पञ्चशत् 1 #
सोमो॒ वै स॒हस्र॑मविन्द॒त् तमिन्द्रो ऽन्व॑विन्द॒त् तौ य॒मो न्याग॑च्छ॒त् ताव॑ब्रवी॒दस्तु॒ मेऽत्राऽपीत्यस्तु॒ ही(3) इत्य॑ब्रूताꣳ॒॒ स य॒म एक॑स्यां ॅवी॒र्यं॑ पर्य॑पश्यदि॒यं ॅवा अ॒स्य स॒हस्र॑स्य वी॒र्यं॑ बिभ॒र्तीति॒ ताव॑ब्रवीदि॒यं ममास्त्वे॒तद्-यु॒वयो॒रिति॒ ताव॑ब्रूताꣳ॒॒ सर्वे॒ वा ए॒तदे॒तस्यां᳚ ॅवी॒र्यं॑ - [ ]
पदपाठः (Word-by-word)
सोमः॑ । वै । स॒हस्र᳚म् । अ॒वि॒न्द॒त् । तम् । इन्द्रः॑ । अन्विति॑ । अ॒न्वि॒न्द॒त् । तौ । य॒मः । न्याग॑च्छ॒दिति॑ नि - आग॑च्छत् । तौ । अ॒ब्र॒वी॒त् । अस्तु॑ । मे॒ । अत्र॑ । अपीति॑ । इति॑ । अस्तु॑ । ही(3) । इति॑ । अ॒ब्रू॒ता॒म् । सः । य॒मः । एक॑स्याम् । वी॒र्य᳚म् । परीति॑ । अ॒प॒श्य॒त् । इ॒यम् । वै । अ॒स्य । स॒हस्र॑स्य । वी॒र्य᳚म् । बि॒भ॒र्ति॒ । इति॑ । तौ । अ॒ब्र॒वी॒त् । इ॒यम् । मम॑ । अस्तु॑ । ए॒तत् । यु॒वयोः᳚ । इति॑ । तौ । अ॒ब्रू॒ता॒म् । सर्वे᳚ । वै । ए॒तत् । ए॒तस्या᳚म् । वी॒र्य᳚म् ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 इदानीं प्रकारान्तरेण सहस्रतमी स्तूयते - सोमो वा इत्यादि ।। सोमो गवां सहस्रमलभत । इन्द्रोपीमं सोममागम्य तदेव गवां सहस्रमविन्दत् । एवं तदुभयोरभवत् भागः तौ सोमेन्द्रौ यमोन्यागच्छत् निकामयमान आगच्छत् । 'गतिर्गतौ' इति गतेरनुदात्तत्वम्, समासश्च । तौ चाब्रवीत् - ममाप्यत्र गवां सहस्रे अंशित्वमस्त्विति । अथास्तु हि इति तमब्रूताम् । 'प्रतिश्रवणे च' इति प्लुतः, अभिपूजिते वा । ततः प्रतिश्रुतांशो यमः एकस्यां सहस्रतम्यां सर्वस्मादपि गोसमूहात् वीर्यं पर्यपश्यत् कार्त्स्न्येनापश्यत् इयमेकैव अस्य सहस्रस्य वीर्यं बिभर्तीति । एवं पश्यन् तौ सोमेन्द्रौ यमोब्रवीत् - इयमेकैव ममास्तु एतत्सहस्रं युवयोरस्त्विति । 'यूष्मदस्मदोर्ङसि' इति ममशब्द आद्युदात्तः ।।
'अथ तच्छ्रुत्वा विदिताभिप्रायौ तावब्रूताम् - सर्वे वयमेतस्यां विद्यमानं वीर्य सहस्रसम्मितं परिपश्यामः, अंशं च हरामहै अंशनियमं चानयैव कुर्म इतीत्थं कृतमतयस्सर्वेऽपि सोमेन्द्रयमाः तस्यामंशमाहरन्त तामेव नियमहेतुं कृत्वा स्वंस्वंमंश गृहीतवन्तः ।।
3 कथमित्याह - तामित्यादि ।। सोमो यादृशीं त्वामर्हति यावतीश्च गा अर्हति तदनुरूपा उदेहि उदयं प्रतिपद्यस्वेति तामप्सु प्रावेशयन् । पूर्ववद्गतिस्वरसमासौ । सेत्यादि । रोहिणी रोहितवर्णा । 'वर्णादनुदात्तात्' इति ङीप् । पिङ्गला पिङ्गलाक्षी एकहायनी एकवर्षा । 'दामहायनान्ताच्च' इति ङीप् । ईदृशी भूत्वा रूपं चैतदनुगुणं कृत्वा त्रयस्त्रिंशदधिकशतत्रयसङ्ख्याभिर्गोभिस्सह उदैत् उदगच्छत् । पूर्ववन्निधातसमासौ । तस्मादित्यादि । गतम् ।। त्रथस्त्रिंशता चैवेत्यादि । तदात्मकत्वात्तासाम् । ततस्सुक्रीतेन सोमेन यजते । प्रादिसमासे 'गतिरनन्तरः' इति स्वरः ।।
