पञ्चशत् 1 #
वि॒भूर्मा॒त्रा प्र॒भूः पि॒त्राश्वो॑ऽसि॒ हयो॒ऽस्यत्यो॑ऽसि॒ नरो॒ऽस्यर्वा॑ऽसि॒ सप्ति॑रसि वा॒ज्य॑सि॒ वृषा॑ऽसि नृ॒मणा॑ असि॒ ययु॒र्नामा᳚स्यादि॒त्यानां॒ पत्वान्वि॑ह्य॒ग्नये॒ स्वाहा॒ स्वाहे᳚न्द्रा॒ग्निभ्याꣳ॒॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा॒ विश्वे᳚भ्यो दे॒वेभ्यः॒ स्वाहा॒ सर्वा᳚भ्यो दे॒वेता᳚भ्य इ॒ह धृतिः॒ स्वाहे॒ह विधृ॑तिः॒ स्वाहे॒ह रन्तिः॒ स्वाहे॒ ( ) -ह रम॑तिः॒ स्वाहा॒ भूर॑सि भु॒वे त्वा॒ भव्या॑य त्वा भविष्य॒ते त्वा॒ विश्वे᳚भ्यस्त्वा भू॒तेभ्यो॒ देवा॑ आशापाला ए॒तं दे॒वेभ्योऽश्वं॒ मेधा॑य॒ प्रोक्षि॑तं गोपायत ॥
पदपाठः (Word-by-word)
वि॒भूरिति॑ वि - भूः । मा॒त्रा । प्र॒भूरिति॑ प्र - भूः । पि॒त्रा । अश्वः॑ । अ॒सि॒ । हयः॑ । अ॒सि॒ । अत्यः॑ । अ॒सि॒ । नरः॑ । अ॒सि॒ । अर्वा᳚ । अ॒सि॒ । सप्तिः॑ । अ॒सि॒ । वा॒जी । अ॒सि॒ । वृषा᳚ । अ॒सि॒ । नृ॒मणा॒ इति॑ नृ - मनाः᳚ । अ॒सि॒ । ययुः॑ । नाम॑ । अ॒सि॒ । आ॒दि॒त्याना᳚म् । पत्व॑ । अन्विति॑ । इ॒हि॒ । अ॒ग्नये᳚ । स्वाहा᳚ । स्वाहा᳚ । इ॒न्द्रा॒ग्निभ्या॒मिती᳚न्द्रा॒ग्नि - भ्या॒म् । स्वाहा᳚ । प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । स्वाहा᳚ । विश्वे᳚भ्यः । दे॒वेभ्यः॑ । स्वाहा᳚ । सर्वा᳚भ्यः । दे॒वेता᳚भ्यः । इ॒ह । धृतिः॑ । स्वाहा᳚ । इ॒ह । विधृ॑ति॒रिति॒ वि - धृ॒तिः॒ । स्वाहा᳚ । इ॒ह । रन्तिः॑ । स्वाहा᳚ ( ) । इ॒ह । रम॑तिः । स्वाहा᳚ । भूः । अ॒सि॒ । भु॒वे । त्वा॒ । भव्या॑य । त्वा॒ । भ॒वि॒ष्य॒ते । त्वा॒ । विश्वे᳚भ्यः । त्वा॒ । भू॒तेभ्यः॑ । देवाः᳚ । आ॒शा॒पा॒ला॒ इत्या॑शा - पा॒लाः॒ । ए॒तम् । दे॒वेभ्यः॑ । अश्व᳚म् । मेधा॑य । प्रोक्षि॑त॒मिति॒ प्र - उ॒क्षि॒त॒म् । गो॒पा॒य॒त॒ ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अश्वस्य दक्षिणे कर्णे यजमानमश्वनामानि वाचयति - विभूरित्यादि ।। धारणान्माता पृथिवी । तत्र वृष्ट्या प्रजा उत्पादयतीति पिता द्यौः । ब्राह्मणं च भवति 'इयं वै माता । असौ पिता' इति । तत्र मात्रा पृथिव्या त्वं विभूरसि विशेषण भवसि विशिष्टोसि । पित्रा दिवा च त्वं प्रभूरसि प्रकर्षेण भवसि प्रकृष्टोसि । 'उदात्तयणः' इति तृतीयाया उदात्तत्वम् । अश्वः व्यापकोसि अध्वनाम् । हयः क्रमणवानसि । हय गतिक्रान्त्योः । पचाद्यजन्तः, वृषादित्वादाद्युदात्तत्वम् । अत्यः सातत्येन गन्तुं समर्थोसि । अततेः 'कृत्यल्युटो बहुलम्' इति कर्तरि यत्,
