पञ्चशत् 1 #
अत्रि॑रददा॒दौर्वा॑य प्र॒जां पु॒त्रका॑माय॒ स रि॑रिचा॒नो॑ऽमन्यत॒ निर्वी᳚र्यः शिथि॒लो या॒तया॑मा॒ स ए॒तं च॑तूरा॒त्र-म॑पश्य॒त् तमाऽह॑र॒त् तेना॑यजत॒ ततो॒ वै तस्य॑ च॒त्वारो॑ वी॒रा आऽजा॑यन्त॒ सुहो॑ता॒ सू᳚द्गाता॒ स्व॑द्ध्वर्युः॒ सुस॑भेयो॒ य ए॒वं ॅवि॒द्वाꣳश्च॑तूरा॒त्रेण॒ यज॑त॒ आऽस्य॑ च॒त्वारो॑ वी॒रा जा॑यन्ते॒ सुहो॑ता॒ सू᳚द्गाता॒ स्व॑द्ध्वर्युः॒ सुस॑भेयो॒ ये च॑तुर्विꣳ॒॒शाः पव॑माना ब्रह्मवर्च॒सं त - [ ]
पदपाठः (Word-by-word)
अत्रिः॑ । अ॒द॒दा॒त् । और्वा॑य । प्र॒जामिति॑ प्र - जाम् । पु॒त्रका॑मा॒येति॑ पु॒त्र - का॒मा॒य॒ । सः । रि॒रि॒चा॒नः । अ॒म॒न्य॒त॒ । निर्वी᳚र्य॒ इति॒ निः - वी॒र्यः॒ । शि॒थि॒लः । या॒तया॒मेति॑ या॒त - या॒मा॒ । सः । ए॒तम् । च॒तू॒रा॒त्रमिति॑ चतुः - रा॒त्रम् । अ॒प॒श्य॒त् । तम् । एति॑ । अ॒ह॒र॒त् । तेन॑ । अ॒य॒ज॒त॒ । ततः॑ । वै । तस्य॑ । च॒त्वारः॑ । वी॒राः । एति॑ । अ॒जा॒य॒न्त॒ । सुहो॒तेति॒ सु - हो॒ता॒ । सू᳚द्गा॒तेति॒ सु - उ॒द्गा॒ता॒ । स्व॑द्ध्वर्यु॒रिति॒ सु - अ॒द्ध्व॒र्युः॒ । सुस॑भेय॒ इति॒ सु - स॒भे॒यः॒ । यः । ए॒वम् । वि॒द्वान् । च॒तू॒रा॒त्रेणेति॑ चतुः - रा॒त्रेण॑ । यज॑ते । एति॑ । अ॒स्य॒ । च॒त्वारः॑ । वी॒राः । जा॒य॒न्ते॒ । सुहो॒तेति॒ सु - हो॒ता॒ । सू᳚द्गा॒तेति॒ सु - उ॒द्गा॒ता॒ । स्व॑द्ध्वर्यु॒रिति॒ सु - अ॒द्ध्व॒र्युः॒ । सुस॑भेय॒ इति॒ सु - स॒भे॒यः॒ । ये । च॒तु॒र्विꣳ॒॒शा इति॑ चतुः - विꣳ॒॒शाः । पव॑मानाः । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । तत् ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ चत्वारश्चतूरात्रा भवन्ति आत्रेयजामदग्न्यवसिष्ठसंसर्प विश्वामित्रसंजयाख्याः । तत्रात्रेयाश्च षष्ठोमाचतुरा[ ...याश्चतुर्वीरषोडशिमच्चतु- र्था]दिनामानः चत्वारश्चतूरात्राः । जामदग्न्यादीनां त्रयाणां चैक इति । तत्रात्रेयचतूरात्रेषु चतुर्षु प्रथमम् चतुर्वीराख्यं चतूरात्रं विधातुमाह - अत्रिरददादित्यादि ।। ऊर्वपुत्रः और्वः । 'अनृष्यानन्तर्ये' इति विदादित्वादञ् । तस्मै और्वाय पुत्रकामायात्मीयां प्रजामपत्यत्वेनाददात् । पुत्रं कामयत इति 'शीलिकामि' इत्यादिना णः, पूर्वपदप्रकृतिस्वरत्वं च । अथ स रिरिचानः रिच्यमानः प्रजारहितः इत्थममन्यत - निर्वीर्यः प्रजोत्पादनसामर्थ्यरहितोस्मि, शिथिलः कार्याक्षमः यातयामा गतसारश्चास्मि ।।
