पञ्चशत् 1 #
ज॒मद॑ग्निः॒ पुष्टि॑काम-श्चतूरा॒त्रेणा॑-यजत॒ स ए॒तान् पोषाꣳ॑ अपुष्य॒त् तस्मा᳚त् पलि॒तौ जाम॑दग्नियौ॒ न सं जा॑नाते ए॒ताने॒व पोषा᳚न् पुष्यति॒ य ए॒वं ॅवि॒द्वाꣳश्च॑तूरा॒त्रेण॒ यज॑ते पुरोडा॒शिन्य॑ उप॒सदो॑ भवन्ति प॒शवो॒ वै पु॑रो॒डाशः॑ प॒शूने॒वाव॑ रु॒न्धे ऽन्नं॒ ॅवै पु॑रो॒डाशोऽन्न॑मे॒वाव॑ रुन्धे ऽन्ना॒दः प॑शु॒मान् भ॑वति॒ य ए॒वं ॅवि॒द्वाꣳश्च॑तूरा॒त्रेण॒ यज॑ते ॥
पदपाठः (Word-by-word)
ज॒मद॑ग्निः । पुष्टि॑काम॒ इति॒ पुष्टि॑ - का॒मः॒ । च॒तू॒रा॒त्रेणेति॑ चतुः - रा॒त्रेण॑ । अ॒य॒ज॒त॒ । सः । ए॒तान् । पोषान्॑ । अ॒पु॒ष्य॒त् । तस्मा᳚त् । प॒लि॒तौ । जाम॑दग्नियौ । न । समिति॑ । जा॒ना॒ते॒ इति॑ । ए॒तान् । ए॒व । पोषान्॑ । पु॒ष्य॒ति॒ । यः । ए॒वम् । वि॒द्वान् । च॒तू॒रा॒त्रेणेति॑ चतुः - रा॒त्रेण॑ । यज॑ते । पु॒रो॒डा॒शिन्यः॑ । उ॒प॒सद॒ इत्यु॑प - सदः॑ । भ॒व॒न्ति॒ । प॒शवः॑ । वै । पु॒रो॒डाशः॑ । प॒शून् । ए॒व । अवेति॑ । रु॒न्धे॒ । अन्न᳚म् । वै । पु॒रो॒डाशः॑ । अन्न᳚म् । ए॒व । अवेति॑ । रु॒न्धे॒ । अ॒न्ना॒द इत्य॑न्न - अ॒दः । प॒शु॒मानिति॑ पशु - मान् । भ॒व॒ति॒ । यः । ए॒वम् । वि॒द्वान् । च॒तू॒रा॒त्रेणेति॑ चतुः-रा॒त्रेण॑ । यज॑ते ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ जामदग्न्यं चतूरात्रं विधातुमाह - इतरौ तु वसिष्ठसंसर्पविश्वामित्रसंजयाख्यौ चतूरात्रौ शाखान्तरे द्रष्टव्यौ । जमदग्निरित्यादि । पुष्टिकामः अन्नपशुपुत्रादिवृद्धिकामश्चतूरात्रेणायजत । चतुर्णामह्नां समाहारश्चतूरात्रः । 'अहस्सर्वैकदेश' इत्यादिनाऽच्समासान्तः । तत एतान्पोषानपुष्यत् । सामान्यपुष्टेर्विशेषपुष्टिः कर्मेत्युक्तम् । तस्मादित्यादि । अवधारणमत्र द्रष्टव्यम् । पलितावेव केवलमिति महापुष्टिरहितौ वृधैव पलितावस्थां प्राप्तौ दरिद्रौ जामदग्न्यौ । पितापुत्रौ न संजानाते अद्यत्वेऽपि न जायेते; समासादिताशेषपुष्टेः जमदग्नेरन्वये जातत्वात्, सर्वेषां सुपुष्टत्वात् । जनेर्व्यत्ययेन श्ना । यद्वा - जानातेरेव कर्मणि लट्, व्यत्ययेन श्ना । तादृशौ न ज्ञायेते, न स्त एवेति यावत् । यद्वा - 'संप्रतिभ्यां' इत्यात्मनेपदम् । वृधा पलितात्मानौ जामदग्न्यौ न संजानाते न प्रतिजानीते । अस्त्वेकः पुष्टिरहितः तथाऽपि आनन्तर्येण द्वौ दरिद्रौ न स्त इति ख्यापनार्थं द्वयोरुपादानम् । जमदग्निशब्दो गर्गादिः । एतानेवेत्यादि । विदुषः ।।
2 पुरोडाशिन्य इत्यादि ।। अत्रोक्तमाचार्येण - 'आग्नेय एककपालः आश्विनो द्विकपालः वैष्णवस्त्रिकपालः सौम्यश्चतुष्कपालः सावित्रः पञ्चकपालो धात्रष्षट्कपालः मारुतस्सप्तकपालः बार्हस्पत्योष्टाकपालः मैत्रो नवकपालो वारुणो दशकपाल ऐन्द्वाग्न एकादशकपालो वैश्वदेवो द्वादशकपालो दर्विहोमा भवन्ति' इति । एवमौत्तर्ययुक्ता द्वादशोपसदो भवन्तीति । पशवो वा इत्यादि । गतम् ।।
इति सप्तमे प्रथमे नवमोनुवाकः ॥