'यतोऽनावः' इत्याद्युदात्तत्वम् । नरोसि कर्मणां नेताऽसि । नृ नये, पूर्ववदच्, स्वरश्च । अर्वा अरणकुशलोसि । अर्तेर्वनिप्, साप्तिः सर्वत्र समवेतोसि । षप समवाये, क्तिन् । वाजी वेगवानसि । वृषा वर्षिता सेक्ता वाऽसि । 'कनिन्युवृषि' इत्यादिना कनिन् । नृमणाः नृषु मना यस्य, नॄन् मन्यते उपकरोति, नृभिर्वा मन्यसे उपकुर्विति । 'गतिकारकयोरपि' इत्यसुन् 'परादिश्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम्, 'पूर्वपदात्संज्ञयामगः' इति णत्वम् । ययुः यानशलिः । 'यो द्वे च' इत्युप्रत्ययः । ययुरित्यश्वमेधयोग्योश्व इत्याहुः । ययुर्नाम त्वमसि । ब्राह्मणं च 'एतद्वा अश्वस्य प्रियं नामधेयम्'35 इति ।।
2 उपतिष्ठते - आदित्यानामिति ।। आदित्यानां यत्पत्व पतनं तदनुगच्छ शीघ्रं गच्छेति यावत् । यद्वा - आदित्यानां यत्पत्व मार्गः व्योम तदनु गच्छ 'उर्वन्तरिक्षमन्विहि' इति यावत् । पतेरौणादिको वनिप् ।।
3 पूर्वहोमात्पुरस्ताद्भागान् जुहोति पञ्च - अग्नये स्वाहेत्यादि ।। प्रथमः उपरिष्टात्स्वाहाकारः । अन्ये पुरस्तात्स्वाहाकाराः । इन्द्राग्निशब्दे 'नोत्तरपदेऽनुदात्तादौ' इति देवताद्वन्द्वलक्षणस्य स्वरस्य प्रतिषेधः ।।
4 सायमश्वस्य पत्सु चतस्रो धृतीर्जुहोति - इह धृतिरित्यादि ।। इहास्मिन् पादे धृतिर्धारणं तृप्तिर्वाऽस्तु । इह विधृतिः विद्यापुत्रादिसंपत्प्रभवा धृतिरस्तु । रन्तिः रतिसाधनभूता गवादयः सन्तु । 'क्तिच्क्तौ च' इति क्तिच् 'न क्तिचि दीर्घश्च' इति नलोपाभावः । इह रमतिः इह रमणमस्तु । रमतेरौणादिकोतिप्रत्ययः, उभयत्र वृषादित्वादाद्युदात्तत्वम् ।।
5 अश्वमुत्सृजति - भूरसीति ।। भूः भावयिता त्वं विश्वस्यापि । 'बहुलमन्यत्रापि' इति णिलुक् । तस्मात् भुवे यत्किंचिद्भूतमतिक्रान्तं वस्तु तदर्थं तद्भावनार्थं त्वामुत्सृजामीति । 'भूतेऽपि दृश्यन्ते' इत्यौणादिकः क्विप्, 'सावेकाचः' इति विभक्तेरुदात्तत्वम् । भव्याय भवते वस्तुने । 'भव्यगेय' इति वर्तमाने यत्, 'यतोऽनावः' इत्याद्युदात्तत्वम् । भविष्यते वस्तुने च त्वामुत्सृजामि । 'शतुरनुमः' इति चतुर्थ्या उदात्तत्वम् । किं बहुना - विश्वेभ्यस्त्वा भूतेभ्यस्त्वामुत्सृजामीति ।।
6 अथैनं देवताभ्यो रक्षार्थं परिददाति - देवा इत्यादि ।। हे देवा आशापाला दिशां गोप्तारः । 'विभाषितं विशेषवचने बहुवचनम्' इति पूर्वस्याविद्यमानवत्त्वाभावः । एवमश्वं मेधाय यज्ञायाभिप्रोक्षितं अत एव महार्घं एतमश्वं देवेभ्यो देवार्थं गोपायत रक्षत । 'शतं वै तल्प्या राजपुत्रा देवा आशापालाः' इति ब्राह्मणम् ।।
इति सप्तमे प्रथमे द्वादशोनुवाकः ॥