ स्वाहा॒ बृह॒स्पत॑ये॒ स्वाहा॑ मि॒त्राय॒ स्वाहा॒ वरु॑णाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
अ॒ग्नये᳚ । स्वाहा᳚ । सोमा॑य । स्वाहा᳚ । वा॒यवे᳚ । स्वाहा᳚ । अ॒पाम् । मोदा॑य । स्वाहा᳚ । स॒वि॒त्रे । स्वाहा᳚ । सर॑स्वत्यै । स्वाहा᳚ । इन्द्रा॑य । स्वाहा᳚ । बृह॒स्पत॑ये । स्वाहा᳚ । मि॒त्राय॑ । स्वाहा᳚ । वरु॑णाय । स्वाहा᳚ । सर्व॑स्मै । स्वाहा᳚ ॥
पदसंख्या: 23
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ पूर्वाश्वस्य स्तोत्रियाः - अग्नये स्वाहेत्यादि ।। निगदसिद्धाः । अपां मोदः पर्जन्यः । सवित्रे 'उदात्तयणः' इति विभक्तेरुदात्तत्वम् । बृहस्पतये । सुट्स्वरावुक्तौ । सर्वस्मै अनुक्ताय प्रजापत्यादये । पूर्णाहुतिः । एवं सर्वत्र ।।
इति सप्तमे प्रथमे चतुर्दशोनुवाकः ॥