पा॑रया ऽऽदि॒त्यस्ते॑ वाजि॒न्॒ युङ्ङनु॒ त्वा ऽऽ र॑भे स्व॒स्ति मा॒ सं पा॑रय प्राण॒धृग॑सि प्रा॒णं मे॑ दृꣳह व्यान॒धृग॑सि व्या॒नं मे॑ दृꣳहा ऽपान॒धृग॑स्यपा॒नं म॑ दृꣳह॒ चक्षु॑रसि॒ चक्षु॒र्मयि॑ धेहि॒ श्रोत्र॑मसि॒ श्रोत्रं॒ मयि॑ धे॒ह्यायु॑र॒स्यायु॒र्मयि॑ धेहि ॥
पदपाठः (Word-by-word)
पा॒र॒य॒ । आ॒दि॒त्यः । ते॒ । वा॒जि॒न्न् । युङ् । अन्विति॑ । त्वा॒ । एति॑ । र॒भे॒ । स्व॒स्ति । मा॒ । समिति॑ । पा॒र॒य॒ । प्रा॒ण॒धृगिति॑ प्राण - धृक् । अ॒सि॒ । प्रा॒णमिति॑ प्र - अ॒नम् । मे॒ । दृꣳ॒॒ह॒ । व्या॒न॒धृगिति॑ व्यान - धृक् । अ॒सि॒ । व्या॒नमिति॑ वि - अ॒नम् । मे॒ । दृꣳ॒॒ह॒ । अ॒पा॒न॒धृगित्य॑पान - धृक् । अ॒सि॒ । अ॒पा॒नमित्य॑प - अ॒नम् । मे॒ । दृꣳ॒॒ह॒ । चक्षुः॑ । अ॒सि॒ । चक्षुः॑ । मयि॑ । धे॒हि॒ । श्रोत्र᳚म् । अ॒सि॒ । श्रोत्र᳚म् । मयि॑ । धे॒हि॒ । आयुः॑ । अ॒सि॒ । आयुः॑ । मयि॑ । धे॒हि॒ ॥