2 स एतं चतूरात्रमित्यादि ।। गतम् । आहरत् आहरत । तेनायजत तेन कर्मणा देवानपूजयत् । ततस्तस्यात्रेः चत्वारो वीरा आजायन्त, आङाभिमुख्ये मर्यादायां वा । सुहोता सूद्गाता स्वध्वर्युः सुसभेयः । शोभनत्वं च होत्रादीनां आत्मीयसमस्तवेदव्याख्यानकुशलत्वम् । सभायां साधुस्सभेयः, 'छन्दसि' इति डः । सर्वयज्ञप्रयोगवित् सुसभेयस्सदस्य इत्येते । सर्वत्राव्ययपूर्वपदप्रकृतिस्वरत्वम् । द्वितीये 'स्वरितो वा नुदात्ते पदादौ' इत्येकादेशस्स्वर्यते, तृतीये 'उदात्तस्वरितयोर्यणः' इत्यादिना । य एवमित्वादि । गतम् ।।
3 ये चतुर्विंशा इत्यादि ।। चतुर्विंशस्तोत्रियास्त्रयोपि पवमानाबहिष्पवमानादयो भवन्ति ब्रह्मवर्चसं तत् गायत्रसामान्यात् । चतुर्विंशस्य 'चतुर्विंशत्यक्षरा गायत्री' इति कृत्वा, तद्धेतुत्वात्ताच्छब्द्यम् । य उद्यन्तस्स्तोमा भवन्ति उत्तरोत्तरमहीयांसः यथा - त्रिवृत्प्रथममहः, पञ्चदशो द्वितीयः, सप्तदशस्तृतीयः, एकविंशश्चतुर्थ इति सा स्वयं श्रीः । पूर्ववत्ताच्छब्द्यम् । त्रिवृत्प्रथमस्याह्नः प्रातस्सवनम्, पञ्चदशं माध्यन्दिनं सवनम्, सप्तदशं तृतीयं सवनम्, अथ द्वितीयस्याह्नः पञ्चदशं प्रातस्सवनं, सप्तदशं माध्यन्दिनं सवनम् । एकविंशं तृतीयसवनम् । अथ तृतीयस्याह्नस्सप्तदशं प्रातस्सवनम्, एकविंशं माध्यन्दिनं सवनं, त्रिणवं तृतीयसवनम् । चतुर्थस्याह्नः एकविंशं प्रातस्सवनम्, त्रिणव माध्यन्दिनं' सवनम्, त्रयस्त्रिंशं तृतीयसवनम्, एवमुद्यन्तस्स्तोमाः श्रीरिति ।।
4 अत्रिमित्यादि ।। श्रद्धादेवं श्रद्धाप्रधानं वीर्याणि वीर्यहेतुभूतानि तेजः प्रभृतीनि नोपानमन् नोपागच्छत् । सोत्रिः एतान् चतुरश्चतुष्टोमान् त्रिवृदादिस्तोमकान् स्तोमान् चतूरात्रानपश्यत्, तानाहरत् तैश्चायजत । तत्र प्रथमेन चतूरात्रेण तेजोवरुन्धे, इन्द्रियादीनि च द्वितीयादिभिश्चतूरात्रैः ।।
5 य एवं विद्वानित्यादि ।। ननु 'यामेवात्रिर् ऋद्धिमार्ध्रोत्' इति किमुच्यते, 'तेज एव प्रथमेन' इत्यादिना गतार्थत्वात् । नैवम्, न तेजः प्रभृत्युपसंग्रहार्थमिदं भवति, अपि तु यामन्यामप्यत्रिः ऋद्धिमार्ध्नोत्, तामपीति प्रतिपादयितुम् । तेन 'तस्य चत्वारो वीरा आऽजायन्त' इत्येतदपि संगृहीतं भवति । ऋद्धिमार्ध्नोदिति गोपोषं पुष्णातीतिवद्द्रष्टव्यम् ।।
इति सप्तमे प्रथमे अष्टमोनुवाकः ॥