पञ्चशत् 1 #
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ स त्वै य॑जेत॒ यो᳚ऽग्निष्टो॒मेन॒ यज॑मा॒नोऽथ॒ सर्व॑स्तोमेन॒ यजे॒तेति॒ यस्य॑ त्रि॒वृत॑मन्त॒र्यन्ति॑ प्रा॒णाꣳ-स्तस्या॒न्तर्य॑न्ति प्रा॒णेषु॒ मेऽप्य॑स॒दिति॒ खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒ यस्य॑ पञ्चद॒शम॑न्त॒र्यन्ति॑ वी॒र्यं॑ तस्या॒न्तर्य॑न्ति वी॒र्ये॑ मेऽप्य॑स॒दिति॒ खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒ यस्य॑ सप्तद॒श-म॑न्त॒र्यन्ति॑ - [ ]
पदपाठः (Word-by-word)
ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ । सः । तु । वै । य॒जे॒त॒ । यः । अ॒ग्नि॒ष्टो॒मेनेत्य॑ग्नि - स्तो॒मेन॑ । यज॑मानः । अथ॑ । सर्व॑स्तोमे॒नेति॒ सर्व॑ - स्तो॒मे॒न॒ । यजे॑त । इति॑ । यस्य॑ । त्रि॒वृत॒मिति॑ त्रि - वृत᳚म् । अ॒न्त॒र्यन्तीत्य॑न्तः-यन्ति॑ । प्रा॒णानिति॑ प्र - अ॒नान् । तस्य॑ । अ॒न्तः । य॒न्ति॒ । प्रा॒णेष्विति॑ प्र - अ॒नेषु॑ । मे॒ । अपीति॑ । अ॒स॒त् । इति॑ । खलु॑ । वै । य॒ज्ञेन॑ । यज॑मानः । य॒ज॒ते॒ । यस्य॑ । प॒ञ्च॒द॒शमिति॑ पञ्च - द॒शम् । अ॒न्त॒र्यन्तीत्य॑न्तः - यन्ति॑ । वी॒र्य᳚म् । तस्य॑ । अ॒न्तः । य॒न्ति॒ । वी॒र्ये᳚ । मे॒ । अपीति॑ । अ॒स॒त् । इति॑ । खलु॑ । वै । य॒ज्ञेन॑ । यज॑मानः । य॒ज॒ते॒ । यस्य॑ । स॒प्त॒द॒शमिति॑ सप्त - द॒शम् । अ॒न्त॒र्यन्तीत्य॑न्तः - यन्ति॑ ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अधुना स्तोमान्तरयं निन्दन्विशिष्टरूपतामस्य ज्ञात्वैव यष्टव्यमनेनेति दर्शयितुमाह - ब्रह्मवादिन इत्यादि ।। स एव यष्टुमर्हति । 'अर्हे कृत्यतृचश्च' इति यजेर्लिङादि । इतः पूर्वं योग्निष्टोमेन यजमानस्सन् इदानीं सर्वस्तोमेन यजेत । 'शकि लिङ्च' इति द्वितीये पर्याये लिङ् । चतुष्टोमेनाप्यन्तरितेन सर्वस्तोमेन स्तोमानां याथात्म्यं विदित्वा अप्रमत्तो यष्टुं शक्नोतीति ब्रह्मवादिन आहुः । संहितायां तोरन्तलोपश्छान्दसः, उक्तं च प्रातिशाख्ये - 'तुनुपूर्व उदात्तयोर्वकारः' इति ।।
2 यस्येत्यादि ।। अन्तर्यन्ति प्रमादादुत्सृजन्ति । 'अन्तरपरिग्रहे' इति गतित्वात् 'तिङि चोदात्तवति' इति अन्तश्शब्दो निहन्यते, 'उदात्तवता तिङा' इति समासः, प्राणान्यजमानस्योत्सृजन्ति विनाशयन्ति साम्यात् । ननु यद्यन्तरिताः प्राणाः प्रेप्सितस्य स्वर्गस्य का गतिरित्याह - प्राणेष्विति । न केवलं स्वर्ग एव अपि तु प्राणेष्वपि मे मम भागित्वमसत् अस्तीति खलु वै यज्ञेनानेन अग्निष्टोमेन यजमानो यजते सर्वेभ्यः कामेभ्योग्निष्टोम इति । यद्वा - प्राणेष्विति निमित्तसप्तमी । न केवलं स्वर्गार्थमेव, अपि तु प्राणार्थमपि ममायं यज्ञोस्तु इति यजमानो यजते, एवं सर्वत्र द्रष्टव्यम् ।।
