अनुवाकः 15 TS 7.1.15

(A15)

(पृ॒थि॒व्यै सूर्या॑य॒ नक्ष॑त्रेभ्यः॒ प्राच्यै॑ स॒प्तच॑त्वारिꣳशत्)

अनुवाकः 15 - Complete Audio

TS 7.1.15 - स्वरानुगामी

0:00 0:00
PS1.1 पृ॒थि॒व्यै स्वाहा॒ ऽन्तरि॑क्षाय॒ स्वाहा॑
PS1.2 दि॒वे स्वाहा॒ सूर्या॑य॒ स्वाहा॑
PS1.3 च॒न्द्रम॑से॒ स्वाहा॒ नक्ष॑त्रेभ्यः॒ स्वाहा॒
PS1.4 प्राच्यै॑ दि॒शे स्वाहा॒ दक्षि॑णायै
PS1.5 दि॒शे स्वाहा᳚ प्र॒तीच्यै॑ दि॒शे
PS1.6 स्वाहो-दी᳚च्यै दि॒शे स्वाहो॒र्द्ध्वायै॑ दि॒शे
PS1.7 स्वाहा॑ दि॒ग्भ्यः स्वाहा॑ ऽवान्तरदि॒शाभ्यः॒
PS1.8 स्वाहा॒ समा᳚भ्यः॒ स्वाहा॑ श॒रद्भ्यः॒
PS1.9 स्वाहा॑ ऽहोरा॒त्रेभ्यः॒ स्वाहा᳚ ऽर्द्धमा॒सेभ्यः॒
PS1.10 स्वाहा॒ मासे᳚भ्यः॒ स्वाहा॒र्तुभ्यः॒ स्वाहा॑
PS1.11 संॅवथ्स॒राय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.1.15.1 TS 7.1.15.1
पृ॒थि॒व्यै स्वाहा॒ ऽन्तरि॑क्षाय॒ स्वाहा॑ दि॒वे स्वाहा॒ सूर्या॑य॒ स्वाहा॑ च॒न्द्रम॑से॒ स्वाहा॒ नक्ष॑त्रेभ्यः॒ स्वाहा॒ प्राच्यै॑ दि॒शे स्वाहा॒ दक्षि॑णायै दि॒शे स्वाहा᳚ प्र॒तीच्यै॑ दि॒शे स्वाहो-दी᳚च्यै दि॒शे स्वाहो॒र्द्ध्वायै॑ दि॒शे स्वाहा॑ दि॒ग्भ्यः स्वाहा॑ ऽवान्तरदि॒शाभ्यः॒ स्वाहा॒ समा᳚भ्यः॒ स्वाहा॑ श॒रद्भ्यः॒ स्वाहा॑ ऽहोरा॒त्रेभ्यः॒ स्वाहा᳚ ऽर्द्धमा॒सेभ्यः॒ स्वाहा॒ मासे᳚भ्यः॒ स्वाहा॒र्तुभ्यः॒ स्वाहा॑ संॅवथ्स॒राय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
पृ॒थि॒व्यै । स्वाहा᳚ । अ॒न्तरि॑क्षाय । स्वाहा᳚ । दि॒वे । स्वाहा᳚ । सूर्या॑य । स्वाहा᳚ । च॒न्द्रम॑से । स्वाहा᳚ । नक्ष॑त्रेभ्यः । स्वाहा᳚ । प्राच्यै᳚ । दि॒शे । स्वाहा᳚ । दक्षि॑णायै । दि॒शे । स्वाहा᳚ । प्र॒तीच्यै᳚ । दि॒शे । स्वाहा᳚ । उदी᳚च्यै । दि॒शे । स्वाहा᳚ । ऊ॒र्ध्वायै᳚ । दि॒शे । स्वाहा᳚ । दि॒ग्भ्य इति॑ दिक् - भ्यः । स्वाहा᳚ । अ॒वा॒न्त॒र॒दि॒शाभ्य॒ इत्य॑वान्तर - दि॒शाभ्यः॑ । स्वाहा᳚ । समा᳚भ्यः । स्वाहा᳚ । श॒रद्भ्य॒ इति॑ श॒रत् - भ्यः॒ । स्वाहा᳚ । अ॒हो॒रा॒त्रेभ्य॒ इत्य॑हः - रा॒त्रेभ्यः॑ । स्वाहा᳚ । अ॒द्‌र्ध॒मा॒सेभ्य॒ इत्य॑द्‌र्ध-मा॒सेभ्यः॑ । स्वाहा᳚ । मासे᳚भ्यः । स्वाहा᳚ । ऋ॒तुभ्य॒ इत्यृ॒तु - भ्यः॒ । स्वाहा᳚ । सं॒ॅव॒थ्स॒रायेति॑ सं - व॒थ्स॒राय॑ । स्वाहा᳚ । सर्व॑स्मै । स्वाहा᳚ ॥
पदसंख्या: 47
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ पूर्वा ऋतुदीक्षाः - पृथिव्यै स्वाहेत्यादि ।। गताः । पृथिव्यास्स एव स्वरः । 'ऊडिदम्' इति दिवः । 'सावेकाचः' इति दिशः । दिग्भ्य इति सामान्येनोच्यते । अवान्तरदिशाः कोणाः । समाशरच्छब्दौ संवत्सरविशेषवचनौ । गतौ गतेरिष्यन्? वर्षवचनावित्येके । इह तु ताभ्यां तदवयवभूताः सूक्ष्मा यामघटिकानिमेषादयो गृह्यन्ते । सर्वस्मै यौ दिक्कालकार्यौ यौ च दिक्कालावनुक्तौ तस्मै सर्वस्मै स्वाहेति ।।
इति सप्तमे प्रथमे पञ्चदशोनुवाकः ॥