4 तामित्यादि ।। इन्द्रायानुरूपमुदेहीति तां पुनरप्सु प्रावेशयन् । रोहिणी उक्तलक्षणा । लक्ष्मणा लक्ष्मवती । पामादित्वान्नप्रत्ययः । पष्ठौही चतुर्वर्षा । पष्ठं वहतीति 'वहश्च' इति ण्विः, 'वाहः' इति ङीप्, 'वाह ऊठ्' इत्यूठ्, 'एत्येधत्यूठ्सु' इति वृद्धिः । वार्त्रघ्नी द्विरूपेत्येके । इन्द्ररूपधारिणीत्यन्ये । गतमन्यत् । 'षपूर्वस्य' इत्यादिना अल्लोपः, वृषादित्वादाद्युदात्तत्वम् । सा दत्ता भवतीति सैवैका दत्ता त्रयस्त्रिंशदधिकशतत्रयतुल्या भवतीति । क्व पुनरियं दातव्या भवति? उक्तमाचार्येण - 'सङ्ग्रामं जित्वा राजन्ये एतां दद्यात्' इति । तत्र वचनात् प्रकरणं बाध्यते ।।
5 पुनरपि प्रावेशयन् यमायेति ।। जरती वृद्धा । जीर्यतेरतृन् । मूर्खा रोषणशीला । तज्जघन्या जघन्यरूपा जाता । दुश्शीलेत्यन्ये । सैव जघन्या तज्जघन्या, नेदृश्यन्या जघन्यास्तीति । तस्मादित्यादि । ईदृशमिनुस्तरणीं पितृमेधे कुर्वीत । मृताय या हन्यते सानुस्तरणी । अनु स्तीर्यते इत्यनुस्तरणिः, कर्मणि ल्युट् । अत्रापि वचनात्प्रकरणबाधः । साऽमुष्मिन्निति । सा एवैका गौरमुष्मिन् लोके अस्य दातुः मृतस्य वा त्रयस्त्रिंशदधिक- शतत्रयसखङ्यया परिणता भोगाय भवतीति ।।
6 वागेवेत्यादि ।। एवं दर्शितरूपत्रया एकोनसहस्रा या सहस्रतमी सा वागेव स्वयं प्रकृष्टतमेति यावत् । तस्माद्वरो देयः । सहस्रदक्षिणेऽमुष्मिन् सहस्रं दत्तं भवतीति भावः । कः पुनस्स द्रव्यविशेष इत्याह - सा हीति । एषा खलु सहस्रतमी उत्कृष्टो द्रव्यविशेषः, सर्वस्माद्गोसहस्राद्वागात्मकत्वात् । तस्मात्सैवैका दत्ता अस्य दातुस्सहस्रं भवति । तस्मादेव हेतोर्वरो विशिष्टो द्रव्यविशेषः सहस्रतम्यादिः न प्रतिगृह्यः न प्रतिगृहीतव्यः । 'प्रत्यपिभ्यां ग्रहेः' इति क्यप् । हेतुमाह - सा हीति । सा खलु सहस्रतमी विशिष्टद्रव्यात्मिका, तामेव चायं ददाति, तस्मात्तत्परिग्रहे सहस्रमस्य प्रतिगृहीतं भवति । ततश्च सहस्रस्य प्रतिग्रहदोषः ।।
7 समाधत्ते - इयं वर इति ।। 'इयं वरः' इति सहस्रतमीं प्रतिग्राहयिता ब्रूयात् । अथान्यामन्यो ब्रूयात् 'इयं मम' इति । तथा सति 'इयं वरः' इति वचनात् तेन सहस्रं दत्तं भवति । इयं ममेत्यन्यस्या वचनात् इतरेण सहस्रं प्र[मप्र]तिगृहीतं भवति ।।
8 उभयतएनीत्यादि ।। व्यत्ययेन 'नञ्कुनिपातानाम्' इति वचनात्समासान्तोदात्तत्वमेव । तदाहुरिति ।। तत्राहुरन्ये इत्यर्थः । अन्यतः एकपार्श्वे शुक्ला सहस्रतमी स्यात् । परस्तात् इतरस्मिन् भागे सहस्रभूतमेतं शुक्लं स्यात् । उभयमिदं तुल्यं, तस्यास्सहस्रेण तुल्यत्वात् इत्येवमस्यास्स्तुतिः । पक्षान्तरमाह - यैवेति । या वरद्रव्यात्मिका कल्याणगुणवती रूपसमृद्धा शोभनरूपा च । 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । सा स्याद्देया सहस्रमध्ये सा हि तद्रूपा हि वरो भवति । तस्मात्सा दातुस्ममृद्ध्यै भवति । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् ।।