3 वीर्यमिति ।। पञ्चदशस्य वीर्यस्थानादुत्पन्नत्वात् ।।
4 प्रजामिति ।। प्रजननसाधनत्वात्सप्तदशस्य ।।
5 प्रतिष्ठामिति ।। एकविंशस्य पद्भ्यामुत्पन्नत्वात् ।।
6 त्रिणवमिति ।। त्रीणि नवकानि परिमाणमस्येति पूर्ववत् डः । सप्तविंशस्तोत्रियस्त्रिणवः । 'पर्वूपदात्संज्ञायामगः' इति णत्वम् । ननु त्रिणवत्रयस्त्रिंशयोः चतुष्टोमेऽस्मिन् कः प्रसंगः । सत्यम्, एतयोरप्यन्तरयदोषश्रवणात् एतावप्यग्निष्टोमे ऋद्ध्या संपाद्याविति भावः । तत्कथमेतौ संपादितौ स्यातामिति? उच्यते -आज्यानि चत्वारि पञ्चदशान्नानि संभूय षष्टिस्स्तोत्रिया भवन्ति ताश्च द्वौ त्रिंशद्वर्गौ तत्रैकस्मात्तिस्र उद्ध्रियन्ते एताश्चेतरत्र दीयन्ते । एवमेतौ संपन्नावनन्तरितौ भवतः । ततश्च तदन्तरयदोषो न भविष्यतीति । ऋतूनिति । नक्षत्रसंख्यान्वयेन संवत्सरात्मकत्वात्त्रिणवस्य । ऋत्वन्तरये च सर्वपुरुषार्थलोपः । नक्षत्रियामिति । नक्षत्रसमूहात्मिकां विराजमन्तर्यन्ति । 'नक्षत्राद्घः' इति समूहे घः । सप्तविंशतिनक्षत्राणीति तिस्रो विराजो निवृतः एकैकाक्षरोनत्वात् । एकैव त्रिवत् त्रिपदा विराट् । त्रिणवत्वस्यान्तरये नक्षत्राण्येवान्तरितानि स्युः ततोस्य सर्वार्थलोपः । यद्वा - जीवितविषयत्वात् जन्मदिनानामावृत्त्या त्रिंशन्नक्षत्राणि भवन्तीति पूर्णा एव तिस्रो विराजः । तदन्तरये जीवितलोप इति ।।
7 त्रयस्त्रिंशमिति ।। त्रयश्च त्रिंशच्च त्रयस्त्रिंशत्, 'त्रेस्त्रयः' इति त्रयसादेशः । तावत्यस्स्तोत्रियाः परिमाणमस्येति पूर्ववत् डः । देवता इति । तासां त्रयस्त्रिंशत्वात् द्युपृथिव्यन्तरिक्षस्थानां प्रत्येकमेकादशत्वात् ।।
8 एवं सर्वप्रकृतिरग्निष्टोमः सगुणो विहितः । अथ विकृतीनामप्युदाहरणार्थं अतिरात्रो यज्ञक्रतूनां परमो विधीयते । यथोक्तं - 'अतिरात्रः परमो यज्ञक्रतूनाम्' इति । तदर्थं तद्गतं कंचिद्गुणविशेषं विधातुमाह - यो वा इत्यादि ।। अवमः अल्पः परमः उत्तमः । यद्वा - अवमः आद्यः परमः अन्त्यस्त्रिवृत् स्तोमानामवमः सोतिरात्रे परमो भवतीति 'त्रिवृद्रथन्तरसन्धिः' इति सन्धिस्तोत्रस्य त्रिवृत्त्वात् । एवं वेदिता परमतामुत्तमतां गच्छति । तस्मात् तथा कर्तव्यमिति शेषः । एवंगुणकोतिरात्रः कर्तव्य इति विधिरनुमीयते उपलक्षागत्वाच्च सर्वेऽप्येकाहा विहिता भवन्तीति ।।
इति सप्तमे प्रथमे तृतीयोनुवाकः ॥