पञ्चशत् 1 #
पृ॒थि॒व्यै स्वाहा॒ ऽन्तरि॑क्षाय॒ स्वाहा॑ दि॒वे स्वाहा॒ ऽग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॒ सूर्या॑य॒ स्वाहा॑ च॒न्द्रम॑से॒ स्वाहा ऽह्ने॒ स्वाहा॒ रात्रि॑यै॒ स्वाह॒र्जवे॒ स्वाहा॑ सा॒धवे॒ स्वाहा॑ सुक्षि॒त्यै स्वाहा᳚ क्षु॒धे स्वाहा॑ ऽऽशिति॒म्ने स्वाहा॒ रोगा॑य॒ स्वाहा॑ हि॒माय॒ स्वाहा॑ शी॒ताय॒ स्वाहा॑ ऽऽत॒पाय॒ स्वाहा ऽर॑ण्याय॒ स्वाहा॑ सुव॒र्गाय॒ स्वाहा॑ लो॒काय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
पृ॒थि॒व्यै । स्वाहा᳚ । अ॒न्तरि॑क्षाय । स्वाहा᳚ । दि॒वे । स्वाहा᳚ । अ॒ग्नये᳚ । स्वाहा᳚ । सोमा॑य । स्वाहा᳚ । सूर्या॑य । स्वाहा᳚ । च॒न्द्रम॑से । स्वाहा᳚ । अह्ने᳚ । स्वाहा᳚ । रात्रि॑यै । स्वाहा᳚ । ऋ॒जवे᳚ । स्वाहा᳚ । सा॒धवे᳚ । स्वाहा᳚ । सु॒क्षि॒त्या इति॑ सु - क्षि॒त्यै । स्वाहा᳚ । क्षु॒धे । स्वाहा᳚ । आ॒शि॒ति॒म्ने । स्वाहा᳚ । रोगा॑य । स्वाहा᳚ । हि॒माय॑ । स्वाहा᳚ । शी॒ताय॑ । स्वाहा᳚ । आ॒त॒पायेत्या᳚ - त॒पाय॑ । स्वाहा᳚ । अर॑ण्याय । स्वाहा᳚ । सु॒व॒र्गायेति॑ सुवः - गाय॑ । स्वाहा᳚ । लो॒काय॑ । स्वाहा᳚ । सर्व॑स्मै । स्वाहा᳚ ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ दीक्षाहुतयः - पृथिव्यै स्वाहेत्यादि ।। एकविंशतिः । निगदव्याख्याताः । ऋज्वादयः पृथिव्यादयो लोकाः । यथोक्तं - 'इयं वा ऋजुः । अन्तरिक्षं साधु । असौ सुक्षितिः' इति । सुक्षित्यै, स एव स्वरः । क्षुधे 'सावेकाचः' इत्युदात्तत्वम् । आशितिम्ने आशितमसुहितं तत्स्वभावाय । छन्दसीमनिच् । यद्वा - आशितृशब्दात् 'छन्दसि' इतीमनिच्, 'तुरिष्ठेमेयस्सु' इति एकदेशस्य ऋकारस्य लोपश्छान्दसः, उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । रोगाय । गतम् । सर्वस्मै याऽनुक्ता दीक्षादेवता, यश्च उपसर्गः, यश्च फलभूतः, पुण्यलोकः? तस्मै सर्वस्मै स्वाहेति ।।
सप्तमे प्रथमे सप्तदशोनुवाकः ॥