9 तामुत्तरेणेत्यादि ।। अग्नीधश्शरणमाग्नीघ्रम् । 'अग्नीधश्शरणे च' इति रण् । तदुत्तरेण तां गां पर्याणीय परित आनीयाहवनीयस्यान्ते समीपे 'आ जिघ्र' इति मन्त्रेण द्रोणकलशमवघ्रापयेत् । इयं च सप्तपदा शक्वरी सर्वे च पादा अष्टाक्षराः । हे महि मंहनीये कलशमाजिघ्र आभिमुख्येन जिघ्र । उरुधारा विस्तीर्णधारा त्वं पयस्वती बहुक्षीरा, त्वां इन्दवस्सोमरसाः आविशन्तु समुद्रमिव नद्यः सा त्वमेवंविशिष्टा मां सहस्र आभज स्वामित्वेन स्थापय । निमित्तसप्तमी वा । सहस्रार्थमाभज । प्रजया पशुभिश्च सह त्वत्प्रसादात् पुनर्मा विशतात् दानारन्तरमेव गोसहस्रलक्षणा रयिर्मां प्राप्नोतु । प्रजयेत्यादि ।।
10 तया सहेत्यादि ।। आग्नीध्रं परेत्य परागत्य तस्याः पुरस्तात् प्रतीच्यां तिष्ठन्त्यां प्रत्यङ्मुख्यां 'उभा जिग्यथुः' इति जुहोति - त्रिष्टुबियं 'प्रसो अग्ने' इत्यत्र व्याख्याता । एवं दर्शितौ उभावपि युवां सर्वधा जिग्यथुः जयथः न कदा चिदपि पराजयेथे । तथा हि - एनयोर्मध्ये कतरश्च एकतरोपि न कदाचित्पराजिग्ये । किं च - हे विष्णो त्वं च इन्द्रश्च यदपस्पृधेथां स्पर्धां कृतवन्तौ यथा 'तस्यामिन्द्रश्च विष्णुश्च व्यायच्छे- ताम्' इति तद्गवां सहस्रं त्रेधा व्यैरयेथां विभक्तवन्तौ विभज्य च व्यवस्यितवन्तौ द्विभागे इन्द्रः तृतीये त्वमिति ।।
11 तदिदमनेन मन्त्रेणोक्तमिति दर्शयति - त्रेधा विभक्तं वा इत्यादि ।। गतम् । साहस्रीं सहस्रस्य संबन्धिनीं सहस्रतमीमेवैनां करोति त्रेधाविभक्तसहस्रानुवादेन । किं च - सहस्रस्य मात्रां तुल्यप्रमाणामेनां करोति । मीयतेऽनयेति मात्रा उपमानम् । रूपाणीत्यादि । यान्यश्वमेधे प्रसिद्धानि 'अञ्जन्नेताय' इत्यादीनि रूपाणि तानि यथार्थमूहित्वा जुहोति रूपसमृद्धामेनां करोति ।।
12 तस्या उपोत्थाय कर्णसमीपमागत्य स्थित्वा जपेत् - इडे रन्ते इति इयं विराट्चतुष्पदा ।। सर्वाण्येतान्यामन्त्रितानि 'आमन्त्रितं पूर्वमविद्यमानवत्' इत्यविद्यमानत्वान्निघाताभावः, ततष्षाष्टिकमाद्युदात्तत्वम् । अष्टौ गाव एताः, तादात्म्येन संस्तूयते । तेन 'नामन्त्रिते समानाधिकरणम्' इति निषेधाभावः । तेन पदात्परत्वाभावात् षाष्टिकमाद्युदात्तत्वमेव । हे इडे अन्नवति, रन्ते रतिहेतो, अदिते अखण्डिते, सरस्वति सरणवति, प्रिये सर्वस्य प्रीणयित्रि, प्रेयसि प्रियतरे रत्नादेरपि, महि महनीये, विश्रुति विशेषेण श्रुते । 'क्तिच्क्तौ च' इति क्तिच्, 'कृदिकारादक्तिनः' इति ङीष् । हे अघ्निये अहन्तव्ये आयुष्मति एतानि तव नामानि, सा त्वं किं नाम न कुर्याः, किं वा कर्तुं न शक्यं त्वया । सा तादृशी महानुभावा त्वं देवेषु सुकृतं शोभनकर्माणं मां ब्रूयात् आवेदयतादित्याशास्ते । 'सुकर्मपाप' इत्यादिना क्विप् । देवेभ्य इत्यादि । एवमनेन प्रार्थिता सा देवेम्य एवमावेदयत्येव । आवेदनानन्तरं च एनं देवा बुद्ध्यन्ते सुकर्माणं निश्चिन्वन्ति ।।
इति सप्तमे प्रथमे षष्ठोनुवाकः ॥