गावो॒ वा ए॒तथ् स॒त्रमा॑सताशृ॒ङ्गाः स॒तीः शृङ्गा॑णि॒ सिषा॑सन्ती॒स्तासां॒ दश॒ मासा॒ निष॑ण्णा॒ आस॒न्नथ॒ शृङ्गा᳚ण्यजायन्त॒ ता अ॑ब्रुव॒न्नरा॒थ्स्मोत् ति॑ष्ठा॒माव॒ तं काम॑मरुथ्स्महि॒ येन॒ कामे॑न॒ न्यष॑दा॒मेति॒ तासा॑मु॒ त्वा अ॑ब्रुवन्न॒र्द्धावा॒ याव॑ती॒र्वाऽऽसा॑महा ए॒वेमौद्वा॑द॒शौ मासौ॑ संॅवथ्स॒रꣳ स॒पांद्योत् ति॑ष्ठा॒मेति॒ तासां᳚ - [ ]
पदपाठः (Word-by-word)
गावः॑ । वै । ए॒तत् । स॒त्रम् । आ॒स॒त॒ । अ॒शृ॒ङ्गाः । स॒तीः । शृङ्गा॑णि । सिषा॑सन्तीः । तासा᳚म् । दश॑ । मासाः᳚ । निष॑ण्णा॒ इति॒ नि - स॒न्नाः॒ । आसन्न्॑ । अथ॑ । शृङ्गा॑णि । अ॒जा॒य॒न्त॒ । ताः । अ॒ब्रु॒व॒न्न् । अरा᳚थ्स्म । उदिति॑ । ति॒ष्ठा॒म॒ । अवेति॑ । तम् । काम᳚म् । अ॒रु॒थ्स्म॒हि॒ । येन॑ । कामे॑न । न्यष॑दा॒मेति॑ नि - अस॑दाम । इति॑ । तासा᳚म् । उ॒ । तु । वै । अ॒ब्रु॒व॒न्न् । अ॒द्र्धाः । वा॒ । याव॑तीः । वा॒ । आसा॑महै । ए॒व । इ॒मौ । द्वा॒द॒शौ । मासौ᳚ । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । स॒पांद्येति॑ सं - पाद्य॑ । उदिति॑ । ति॒ष्ठा॒म॒ । इति॑ । तासा᳚म् ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 पुनरपि गवामयनस्यैव विशेषं दर्शयति - गाव इत्यादि ॥ गतम् । सिषासन्तीः सिषासन्त्यः लब्धुमिच्छन्त्यः । सनोतेः 'जनसनखनाम्' इत्यात्वम्, 'सुपां सुलुक्' इति पूर्ववत् सवर्णदीर्घत्वम् । ता अब्रुवन्निति । दशमासव्यपगमे जातशृङ्गाः सर्वा गावोऽब्रुवन्; कथं? - आरात्स्म ऋद्धिं गता वयं, उत्तिष्ठामेदानीमभिमतं काममवारुत्स्महि लब्धवत्यो वयं शृङ्गजन्मात्मकं येन कामेन न्यषदाम आसिष्महे, नास्त्येवान्योस्माकं कामः, तत' उत्तिष्ठाम इति ॥
2 तासामु त्वा इत्यादि ॥ उ तु वै इति त्रयो निपाताः अवधारणविशेषप्रसिद्धिषु । तासामेव तु मध्ये अर्धा ऋद्धाः शृङ्गकामाः जातशृङ्गाः ताश्चाब्रुवन् । चार्थे वाशब्दः । ऋधेर्निष्ठायां छान्दसो गुणः । यावतीर्वा स्वयं भावानतिरेकिण्यः यावत्यश्च अन्याः शृङ्गकामाः किमेभिरुत्थितैरिति । अत एव जातगृङ्गाः ताश्चाब्रुवम् । कथमब्रुवन् । यद्वा - अर्धा एकादशा यावतीर्वा सर्वा आसामहा इत्यर्थः । आसामहा एव इमौ द्वादशौ मासौ नोत्तिष्ठाम इति इमावप्यासित्वा संपाद्योत्तिष्ठामेति । द्वादशानां पूरणौ द्वादशौ सत्सु हि द्वादशसु द्वादशापि द्वादशाः । अत्रेदं चिन्त्यम् - दशसु मासेषु या जातशृङ्गाः ता द्वादशौ मासो पुनः किमर्थमासतेति । अथ यास्त्वशृङ्गकामाः ता अस्मादेव दशमासानासीनाः पुनरपि द्वादशौ मासौ कस्मादेवासत इति । अयं भावः - जातशृङ्गा अपि शृङ्गश्रद्धया शृङ्गगुणान् कामयन्तेस्म प्रथमाः । उत्तरास्तु अन्यदेव किंचित् श्रेयः कामयन्तेस्म न शृङ्गेषु तासां श्रद्धेति । तदिदमुभयमपि स्वयमेव स्पष्टीकरोति - तासां द्वादश इत्यादि । अत्र या दशमासानासित्वा जातशृङ्गा उत्थिताः ता विरूपशृङ्गा आसन् । अथ या द्वादशावपि मासावासत तासां द्वादशे मासि समाप्ते संवत्सरे शृङ्गाणि प्रावर्तन्त प्रकृष्टरूपाण्यभवन् । अथ यासां श्रद्धा आसामहा एवेमौ द्वादशाविति तासां या श्रद्धा हेतुभूता शृङ्गविषया तया हेतुभूतयेत्यर्थः । अथ या अशृङ्गकामा द्वादशौ मासावासते ता इमा अभवन् यास्तूपरा उच्यन्ते । अत्र हेतुरश्रद्धयेति । शृङ्गश्रद्धया अभावात् तूपरा अभवन्निति । अत्रापि वाशब्दः समुच्चये श्रद्धया च अश्रद्धया चेत्यर्थः । तासामभवदिति । उपसंहरति - उभय्य इति । द्विप्रकारा अपि ता आर्ध्नुवन् ऋद्धिं गताः याश्च शृङ्गाण्यसन्वन् समभजन्त याश्चोर्जमलभन्तेति । ऋध्नोतीत्यादि । विदुषः फलम् । उभयनिमित्ताऽपि तस्य सिद्धिर्भवतीति । 'पद्दन्' इत्यादिना मासादेशे अन्त्यलोपश्छान्दसः ॥
3 ननु युक्तं द्वादशसु मासेषु ऋध्नुवन्तीति, संवत्सरस्याविकलमनुष्ठितत्वात् । कथं दशसु मासेषु ऋध्नुयुरित्याह - पदेनेत्यादि ॥ पदेन मार्गेण खल्वेते यन्ति वर्तन्ते । पदेन हि यन् गच्छन् सत्स्वपि स्खलितेषु विन्दति लभतेऽभिमतम् । किंच - तदेतत्खल्वयनं संवत्सरात्मकं ऋद्धं सर्वेणापि प्रकारेण ऋद्धिकृत् एवं दशमास्यप्येतद्विहितं भवति । तस्मादेतद्गोसनि गवामप्यविकल्पेनाभिमतस्य लम्भयितृ 'छन्दसि वनसन' इतीन्प्रत्ययः, कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
इति सप्तमे पञ्चमे द्वितीयोनुवाकः ॥